| YouTube Channel

किञ्जल्कं (kiJjalkaM)

 
शब्दकल्पद्रुमः
Sanskrit
किञ्जल्कं,
क्ली,
(किञ्चित् जलति जल् अपवारणे+ बाहुलकात् कः ।) नागकेशरपुष्पम् पद्मा-भ्यन्तरस्थं केशाकारं करहाटकवेष्ठनम् केसरइति ख्यातम् (यथा, रघुः १५ ५२ ।“स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्”
)तत्पर्य्यायः मकरन्दम् किशरम् पद्मकेशरम्४ किञ्जम् पीतपरागम् तुङ्गम् चाम्पे-यकम् अस्य गुणाः मधुरत्वम् रूक्षत्वम् ।कटुत्वम् आस्यब्रणापहत्वम् शिशिरत्वम् ।रुच्यत्वम् पित्ततृष्णादाहविनाशित्वञ्च इतिराजनिर्घण्टः