काली (kAlI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishकाली - kAlI - - ink or blacking
कालक - kAlaka - - ink or blacking
Monier Williams Cologne
EnglishMonier Williams 1872
Englishकाली, f., N. of Durgā, the wife of the god Śiva.
—काली-कुल-सर्वस्व, N. of a work.
—काली-त-
नय, अस्, m. a buffalo (‘son or favourite of Durgā, ’
more correctly हंसकाली-तनय).
—काली-पु-
राण, अम्, n. the Purāṇa of Kālī, title of an Upa-
purāṇa.
—काली-माहात्म्य, अम्, n. = चण्डिका-मा-
हात्म्य.
—काली-रहस्य, title of a work.
—काली-
शिव, अस्, m., N. of the author of the Kalpa-kedāra.
—काली-हृदय, title of a work.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiकाली
- काल - ङीष्
कालिमा
काली
- काल - ङीष्
"मसी, काली मसी"
काली
- काल - ङीष्
"पार्वती की उपाधि, शिव की पत्नी"
काली
- काल - ङीष्
काले बादलों की पंक्ति
काली
- काल - ङीष्
काले रंग की स्त्री
काली
- काल - ङीष्
व्यास की माता सत्यवती
काली
- काल - ङीष्
रात
Shabdartha Kaustubha
Kannadaकाला - ली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
विस्तारः - > ವರ್ಣವಿಶಿಷ್ಟವಾದರೆ काली ಎಂದೂ ಸಂಜ್ಞಾವಾಚಕವಾದರೆ काला ಎಂದೂ ಆಗುವುದು.
काला - ली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕರಿಯ ತಿಗಡೆ ಮರ
काला - ली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕರಿಯ ಜೀರಿಗೆ
काला - ली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೀಲಿ ಗಿಡ
काला - ली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮಂಜಿಷ್ಠೆ
विस्तारः - > "कालोऽनेहा यमो मृत्युः श्यामो ना तद्वति त्रिषु । काला तु कृष्णत्रिवृते नीलिन्यां कृष्णजीरके ॥" - नानार्थर० ।
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಲಿಕಾದೇವಿ /ದುರ್ಗಾದೇವಿಯ ಒಂದು ರೂಪ
प्रयोगाः - > "प्रीतेन तेन प्रभुणा नियुक्ता काली कलत्रस्य मुदे प्रियस्य"
उल्लेखाः - > कुमा० ९-४९
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕ್ಷೀರಕೀಟ /ಹುಳಿ ಬಂದ ಹಾಲಿನಲ್ಲಿ ಹುಟ್ಟುವ ಒಂದು ಜಾತಿಯ ಹುಳು
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೊಸ ಮೇಘಗಳ ಸಮೂಹ
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಪವಾದ
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸಪ್ತ ಮಾತೃಗಳಲ್ಲಿ ಒಬ್ಬಳು
प्रयोगाः - > "तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकाशे"
उल्लेखाः - > कुमा०७-३९
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಭೀಮಸೇನನ ಒಬ್ಬ ಹೆಂಡತಿ
प्रयोगाः - > "अथ घटोत्कचः । भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः"
उल्लेखाः - > भाग० ९-२-२४
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಪ್ಪು ಬಣ್ಣದ ಹೆಂಗಸು
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ರಾತ್ರಿ
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಗ್ನಿಯ ೭ ಜಿಹ್ವೆಗಳಲ್ಲೊಂದು
