कारन्धम (kArandhama)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams 1872
EnglishShabdartha Kaustubha
Kannadaकारन्धम
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕರಂಧಮ ರಾಜನ ಮಗ /ಅವಿಕ್ಷತನೆಂಬ ದೊರೆ
निष्पत्तिः - > "अण्" (४-१-११२)
व्युत्पत्तिः - > करन्धमस्यापत्यम्
Mahabharata
EnglishKārandhama^1, a tīrtha. § 250 (Arjunavanavāsap.): I, 216, 7841 (one of the five Nārītīrthāni, visited by Arjuna).
Kārandhama^2 (“the son of Karandhama”) = Avikshit: XIV, 63, 80 (born at the beginning of the Tretā yuga), 214 (ºātmajaḥ, i.e. Marutta).
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकारन्धम करन्धमस्यापत्यं शिवा० अण् । १ करन्धमनृपस्यापत्ये अविक्षन्नाम्नि नृपे तदुत्पत्त्यादि “एतस्मात् कार-णाद्राजन्! विश्रुतः स करन्धमः । तस्य कारन्धमः पुत्र-स्त्रेतायुगमुखेऽभवत् । इन्द्रादनवरः श्रीमान् देवैरपि मुदु-जयः । तस्य सर्व्वे महीपालाः वर्त्तन्ते व्य वशे तदा ।स हि सम्राडभूत्तेषां वृत्तेन च बलेन च । अविक्षिन्नामधर्म्मात्मा वीर्य्येणेन्द्रसमोऽभवत्” इत्युपकमे “तस्य पुत्रोऽति-चक्राम पितरं गुणवत्तया । मरुत्तोनाम घर्म्मज्ञश्चक्रवर्त्तीमहायशाः” भा० आश्व० ४ अ० उक्तम् । २ गोत्रापत्ये अण् ।करन्धमपौत्रे अविक्षिन्नृपपुत्रे २ मरुत्ते नृपे च । “कथंयज्ञे मरुत्तस्य” इत्युपक्रमे “यदि सुश्रूषसे पार्थ । शृणुकारन्धमं नृपम्” तत्रैव ३ अ० मरुत्तस्य कारन्धममितिविशेषणात् । तस्येदमण् । ३ नारोतीर्थभेदे तत्तीर्थ-प्रादुर्भावादि भा० आ० २१७, १८ अ० । यथा“ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्सुपुण्यानि शोभनानि तपस्विभिः । वर्ज्जयन्ति स्म तीर्थानिपञ्च तत्र तु तापसाः । अवकीर्णानि यान्यासन् पुरस्तात्तुतपस्विभिः । अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम् ।कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत् । भारद्वाजस्यतीर्थन्तु पापप्रशमन महत् । एतानि पञ्च तीर्थानि ददर्शकुरुसत्तमः । विविक्तान्युपलक्ष्याथ तानि तीर्थानिपाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्द्धर्म्मबुद्धिभिः ।तपस्विनस्ततोऽपृच्छत् प्राञ्जलिः कुरुनन्दनः । तीर्थानीमानिवर्ज्यन्ते किमर्थं ब्रह्मवादिभिः । तापसा ऊचुः । ग्राहाःपञ्च वसन्त्येषु हरन्ति च तपोधनान् । तत एतानिवर्ज्यन्ते तीर्थानि कुरुनन्दन! । वैशम्पायन उवाच । तेषांश्रुत्वा महाबाहुर्व्वार्य्यमाणस्तपोधनैः । जगाम तानितीर्थानि द्रष्टुं पुरुषसत्तमः । ततः सौभद्रमासाद्य महर्षे-स्तीर्थमुत्तमम् । विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः ।अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । जग्राह चरणेग्राहः कुन्तीषुत्रं धनञ्जयम् । स तमादाथ कौन्तेयो विस्फु-रन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्ब्बलेन वलिनां वरः ।