कालचक्र (kAlacakra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishकालचक्र - kAlacakra - - wheel of fortune
कालचक्र - kAlacakra - - philosophies and meditation practices contained within Kalachakra Tantra [ Vajrayana Buddhism ]
कालचक्र - kAlacakra - - wheel of time
कालचक्र - kAlacakra - - given revolution of time
कालचक्र - kAlacakra - - cycle
कालचक्र - kAlacakra - - Tantric deity of Vajrayana Buddhism [ Yidam in Tibetan ]
कालचक्र - kAlacakra - - philosophies and meditation practices contained within Kalachakra Tantra [ Vajrayana Buddhism ]
कालचक्र - kAlacakra - - philosophies and meditation practices contained within Kalachakra Tantra [ Vajrayana Buddhism ]
कालचक्र - kAlacakra - - Tantric deity of Vajrayana Buddhism [ Yidam in Tibetan ]
कालचक्र kAlacakra wheel of time
अर ara spoke of the time-wheel
कालनेमि kAlanemi felly of the wheel of time
पञ्चमार paJcamAra 5th spoke in the wheel of time
सुषमा suSamA second ara or spoke of a time-wheel in an avasarpiNI
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
EnglishApte Hindi
Hindiकालचक्रम्
काल - चक्रम् -
समय का चक्र
कालचक्रम्
काल - चक्रम् -
चक्र
कालचक्रम्
काल - चक्रम् -
"संपत्ति का चक्र, जीवन की, परिस्थितियाँ"
Shabdartha Kaustubha
Kannadaकालचक्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಚಕ್ರದಂತೆ ಉರುಳುತ್ತಿರುವ ಕಾಲ
व्युत्पत्तिः - > कालस्य चक्रमिव
प्रयोगाः - > "यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलम्भमानत्वात् एवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरेचोपलभ्यमानत्वात्"
उल्लेखाः - > भाग० ५-२२-२
कालचक्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಾಲರೂಪವಾದ ಚಕ್ರ
व्युत्पत्तिः - > कालस्य कालगतेः चक्रमिव
प्रयोगाः - > "एवमेष चरन् पार्थ कालचक्रमतन्द्रितः । प्रकर्षन् सर्वभूतानि सविता परिवर्तते ॥"
उल्लेखाः - > भा० वन० १६३-४०
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishIndian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritअवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः ।
एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥ १२८ ॥
अर (पुं), कालचक्र (क्ली)
Mahabharata
EnglishKālacakra(ḥ) = Sūrya (the Sun): III, 151.
शब्दकल्पद्रुमः
Sanskritकालचक्रं, (कालस्य कालगतेश्चक्रमिव ।) काल-रूपचक्रम् । यथाह -- हेमचन्द्रः ॥
“कालो द्विविधोऽवसर्पिण्युत्सर्पिणीषु भेदतः ।सागरकोटिकोटीनां विंशत्या स समाप्यते ॥
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः ।एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम्” ॥