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸತ್ಯವತಿ /ಶಂತನು ಚಕ್ರವರ್ತಿಯ ಪತ್ನಿ /ವೇದವ್ಯಾಸರ ತಾಯಿ
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪರಶಿವನ ೯ ಶಕ್ತಿಗಳಲ್ಲೊಂದು
विस्तारः - > "काली कलेबरा भूतदमनी चेशशक्तयः ।" - वैज० । "कादम्बिनी मेघमाला काली कृष्णनवाम्बुदः" - वैज० ।
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಬಜ್ಜಿ ಬದನೆಕಾಯಿ
विस्तारः - > "बृहत्यां प्रहसा काली वार्ताकी हिङ्गुदी कुली" - वैज० ।
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹಿಪ್ಪಲಿ
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹತ್ತು ವಿಧ ಮಹಾವಿದ್ಯೆಗಳಲ್ಲಿ ಒಂದು
प्रयोगाः - > "काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा । वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकीर्तिताः ॥"
उल्लेखाः - > तन्त्रसा०
विस्तारः - > "कालो मृत्यौ महाकाले समये यमकृष्णयोः । कृष्णत्रिवृत्तौ काला तु नीलीमञ्जिष्ठयोरपि । काली गौर्यां क्षीरकीटे कालिकामातृभेदयोः । नवाम्बुवाहवृन्देऽपि परिवादेऽपि च क्वचित्" - विश्व० ।
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪರಶಿವನ ಪತ್ನಿ
निष्पत्तिः - > "ङीष्" (४-१-४८)
व्युत्पत्तिः - > कालस्य शिवस्य पत्नी
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಪ್ಪು ಬಣ್ಣದ ಹೆಂಗಸು
निष्पत्तिः - > काल - "ङीष्" (४-१-४२)
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹಿಮವಂತನ ಮಗಳಾದ ಪಾರ್ವತಿ
प्रयोगाः - > "सुतामनुजगामाशु गतां कालीं हराश्रयम्"
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
प्रयोगाः - > "काली करालवदना विनिषक्रान्तासिपाशिनी"
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಭೀಮಸೇನನ ಒಬ್ಬ ಪತ್ನಿ
प्रयोगाः - > "युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः । भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः ॥"
उल्लेखाः - > भाग० ९-२२-३०
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ರಾತ್ರಿ
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಗ್ನಿಯ ಸಪ್ತ ಜ್ವಾಲೆಗಳಲ್ಲೊಂದು
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಳರಾತ್ರಿ
काली
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಂತ್ರೋಕ್ತವಾದ ೧೦ ಮಹಾವಿದ್ಯೆಗಳಲ್ಲೊಂದು
L R Vaidya
EnglishEdgerton Buddhist Hybrid
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit काली
अग्नेः सप्तसु जिह्वासु एका।
"क्रमानुसारेण काली अग्नेः प्रथमा जिह्वा अस्ति।"
मुरला, काली
नदीनाम।
"मुरला केरळप्रान्ते अस्ति।"
रेवती, महारौद्री, आद्या, काली, भेरुण्डा, कालिका
नवदुर्गासु एका या कृष्णवर्णीया अस्ति।
"नवरात्रि-उत्सवे सप्तमे दिने रेवत्याः पूजनं क्रियते।"
