| YouTube Channel

कालयवन (kAlayavana)

 
शब्दसागरः
English
कालयवन
m.
(-नः) An Asura, an enemy of KRISHNA, destroyed by him
by stratagem.
E.
काल black, यवन् a Yavana.
Yates
English
काल-यवन (नः) 1.
m.
An
Asura.
Wilson
English
कालयवन
m.
(-नः) An Asura, an enemy of KṚṢṆA, destroyed by
him by stratagem.
E.
काल black, यवन a Yavana.
Monier Williams Cologne
English
काल—यवन
m.
N.
of a prince of the Yavanas,
Hariv.
VP.
of a tyrannical Asura (the foe of Kṛṣṇa, destroyed by him by a stratagem), ib.
N.
of a Dvīpa,
Daś.
Macdonell
English
कालयवन kāla-yavana,
m.
N. of a Dvīpa
🞄-yāpa,
m.
: -na,
n.
, -nā,
f.
procrastination
🞄-yoga,
m.
conjuncture of time or fate
point 🞄of time: -tas, ad. according to circumstances
🞄-loha,
n.
iron, steel
-vāla,
a.
having a black 🞄tail
-vid,
a.
knowing the times
-vidyā,
f.
🞄knowledge of chronology or the calendar
🞄-vibhakti,
f.
division of time
-vṛddhi,
f.
🞄kind of illegal interest
-vyatīta, pp. for 🞄which the right time has passed.
Apte Hindi
Hindi
कालयवनः
पुं*
काल - यवनः -
यवनों का राजा कृष्ण का शत्रु
Shabdartha Kaustubha
Kannada
कालयवन
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಯವನರಿಗೆ ಒಡೆಯನಾದ ಒಬ್ಬ ದೊರೆ /ಯಾದವರಿಗೆ ಅಜೇಯನಾದ ಒಬ್ಬ ಶತ್ರು /ಯಾದವರ ಪುರೋಹಿತರಾದ ಗರ್ಗಋಷಿಯ ಮಗ
प्रयोगाः - > "ये चान्ये कालयवनसाल्वरुक्मिद्रुमादयः"
उल्लेखाः - > माघ० २-९८
Mahabharata
English
Kālayavana, a prince. § 717b (Nārāyaṇīya): XII, 340, 12959 (yaḥ Kºḥ khyāto Gārgyatejobhisambhṛtaḥ, will be slain by Nārāyaṇa incarnate as Kṛshṇa, cf. Harivaṃśa, v. 6425 foll.).
पुराणम्
English
कालयवन / KĀLAYAVANA. A powerful asura born out of the effulgence of Gargācārya. He was killed by Śri kṛṣṇa. (See under kṛṣṇa).
वाचस्पत्यम्
Sanskrit
कालयवन
पु०
कर्म्म० यवनाधिपे नृपभेदे ।“मिथ्याभिशस्तो गार्ग्यस्तु मन्युनाभिसमीरितः गोप-कन्यामुपादाय मैथुनायोपचक्रमे गोपाली त्वप्सरा-स्तस्य गोपस्त्रीवेशधारिणी धारयामास गार्ग्यस्यगर्भं दुर्द्धरमच्युत! मानुष्यां गार्ग्यभार्य्यायां नियो-गाच्छूलपाणिनः कालयवनोनाम जज्ञे राजा-महाबलः वृषपूर्व्वार्द्धकायास्तमवहन् वाजिनो रणे ।अपुत्रस्य राज्ञस्तु ववृधेऽन्तःपुरे शिशुः यवनस्यमहाराज! कालयवनोऽभवत् योद्धुकामो नृपतिःपर्य्यपृच्छद्द्विजोत्तमम् वृष्ण्यन्धककुलं तस्य नारदोऽ-कथयद्विभुः अक्षौहिण्या तु सैन्यस्य मथुरामभ्यया-त्तदा दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम् ततो-वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् समेतामन्त्रयामासुर्यवनस्य भयात्तदा कृत्वा निश्चयं सर्व्वे पला-यनमरोचयन् विहाय मथुरां रम्यां मानयन्तः पिना-किनम् कुशस्थलीं हारवतीं निवेशयितुमीप्सवः” हरि०३६ अ० “अस्ति तस्य रणे जेता यवनाधिपतिर्नृपः ।स कालयवनो नाम अबध्यः केशवस्थ तत्वा सु-दारुणं घोरं तपः परमदुश्चरम् रुद्रमाराधयामास द्वाद-शाब्दान् यशोधनः पुत्रकामेण मुनिनातोष्यरुद्रं सुतोवृतः माथुराणाममबध्योऽसौ भवेदिति शङ्क-रात् एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् एवंगार्ग्यस्य तनयः श्रीमान् रुद्रवरोद्भवः माथुराणाम-बध्योऽसौ मथुरायां विशेषतः कृष्णोऽपि बलवानेषमाथुरो जातवानयम्” हरिवं १११ अ० “वासुदेवस्तुतं दृष्ट्वा निहतं योगमात्मनः उत्सृज्य मथुरामाशुद्वारकामभिजग्मिवान्! वैरस्यान्तं विधित्संस्तु वासुदेवोमहायशाः निवेश्य द्वारकां राजन्! वृष्णीनाश्वास्यचैव पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा ।आजगाम महायोगी मथुरां मधुसूदनः तं दृष्ट्वानिर्ययौ हृष्टः सकालयवनोरुषा प्रेक्षापूर्व्वञ्च कृष्णोऽपिनिश्चक्राम महाबलः अथान्वगच्छद्गोविन्दं जिघृक्षु-र्यवनेश्वरः चैनमशकद्राजा ग्रहीतुं योगधर्मिणम् ।मान्दातुस्तु सुतो राजा मुचुकुन्दो महायशाः पुरादेवासुरे युद्वे कृतकर्मा महाबलः वरेण च्छन्दितोदेवैर्निद्रामेव गृहीतवान् श्रान्तस्य तस्य वागेवं तदाप्रादुरभूत् किल प्रसुप्तं बोधयेद्यो मां तं दहेयमहंसुराः! चक्षुषा क्रोधदीप्तेनेत्येवमाह पुनः पुनः ।एवमस्त्विति तं शक्र उवाच त्रिदशैः सह सुरैरभ्य-नुज्ञातत्वद्रिराजमुपागमत् पर्व्वतगुहां काञ्चित्प्रविश्य श्रमकर्षितः सुष्वाप कालमेतं वै यावत् कृष्णस्यदर्शनम् तत् सर्व्वं वासुदेवस्य नारदेन निवेदितम् ।वरदानञ्च देवेभ्यस्तेजस्तस्य भूपतेः कृष्णोऽनुगम्यमानश्चतेन म्लेच्छेन शत्रुणा तां गुहां मुचुकुन्दस्य प्रविवेशविनीतवत् शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।सन्दर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः अनुप्रविश्ययवनो ददर्श पृथिवीपतिम् तं सुप्तं कृतान्ता-भमाससाद सुदुर्म्मतिः वासुदेवन्तु तं मत्वाघट्टयामास पार्थिवम् पादेन पादमाक्रम्य पादस्प्रर्श-प्रबोधितः चुकोप निद्राच्छेदेन पादस्पर्शेनतेन संस्मृत्य वरं शक्रादवैक्षत तमग्रतः ।स दृष्टमात्रः क्रुद्धेन प्रजज्वाल सर्व्वतः ददाहपावकस्तन्तु शुष्कं वृक्षमिवाशनिः क्षणेन कालयवनं नेत्रतेजोविनिर्गतः” हरि० ११५ अ० तद्बघकथा