ज्योतिश्चक्रविशेषः । यथा, --“त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके ।सम्बत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्” ॥
इति विष्णुपुराणे २ । ८ । ४ । चक्रमेवोपासनार्थंविशिष्यन्नाह । त्रिनाभिमतीति । नाभिः स्तम्भःयत्राक्षः प्रोतः स च त्रिमेखलः । अह्नश्चात्रनाभित्वेनोपास्यत्वात् मेखलारूपास्तिस्रो नाभयःपूर्व्वाह्णमध्याह्नापराह्णास्तद्युक्ते । पञ्चारे पञ्च संव-त्सरपरिवत्सरादयो वक्ष्यमाणा अराः शलाकायस्य सः तस्मिन् । षण्णेमिनि षट् ऋतवो नेमयःप्रान्तबलयानि तद्वति । कालात्मकत्वादक्षयात्मके ।संवत्सरमये संवत्सरावयवमासा रम्भकत्वात् संव-त्सरत्वेनोपास्यत्वाच्च तन्मयम् । तदुक्तं मात्स्ये ।“अहस्त्रिनाभिः सूर्य्यस्य त्वेकचक्रस्य वै स्मृतम् ।अराः संवत्सराः पञ्च नेम्यः षडृतवः स्मृताः” ॥
इति । तस्मिन् कालचक्रं कालोपलक्षणभूतं कृत्स्नंज्योतिश्चक्रं प्रतिष्ठितं आश्रितम् । सूर्य्यगत्यधीन-त्वात् कालचक्रफलस्य । इति तट्टीकायां श्रीधर-स्वामी ॥
(“स एष निमेषादियुगपर्य्यन्तः कालश्चक्र-वत् परिवर्त्त मानः कालचक्रमुच्यत इत्येके” ॥
इतिसुश्रुते सूत्रस्थाने ६ अध्याये ॥
)
वाचस्पत्यम्
Sanskritकालचक्र कालस्य कालगतेश्चक्रमिव । हेमच० उक्ते द्वादशारे१ कालचक्रभेदे । (उत्सर्पिन्) शब्दे ११३ पृ० विवृतिः ।कालश्चक्रमिवानिशं परिवर्त्तमानत्वात् । विष्णुपुराणाद्युक्तेज्योतिश्चक्राधिष्ठिते चक्रवत्परिवर्त्तमाने २ काले ।“यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणांपिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेपूपलभ्यमानत्वात्एवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुञ्चदक्षिणतः परिधावता सह परिधावमानानां तदाश्रयाणांसूर्य्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरेचोपलभ्यमानत्वात्” । भाग० ५ २२ ९श्लो । भा० व०१६३ अ० कलाकाष्ठादिविभागमुक्ता “एवमेष चरन् पार्थ!कालचक्रमतन्त्रितः । वर्द्धयन् सुमहातेजाः सविता परि-वर्त्तते” प्रपञ्चस्तु विष्णुपुराणे यथा“पराशर उवाच । व्याख्यातमेतद्ब्रह्माण्डसंस्थानंतव सुव्रत! । ततः प्रमाणसंस्थाने सूर्य्यादीनां शृणुष्वमे । योजनानां सहस्राणि द्वितीयोऽक्षो विवस्वतः ।ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम! । सार्द्धकोटि-स्तथा सप्तनियुतान्यधिकानि वै । योजनानान्तु तस्याक्ष-स्तत्र चक्रं प्रतिष्ठितम् । त्रिनाभिमति सञ्चारे षण्णेमि-न्यक्षयात्मके । संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् ।चत्वारिंशत् सहस्राणि द्वितीयोऽक्षो विवस्वतः । पञ्चा-प्यन्यानि सार्द्धानि स्यन्दनस्य महामते! । अक्षप्रमाण-मुभयोः प्रमाणं तदुयुगार्द्धयोः । ह्रस्वोऽक्षस्तत्युगार्द्धञ्चध्रुवाधाररथस्य वै । द्वितीयेऽक्षे तु तच्चक्रं स्थितं वै मान-साचले । हयाश्च सप्त छन्दांसि तेषां नामानि मे शृणु ।