मञ्जिष्ठा, विकसा, जिङ्गी, समङ्गा, कालमेषिका, मण्डूकपर्णी, भण्डीरी, भण्डी, योजनवल्ली, कालमेषी, काली, जिङ्गिः, भण्डिरी, भण्डिः, हरिणी, रक्ता, गौरी, योजनावल्लिका, वप्रा, रोहिणी, चित्रलता, चित्रा, चित्राङ्गी, जननी, विजया, मञ्जूषा, रक्तयष्टिका, क्षत्रिणी, रागाढ्या, कालभाण्डिका, अरुणा, ज्वरहन्त्री, छत्रा, नागकुमारिका, भण्डीरलतिका, रागाङ्गी, वस्त्रभूषणा
लताप्रकारः यस्याः पुष्पाणि पीतानि तथा च लघूनि सन्ति।
"मञ्जिष्ठायाः दण्डात् तथा च सूलात् रक्तः वर्णः प्राप्यते।"
वृश्चिकाली, वृश्चिपत्री, विषघ्नी, नागदन्तिका, सर्पदंशष्ट्रा, अमरा, काली, उष्ट्रधूसरपुच्छिका, विषाणी, नेत्ररोगहा, उष्ट्रिका, अलिपर्णी, दक्षिणावर्तकी, कालिका, आगमावर्ता, देवलाङ्गूलिका, करभी, भूरीदुग्धा, कर्कशा, स्वर्णदा, युग्मफला, क्षीरविषाणिका, भासुरपुष्पा
क्षुपविशेषः, यस्य तीक्ष्णपत्राणां दंशः वृश्चिकवत् दाहकः अस्ति (आयुर्वेदे अस्य हृद्रक्तशुद्धिकारीकत्वं रक्तपित्तविबन्धारोचकापहत्वम् इत्यादि गुणाः प्रोक्ताः)
"अत्र वृश्चिकाली समुद्भूता/"वृश्चिकाली विषघ्नी तु कासमारुतनाशिनी [राजवल्लभः]"
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
मसिः, मसी, मषि, मषी, मसिका, मसीजलम्, मलिनाम्बु, पत्राञ्जनम्, कालिका, काली, वर्णिका, मेला, गोला
लेखनद्रव्यम् तत् चित्रं द्रव्यं येन वस्त्रे कार्पासे वा लेखनं कर्तुं शक्यते।
"मम लेखन्यां रक्तवर्णीया मसिः अस्ति।"
रात्रिः, निशा, रजनी, क्षणदा, क्षपा, शर्वरी, निश्, निद्, त्रियामा, यानिनी, यामवती, नक्तम्, निशीथिनी, तमस्विनी, विभावरी, तमी, तमा, तमिः, ज्योतष्मती, निरातपा, निशीथ्या, निशीथः, शमनी, वासुरा, वाशुरा, श्यामा, शताक्षी, शत्वरी, शर्या, यामिः, यामी, यामिका, यामीरा, याम्या, दोषा, घोरा, वासतेयी, तुङ्गी, कलापिनी, वायुरोषा, निषद्वरी, शय्या, शार्वरी, चक्रभेदिनी, वसतिः, काली, तारकिणी, भूषा, तारा, निट्
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
"यदा दिक्षु च अष्टासु मेरोर् भूगोलकोद्भवा। छाया भवेत् तदा रात्रिः स्याच्च तद्विरहाद् दिनम्।"
कृष्णाभा, कालाञ्जनी, काली, अञ्जनी, रेचनी, शिलाञ्जनी, नीलाञ्जनी
एकः क्षुपः- अस्याः गुणाः कटुत्वं उष्णत्वं अमलत्वं कृमिशोधनत्वं जाठरमयनाशित्वं च ।
"कृष्णाभायाः वर्णनं कोशे वर्तते"
काली, कालकी
एका दक्षकन्या ।
"काली कालेयस्य माता अस्ति"
कृष्णाभा, कालाञ्जनी, काली, अञ्जनी, रेचनी, शिलाञ्जनी, नीलाञ्जनी
एकः क्षुपः- अस्याः गुणाः कटुत्वं उष्णत्वं अमलत्वं कृमिशोधनत्वं जाठरमयनाशित्वं च ।
"कृष्णाभायाः वर्णनं कोशे वर्तते"
अभिधानचिन्तामणिः
Sanskritगौरी काली पार्वती मातृमातापर्णा रुद्राण्यम्बिका त्र्यम्बकोमा ।
दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजार्या कुमारी ॥ २०३ ॥
सती शिवा महादेवी शर्वाणी सर्वमङ्गला ।
भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा ॥ २०४ ॥
निशुम्भशुम्भमहिषमर्दिनी भूतनायिका ।
