| YouTube Channel

कीनाशः (kInAzaH)

 
Apte Hindi
Hindi
कीनाशः
पुं*
- "क्लिश् कन्, उपधाया ईत्वम्, लस्य लोपो नामागमश्च"
मृत्यु के देवता यम की उपाधि
कीनाशः
पुं*
- "क्लिश् कन्, उपधाया ईत्वम्, लस्य लोपो नामागमश्च"
एक प्रकार का बन्दर
शब्दकल्पद्रुमः
Sanskrit
कीनाशः,
पुं,
(क्लिश्नातीति क्लिशू विबाधने वधे वा ।“क्लिशेरीच्चोपधायाः लोपश्च लो नाम् च” ।उणां ५६
इति कन् उपधाया ईत्वं ललोपोनामागमश्च ।) यमः इत्यमरः २१४
(“विधेहि कीनाशनिकेतनातिथिं ।” माघः ।१ ७३
) वानरविशेषः इति तट्टीकायांस्वामी
कीनाशः, त्रि, (क्लिश्नातीति क्लिशूविवाधने वधेच “क्लिशेरीच्चोपधाया लोपश्च लो नाम् च” ।उणां ५६ इति कन् उपधाया ईत्वं ललोपोनामागमश्च ।) कर्षकः (यथा मनुः १५० ।“कीनाशो गोवृषो यानमलङ्कारश्च वेश्म ।विप्रस्योद्धारिकं देयमेकांशश्च प्रधानतः”
)क्षुद्रः पशुघाती इति मेदिनीकरहेमचन्द्रौ