गायत्री च वृहत्युष्णिग्जगती त्रिष्टुबेव च । अनुष्टुप्पङ्क्तिरित्येताश्छन्दांसि हरयो रवेः । मानसोत्तरशैले तुपूर्व्वतो वासवी पुरी! दक्षिणेन यमस्यान्या प्रतीच्यांवरुणस्य वै । उत्तरेण तु सोमस्य तासां नामानि मेशृणु । वस्वेकसारा शक्रस्य, याम्या संयमनी स्मृता ।पुरी सुखा जलेशस्य, सोमस्य तु विभावरी । काष्ठाङ्गतोदक्षिणतः क्षिप्तेषुरिव भच्छति । नैत्रेय! भगवान्भानुज्योर्तिषां चक्रसं युतः । अहोरात्रव्यवस्थानकारणंभगवान् रविः । देवयानपरः पन्थायोगिनां क्लेशसंक्षये ।दिवसस्य रविर्भध्ये सर्व्वकालं व्यवस्थितः । सर्व्व द्वीपेषुमैत्रेय! निशार्द्धस्य च सम्मुखः । उदयास्तमनञ्चैव सर्व्व-कालञ्च सम्मुखे । दिशासु शेषासु तथा मैत्रेय! विदि-शासु च । यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ।तिरोभावञ्च यत्रैति यत्र च स्तमनं रवेः । नैवाष्तमनम-र्कस्य नोदयः सर्व्वदा मतः । उदयास्तमनाख्यं हिदर्शनादर्शनं रवेः । शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुर-त्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रील्लोँकान् द्वे पुरे तथा ।उदितोवर्द्धमानाभिरामध्याह्नात्तपन्रविः । ततःपरं हृसन्ती-भिर्गोभिरस्त नियच्छति । उदयास्तमनाभ्याञ्च स्मृतं पूर्व्वा-परे दिशौ । यावत् पुरस्तात्तपति तावत् पृष्ठे च पार्श्वतः ।ऋतेऽमरासुरैर्मेरोरुपरि ब्रह्मणः सभा । ये ये मरीच-योऽर्कस्य प्रयान्ति ब्रह्मणः सभाम् । ते ते निरस्तास्त-द्भासा प्रतीपम्युयान्ति वै । तस्यां दिश्युत्तरस्यां वै दिवा-रात्रिः सदैव हि । सर्व्वेषां द्वीपर्षाणां मेरुरुत्तरतोयतः । प्रभा विवस्वतो रात्रावस्तङ्गच्छति भास्करे ।विशत्यग्निमतोरात्रौ वह्निरेकः प्रकाशते । वह्निपादस्तथाभानुं दिनेष्वाविशति द्विज! । अतीव वह्निसंयोगादतःसूर्य्यः प्रकाशते । तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी । परस्परानुप्रवेशादापाय्येते दिवानिशम् ।दक्षिणोत्तरभूम्यर्द्धे समुत्तिष्ठति भास्करे । आताम्राहिभवन्त्यापोनक्तमह्नः प्रवेशनात् । दिनं विशति चैवाम्भोभास्करेऽस्तमुपागते । तस्माच्छुक्लीभवन्त्यापो नक्तमह्नःप्रवेशनात् । एवं पुष्करमध्येन यदा याति दिवाकरः ।त्रिंशद्भागास्तु मेदिन्यास्तदा मौहूर्त्तिकी गतिः । कुलालचक्रपर्य्यस्तो भ्रमन्नेव दिवाकरः । करोत्यतस्तदा रात्रिंबिमुञ्चन्मेदिनीं द्विज! । अयनस्योत्त्रस्यादौ मकरं यातिभास्करः । ततः कुम्भञ्च मीनञ्च राशे राश्यन्तरं द्विज! ।तेषुतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् । प्रयाति सविताकुर्व्वन्नहोरात्रं ततः समम् । ततोरात्रिक्षयं याति वर्द्धतेच दिनं दिनम् । ततश्च मिथुनस्यान्ते परं काष्ठामुपागतः ।राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम् । कुलालचक्र-पर्य्यस्तो यथा शीघ्रं प्रवर्त्तते । दक्षिणे प्रकेअमे सूर्य्यस्तथाशीघ्रं प्रवर्त्तते । अतिवेगित या कालं वायुम र्गवशाच्चलन् ।तस्मात् प्रकृष्टां भूमिञ्च कालेनान्येन गच्छति । सूर्य्योद्वाढ-शभिःशैघ्य्रान्मुहूर्त्तैर्दक्षिणायने । त्रयोदशार्द्धमृक्षाणामह्ना-चरति वै द्विज! । मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ।कुलालचकमध्यस्थो यथा मन्दं प्रसर्पति । तथोदगयनेसूर्य्यः सर्पते मन्दविक्रमः । तस्म द्दीर्घेण कालेन सूमि-मल्पन्तु गच्छति । अष्टादशमुहूर्त्तं यदुत्तरायणपश्चिमम् ।अहर्भवति तच्चाभिचरते मन्दविक्रमः । त्रयोदशार्द्धमह्रा तु ऋक्षाणां चरते रविः । मुहूर्त्तैस्तावदृक्षाणि रात्रौद्वादशभिश्चरन् । अधोमन्दतरं नाभ्यां चक्रं भ्रमति वै यथा, मृत्पिण्डवच्चक्रमध्ये ध्रुवो भवति वै तथा । कलालचक्रना-भिस्तु यथा तत्रैव वर्त्तते । ध्रुवस्तथाहि मैत्रेय! तथैवपरिवर्त्तते । उभयोः काष्ठयोर्मध्ये भ्रमतोर्मण्डलानि तु ।दिवा नक्तञ्च सूर्य्यस्य मन्दा शीघ्रा च वै गतिः । मन्दाह्नियस्मिन्नयते शीघ्रा नक्तं तदा गतिः । शीघ्रा निशियदा सा च तदा मन्दा दिवा गतिः । एवं प्रमाणेनैवैषमार्गं याति दिवाकरः । अहोरात्रेण योभऽङ्क्ते समस्ताराशयो द्विज । षडेवराशीन्यो भुङ्क्तेरात्रावच्यांश्च षड्-दिवा । राशिप्रमाणजनिता ह्रस्वदीर्घान्विता द्विज! । तथानिशायां राशीनां प्रमाणैर्लघुदीर्घता । दिनादेर्दीर्घह्रस्व-त्वं तद्भोगेनैअ जायते । उत्तमे प्रक्रमे शर्थ्रा निशिमन्दा गतिर्दिवा । दक्षिणे त्वयने चैव विपरीता विवस्वतः ।”नरपतिजयचर्य्योक्ते चतुरशीतिचक्रभध्ये ३ चक्रभेदे तत्-स्वरूपं चक्रशब्दे वक्ष्यते । दानार्थकल्पिते हेमा० दा० उक्तेरजतमये ४ चक्रमेदे यथा“चक्र रौप्यमयं कृत्वा मुक्तारश्मिमयात्मकम् । कृत्वामूर्द्ध्निशरच्चन्द्ररश्मिमध्यान्तरस्थितम् । त्वङ्मांसानि तुरौप्याणि गात्रेषु च समन्ततः । एवं ध्यानवतस्तस्तस चन्द्रः कृष्णतां व्रजेत् । ततोऽप्यनन्तरं पश्चात् स्थित्वाविप्रप्रदक्षिणम् । तं गृहीत्वा व्रजेद्दूरमदृष्टत्वमपि व्रजेत् ।स्वयञ्चामृतसंवाघतपूर्णकायस्थितिस्थितः । कालचक्रमिदंनाम्रा दानं मृत्युविनाशनम् । इदन्ते राजतं चक्रंरश्मिजालसमाकुलम् । अपनृत्युविनाशाय ददामीतिसमुच्चरन् । सुवर्णं दक्षिणायुक्तं ब्राह्मणाय निवेदयेत् ।एवं कृते विनश्येत अपमृत्युर्न संशयः । ततस्तस्मात्सदादेयमपमृत्युभयान्वितैः । ज्वरादिरोगग्रस्तैर्वा महापत्-पतितैरपि । ततो गृह्योक्तविधिना स्थापयेज्जातवेदसम् ।जुहुयात् कालनाम्ना तु शतमष्टोत्तरन्तिलैः । ततस्तुभोजयेद्भक्त्या विप्रान् द्वादशसंख्यया । स्वयमक्षारलवणंभुञ्जीत सकृदेव हि । एवं कृते नरीनूनं चिरं जीवेन्न संशयः”रव्यादिवारे नक्षत्रयोगभेदात् ५ दण्डभेदे कालदण्डशब्देविवृतिः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