गौरी (स्त्री), काली (स्त्री), पार्वती (स्त्री), मातृमातृ (स्त्री), अपर्णा (स्त्री), रुद्राणी (स्त्री), अम्बिका (स्त्री), त्र्यम्बका (स्त्री), उमा (स्त्री), दुर्गा (स्त्री), चण्डी (स्त्री), सिंहयाना (स्त्री), मृडानी (स्त्री), कात्यायनी (स्त्री), दक्षजा (स्त्री), आर्या (स्त्री), कुमारी (स्त्री), सती (स्त्री), शिवा (स्त्री), महादेवी (स्त्री), शर्वाणी (स्त्री), सर्वमङ्गला (स्त्री), भवानी (स्त्री), कृष्णस्वसृ (स्त्री), मैनाकस्वसृ (स्त्री), मेनाजा (स्त्री), अद्रिजा (स्त्री), ईश्वरा (स्त्री), निशुम्भमथनी (स्त्री), शुम्भमथनी (स्त्री), महिषमथनी (स्त्री), भूतनायिका (स्त्री)
रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा ।
चक्रेश्वरी नरदत्ता काल्यथासौ महापरा ॥ २३९ ॥
गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी ।
वैरोट्याछुप्ता मानसी महामानसिकेति ताः ॥ २४० ॥
विद्यादेवी (स्त्री), रोहिणी (स्त्री), प्रज्ञप्ति (स्त्री), वज्रशृङ्खला (स्त्री), कुलिशाङ्कुशा (स्त्री), चक्रेश्वरी (स्त्री), नरदत्ता (स्त्री), काली (स्त्री), महाकाली (स्त्री), गौरी (स्त्री), गान्धारी (स्त्री), सर्वास्त्रमहाज्वाला (स्त्री), मानवी (स्त्री), वैराट्या (स्त्री), अच्छुप्ता (स्त्री), मानसी (स्त्री), महामानसिका (स्त्री)
अभिधानरत्नमाला
Sanskritरुद्राणी
रुद्राणी, शर्वाणी, काली, कात्यायनी, भवानी, आर्या, अम्बिका, मृडानी, हैमवती, पार्वती, गौरी, उमा, भगवती, दुर्गा, चण्डी, दाक्षायणी, शिवा, अपर्णा, महादेवी, गिरिजा, मेनकात्मजा
रुद्राणी शर्वाणी काली कात्यायनी भवानी च ।
आर्याम्बिका मृडानी हैमवती पार्वती गौरी ॥ १५ ॥
उमा भगवती दुर्गा चण्डी दाक्षायणी शिवा ।
अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥ १६ ॥
verse 1.1.1.15
page 0003
नाममाला
Sanskritसारङ्गी, शवरी, काली, कल्माषी, नीलपिञ्जरी
सारङ्गी शवरी काली कल्माषी नीलपिञ्जरी ॥ १५० ॥
verse 0.1.1.150
page 0073
वैजयन्तीकोषः
SanskritWord: काली
Root: काली
Gender: स्त्री
Number: all
अर्थः ⇒ शिवशक्तयः
Meaning(s):
⇒ One of the nine Śivaśaktis
Shloka(s):
1|1|49|2 ► काली कलेवरा भूतिदमनी चेशशक्तयः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
➠ 1|1|49|2 ⇢ काली (काली) (स्त्री) ⇒ One of the nine Śivaśaktis ⇒ शिवशक्तयः
Related word(s):
isa_k ➡ शिवशक्तयः
गुण-गुणी-भावः ➡ शिवः
उपाधि ➡ शक्तिः
Mahabharata
EnglishKālī^1 = Satyavatī, the wife of Śāntanu. I, 2209 (janayām āsa yaṃ Kºī Śaktreḥ putrāt Parāśarāt, sc. Vyāsa), 4244
V, 4975, 4987, 5976 (Gandhavatī)
VI, 5601.
Kālī^2 = Durgā (Umā): IV, 195
VI, 796
X, 387.
पुराणम्
Englishकाली १ / KĀLĪ I. A synonym of satyavatī, mother of vyāsa. (See under adrikā and satyavatī).
काली २ / KĀLĪ II. An aspect or form of pārvatī. (See under pārvatī).
काल्या / KĀLYĀ (kālī). Mother of vyāsa. (agni purāṇa, Chapter 278).
शब्दकल्पद्रुमः
Sanskritकाली, (कालः कृष्णवर्णोऽभ्त्यस्याः । काल + “जा-नपदकुण्डगोलस्थलभाजनागकालनीलेत्यादिना” ।४ । १ । ४२ । ङीष् ।) शान्तनुराजपत्नी । इति त्रि-काण्डशेषः ॥
(कालः शिवः । तस्य पत्नीति ङीष् ।)कालिका । अम्बिकाललाटनिष्क्रान्ता देवी । यथा, “ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।कोपेन चास्या वदनं मसीवर्णमभूत्तदा ॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।काली करालवदना विनिष्क्रान्तासिपाशिनी” ॥
इति मार्कण्डेयपुराणे ८७ । ५ ॥
* ॥
अन्यच्च ।“देव्या ललाटनिष्क्रान्ता या कालीति च विश्रुता ।तस्यास्तन्त्रं प्रवक्ष्यामि कामद शृणु भैरव ! ॥
समाप्तिसहितो दन्त्यः प्रान्त्यस्तस्मात् पुरःसरः ।षष्ठस्वराग्निविन्द्विन्दुसहितो मादिरेव च ॥
कालीतन्त्रमिति प्रोक्तं धर्म्मकामाथदायकम् ।एतन्मूर्त्तिं प्रवक्ष्यामि वत्सैकाग्रमनाः शृण ॥
नीलोत्पलदलश्यामा चतुर्ब्बाहुसमन्विता ।खटठ्वाङ्गं चन्द्रहासञ्च बिभ्रती दक्षिणे करे ॥
वामे चर्म्म च पाशञ्च ऊर्द्ध्वाधो भावतः पुनः ।दधती मुण्डमालाञ्च व्याघ्रचर्म्मवराम्बरा ॥
कृशाङ्गी दोर्घदंष्ट्रा च अतिदीर्घातिभीषणा ।लोलजिह्वा निम्नरक्तनयना नादभैरवा ॥
कवन्धवाहना पीनविस्तारश्रवणानना ।एषा ताराह्वया देवी चामुण्डेति च कथ्यते ॥
एतस्या योगिनीश्चाष्टौ पूजयेञ्चिन्तयेदपि ।त्रिपुरा भीषणा चण्डी कर्त्री हन्त्री विधातृका ॥
कराला शूलिनी चेति अष्टौ ताः परिकीर्त्तिताः ।एषातिकामदा देवी जाड्यहानिकरी सदा ॥
एतस्याः सदृशी काचित् कामदा न हि विद्यते” ।इति श्रीकालिकापुराणे उत्तरतन्त्रे ६० अध्यायः ।क्षीरकीटः । मातृभेदः । उमा । नवमेघसमूहः ।परीवादः । इति हेमचन्द्रः ॥
कालाञ्जनी । तुवरी ।त्रिवृत् । रात्रिः । इति राजनिर्घण्टः ॥
अग्नि-शिखाभेदः । इति जटाधरः ॥
(यथा, मुण्डकोप-निषदि १ । २ । ४ ।“कालीकराली च मनोजवा चसुलोहिता या च सुधूम्रवर्णा ।स्फुलिङ्गिनी विश्वरूपी च देवीलेलायमाना इति सप्त जिह्वा” ॥
वृश्चिकालीवृक्षः । इति रत्नमाला । (कालियाविछाटी इति भाषा ॥
लता । यथा वैद्यके ।“सप्तपर्णस्तथा काली गुडुची पिचुमर्द्दकम्” ॥
* ॥
भीमसेनस्य पत्नीभेदः । यथा, भागवते ९ । २२ । ३१ ।“युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः ।भीमसेनात् हिडिम्बायां, काल्यां सर्व्वगतस्ततः” ॥
मातृकाध्यानं चामुण्डाशब्दे द्रष्टव्यम् । कालिकायाध्यानं लिख्यते यथा --“करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥
सद्यश्छिन्नशिरःखङ्गवामाधोर्द्धकराम्बुजाम् ।अभयं वरदञ्चैव दक्षिणोर्द्धाधपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ।कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम् ॥
कर्णावतंसतानीतशवयुग्मभयानकाम् ।घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसंधातैः कृतकाञ्चीं हसन्मुखीम् ।सृक्वद्वयगलद्रक्तधाराविष्फुरिताननाम् ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् ।बालार्कमण्डलाकारलोचनत्रितयान्विताम्दन्तुरां दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम् ।शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥
शिवाभिर्घोररादभिश्चतुर्द्दिक्षु समन्विताम् ।महाकालेन च समं विपरीतरतातुराम् ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।एवं सञ्चिन्तयेत् कालिं सर्व्वकामार्थ सिद्धिदाम्” ॥
इति तन्त्रसारधृतकालतन्त्रम् ॥
(कालशक्त्या सर्व्वमिदं जगत् परिचालयति सैवकाली प्रकीर्त्तिता यद्वा कालयति कलयति वाउत्पादयति पालयति प्रलये पुनरात्मन्येव विला-पयतीति काली आद्या मूलप्रकृतिः महत्तत्वा-देरुत्पत्तिलयादीनामाधारभूता । कलिहलि का-मधेनुरिति कलधातुः बह्वर्थबोधिनी स्वरूपतःब्रह्मणः सकाशात् नानाविधजगद्विचित्रविर्म्माण-समर्था बुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः कालीतिसंज्ञया प्रकीर्त्त्यते । एतत् प्रबोधनाय समासतःकतिपयवचनान्यत्रोद्धृतानि यथायथं द्रष्टव्यानि ।तथाहि ज्ञानसङ्कलिनीतन्त्रे । भागवते च ।“सा माया पालिनीशक्तिः सृष्टिसंहारकारिणी ।सा वा एतस्य संस्रष्टुः शक्तिः सदसदात्मिका ॥
माया नाम महाभाग ! ययेदं निर्म्ममे विभुः” ।एषैव पारमेश्वरी मूलशक्तिः दुर्ब्बलाधिकारिणा-मुपासनासौकर्य्याय तन्त्रादिशास्त्रेषु कालीश्यामा-तारादिविविधनामरूपैः कल्पिता ॥
यथा, --“या देवी सर्व्वभूतेषु विष्णुमायेति शब्दिता” ।चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगदिति” ॥
इति मार्कण्डेयपुराणीयदेवीमाहात्म्ये देवकृत-देव्याः स्तुतौ । ८५ । १२, ३४ । तथा च महा-निर्व्वाणोक्ते ४ र्थ उल्लासे । देवीं प्रति सदाशि-वोक्तिः ।“त्वं परा प्रकृतिः साक्षात् ब्रह्मणः परमात्मनः ।महत्तत्त्वादिभूतान्तं त्वया सृष्ठमिदं जगत् ॥
निमित्तमात्रं तद्ब्रह्म सर्व्वकारणकारणत् ।तस्येच्छामात्रमालम्ब्य त्वं महायोगिनी परा ॥
करोषि पासि हंस्यन्ते जगदेतच्चराचरम् ।कलनात् सर्व्वभूतानां महाकालः प्रकीर्त्तितः ।महाकालस्य कलनात् त्वमाद्या कालिकापरा ॥
कालत्वादादिभूतत्त्वादाद्या कालीति गीयते ॥
ध्यानन्तु द्विविधिं प्रोक्तं स्वरूपारूपभेदतः ।स्वरूपं तव यद्ध्यानमवाङ्मनसगोचरम् ॥
मनसोधारणार्थाय शीध्रं स्वाभीष्टसिद्धये ।सूक्ष्मध्यानप्रबोधाय स्थूलध्यानं वदामि ते ॥
अरूपायाः कालिकायाः कालमातुर्महाद्युतेः ।गुणक्रियानुसारेण क्रियते रूपकल्पना” ॥
तस्या अरूपाया महाकाल्या कथमेव रूप-कल्पनादिकमिति जिज्ञासितवतीं पार्व्वतीं प्रतिभगवतः शिवस्योत्तरदानं तत्रैव १३ उल्लासे ॥
“उपासकानां कार्य्याय पुरैव कथितं प्रिये ! ।गुणक्रियानुसारेण रूपं देव्याः प्रकल्पितम् ॥
श्वेतपीतादिको वर्णो यथा कृष्णे विलीयते ।प्रविशन्ति तथा काल्यां सर्व्वभूतानि शैलजे ! ॥
अवस्तस्याः कालशक्तेर्निर्गुणाया निराकृतेः ।हितायाः प्राप्तयोगानां वर्णः कृष्णो निरूपितः ॥
नित्यायाः कालरूपाया अव्ययायाः शिवात्मनः ।अमृतत्वात् ललाटेऽस्याः शशिचिह्नं निरूपितम् ॥
शशिसूर्य्याग्निभिर्नित्यै रखिलं कालिकं जगत् ।सम्पश्यति यतस्तस्मत् कल्पितं नयनत्रयम्” ॥
तस्याः स्थूलध्यानं यथा तत्रैव ५ म उल्लासे ।“मेघाङ्गीं शशिशेखरां त्रिनयनां रक्ताम्बरंबिभ्रतीं पाणिभ्यामभयं वरञ्च विलसद्रक्तारविन्दस्थिताम् ॥
मेघाङ्गीमिति वर्णनेनास्याः कृष्णवर्णत्वं सूचितंपरो अरूपाया निराकृतेः कालशक्तेरेव ध्याना-लम्बनतया ज्ञापकत्वमिति यावत् ॥
शशिशेखरेत्युक्त्या शशी चन्द्रः जीवसमष्टिःसर्व्वजीववीजस्वरूपो हिरण्यगर्भो ब्रह्मा एवचन्द्रनाम्नाख्यायते अतएवास्या देव्या ललाटे ऊर्द्ध्व-देशे इति निर्देशात् समस्तजडशक्तिभ्यः पृथक्कृत्वा जीवशक्तेरुत्कर्षं बोधयति यथा, --“भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।जीवरूपां महाबाहो ! ययेदं धार्य्यते जगत्” ॥
अतोऽस्या जीवशक्त्याधायकतया सैव परमात्म-रूपिणी चिदानन्दमयीति प्रबोध्यते । यदि चस्थानमेदे क्वचित् परब्रह्मणः सकाशादस्याः पा-र्थक्यं दृश्यते तत्तु केवलमज्ञानां क्रियाविशेषबोध-नायैव स्वरूपतः अग्नेर्दाहिकाशक्तिवत् सर्व्वत्रैवशास्त्रकृद्भिस्तयोरभेदः प्रतिपादितः । त्रिनयन-मित्युक्त्या सर्व्वज्योतिःपदार्थानां प्रधानभूता-श्चन्द्रसूर्य्याग्रयः प्रकाशशक्तेराधिक्यात् तैरेवास्यादेव्या नयनत्रितयत्वेन प्रकल्पितं वस्तुतः सर्व्व-प्रकाशकानां सूर्य्यादीनां सैवान्तर्यामितयाधिष्ठा-त्रीदेवतात्मरूपिणीति बोध्यम् ॥
रक्ताम्बरं बिभ्रतीं इति सृष्टिकरणर्थं सैव परमा-त्मरूपिणी रजोगुणोद्रेकरूपमम्बरं वस्त्रं आवरण-शक्तिमिति भावः बिभ्रतीं धारिणीं । पाणिभ्या-ममयं वरञ्च इति भक्तसाधकानां रक्षार्थं कुशला-र्थञ्च वराभयदानरूपशक्तिद्वयस्य पाणिद्वयत्वेनकल्पितं रक्तारविन्दस्थितामिति रजोगुणसमुद्भ-वाया इच्छाशक्तेरेवारविन्दत्वेन प्रकल्पनं कृतमितिबोध्यम् । अतः स्थूलध्यानादीनां यदिचापाततःस्थूलदृष्ट्या नामरूपादिस्थूलजडभावो लक्ष्यते परंसर्व्वत्रैव तेषां सूक्ष्मार्थरूपपरमात्मन्येव गूढता-त्पर्य्यार्थः प्रतिफलत्येव विजानद्भिरेव तत्सर्व्वतो-ज्ञातुं शक्यते । न ह्येतदस्माकं केवलं स्वकपोल-कल्पनामात्रं श्रीमद्भगवद्गीताप्रभृतितत्त्वज्ञान-प्रतिपादकशास्त्रेषु विशेषतोनिश्चितं किञ्च प्रकृ-तिपुरुषयोरपि तत्तच्छास्त्रे भूयोभूयोऽविनश्वर-त्वमनादित्वं चाङ्गीकृतम् ।“प्रकृतिं पुरुषञ्चैव बिद्ध्यनादी उभावपीत्यादि” ।भूरिभूरि प्रमाणाणि सन्ति बाहुल्यभिया नैवास्मद्भिस्तान्युद्धृतानि ॥
)
वाचस्पत्यम्
Sanskritकाली स्त्री कालस्य शिवस्य पत्नी ङीष् । १ शिवपत्न्याम् ।“ऊर्द्ध्वरेता भवःकांलः इति” भाग० ३, ९, २ शिवस्यकालनामतोक्तेस्तस्यास्तथात्वम् । कालवर्ण्णा स्त्री “काला-त्वर्ण्णश्चेत्” वार्त्ति० ङीष् । २ कृष्णवर्ण्णायां स्त्रियाम् “का कालीकामधुरा “विदग्धमु० ३ हिमाचलदुहितरि उमायां तस्याश्चजन्मतः नीलाञ्जननिभवर्ण्णतया तथात्वम् । “सुतामनुज-गामाशु गतां कालीं हराश्रमम्” । “तां तत्र कालींतनयाम् भयशोकाकुलामुमाम्” कालि० ४० अ० ।“कालि! भिन्नाञ्जनश्यामे! उर्वश्याद्यप्सरोगणैः” ।“गौरत्वासादनञ्चैव कालिकायास्तथा श्रुतम्” इति चतत्र तस्यागौरत्वप्राप्तिकथनम् । ४ दुर्गामूर्त्तिभेदे “कालीकरालवदना विनिष्क्रान्तासिपाशिनी । विचित्रखट्वाङ्गधरा नरमालाविभूषणा । द्वीपिचर्म्मपरीधानाशुष्कमांसातिभैरबा” इत्यादि देवीमा० तदाविर्भावौक्तः ।सा च बहुविधा सिद्धकाली महाकाली गुह्यकालीदक्षिणाकाली भद्रकाली श्मशानकाली रक्षाकालीतिभेदात् तथा अन्येऽपि तद्भेदा भैरवत० दर्शिता यथा“काली कपालिनी कुल्वा कुरुकुल्वा विरोधिनी । वि-प्रचित्ता तथोग्रोग्रप्रभा नीलघनत्विषः । नीला घनाबलाका च मात्रा मुद्रा मिता तथा । एताः सर्व्वा अ-सिधरा मुण्डमालाविभूषिताः” । “कालि! कालिमहाकालि! शीधुमांसपशुप्रिये” भा० वि० ४, अ० । ५मातृभेदे “काली कपालाभरणा चकाशे” कुमा० ६भीमसेनस्य पत्नीभेदे । “युधिष्ठिरात्तुपौरव्यां देवको-ऽथ घटोत्कचः । भीमसेनाद्धिडिम्बायां काल्यासर्व्वगतस्ततः भाग० ९, २२, २४ । भा० आ०९५ अ० तु“भीमसेनोऽपि काश्यां बलन्धरां नामोपयेमे वीर्य्यशुल्कां, तस्यां पुत्रं सर्व्वगमुत्पादयामास” इत्युक्तं तदैकवाक्यात्काश्यामित्येव पाठः समुचितः गन्धकालीत्यस्य पूर्व्व-पदलोपः । काली ७ दासकन्यायां गन्धकाल्यां सत्यवत्याम्शान्तनुपत्न्याम् । “भीष्मः खलु पितुः प्रियचिकीर्षया सत्य-बतीं मातरमुदवाहयत् गन्धकालीमितियामाहुः” भा० आ०९५ अ० । कल--नोदने अच् गौरा० ङीष् । ८ तुवर्य्याम् ९ त्रिवृति१० रात्रौ ११ कालाञ्जन्याम् राजनि० १२ तयोः कृष्णत्वात्तथा-त्वम् अग्निशिखाभेदे जटाधरः । अग्निजिह्वशब्दे दर्शित-शारदातिलकवाक्ये एतस्याः तच्छिखासु नान्तर्भाव इतिचिन्त्यम् । १३ वृश्चिकालौ (विचाति) रत्नमाला । १४ काल-रात्रौ यमभगिन्याम् तन्त्रोक्तासु दशमहाविद्यासु आद्यायां१५ महाविद्यायाम् ताश्च “काली तारा महाविद्याषोडशी भुवनेश्वरी, भैरवी छिन्नमस्ता च विद्या घूमावतीतथा । वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एतादश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः” तन्त्रसा०“कालीपूजा श्रुता नाथ! भावाश्च विविधाः प्रभो!”भैरवत० “तारायाश्चैव काल्याश्च त्रिपुराया विशेषतः ।जनने मरणे चैव न त्यजेयुर्जपार्चने” तन्त्र०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