उत्कृष्ट एव ग्राहस्तु सोऽर्ज्जुनेन यशस्विना । बभूवनारी कल्याणी सर्व्वाभरणमूषिता । दीप्यमाना श्रिया रा-जन्! दिव्यरूपा मनोरमा । तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रोधनञ्जयः । तां स्त्रियां परमप्रीत इदं वचनमब्रवोत् । कावै त्वमसि कल्याणि! कुतो वासि जलेचरी । किमर्थञ्च महत्पापमिदं कृतवती पुरा? । बर्गोवाच । अप्सरास्मि महा-वाहो! देवारण्यविहारिणी । इष्टा धनपतेर्नित्यं वर्गा नाममहाबल! । मम सख्यश्चतस्रोऽन्याः सर्व्वाः कामगमाःशुभाः । ताभिः सार्द्धं प्रयातास्मि लोकपालनिवेशनम् ।ततः पश्यामहे सर्व्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधी-यानमेकमेकान्तचारिणम् । तस्य वै तपसा राजंस्तद्वनंतेजसा युतम् । आदित्य इव तं देशं कृत्स्नं सर्वं व्यका-शयत् । तस्य दृष्ट्वा तपस्तादृग्रूपञ्चाद्भुतमुत्तमम् । अव-तीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया । अहञ्च सौरभेयोच समीचा बुद्बुदा लता । यौगपद्येन तं विप्रसम्यगच्छामभारत! । गायन्त्योऽथ हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् ।तु च नाम्मासु कृतवान् मनो वीर! कथञ्चन । नाकम्पतमहातेजाः स्थितस्तपसि निर्म्मले । सोऽशपत् कुपितोऽस्मांस्तुब्राह्मणः क्षत्रियर्षभ! । ग्राहभूता जले यूयं चरिष्यथ शतंसमाः! । वर्गोवाच । ततो वयं प्रव्यथिताः सर्व्वा भारतस-त्तम! । अयाम शरणं विप्रं तं तपोधनमच्युतम् । रूपेणवयसा चैव कन्दर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज! । एषएव बधोऽस्माकं सुपर्य्याप्तस्तपोधन! ।यद्वय संशितात्मानं प्रलोब्धं त्वामिहागताः । अबध्यास्तुस्त्रियः सृष्टा मन्यन्ते धर्म्मचारिणः । तस्माद्धर्म्मेण वर्त्तस्वनास्मान् हिंसितुमर्हसि । सर्व्वभूतेषु धर्मज्ञ! मेत्रोब्राह्मणउच्यते । सत्यो भवतु कल्याण एवं वादो मनीषिणाम् ।शरणञ्च प्रपन्नानां शिष्टाः कुर्व्वन्ति पालनम् । शरणं त्वांप्रपन्नाः स्मस्तस्मात्त्वं क्षन्तुमर्हसि । वैशम्पायन उवाच ।एवमुक्तः स धर्म्मात्मा ब्राह्मणः शुभकर्म्मकृत् । प्रसादंकृतवान् वीर! रविसोमसमप्रभः । ब्राह्मण उवाच ।शतं शतसहस्रन्तु सर्वमक्षय्यवाचकम् । परिमाणं शतंत्वेतन्नेदमक्षय्यवाचकम् । यदा च वो ग्राहमूता गृह्णतीःपुरुषान् जले । उत्कर्षति जलात्तस्मात् स्थलं पुरुषसत्त-मः । तदा यूयं पुनः सर्व्वाः स्वं रूपं प्रतिपत्त्स्यथ । अनृतंनोक्तपूर्व्वं मे हसतापि कदाचन । तानि सर्व्वाणि ती-र्थानि ततः प्रभृति चैव ह । नारीतीर्थानि नाम्नेह ख्यातिंयास्यन्ति सर्व्वशः । पुण्यानि च भविष्यन्ति पावनानिमनीषिणाम् । चर्गोवाच । ततोऽभिवाद्यतं विप्रं कृत्वा चापिप्रदक्षिणम् । अचिन्तयामापसृत्य तस्माद्देशात् सुदुःखिताः । क नु नाम? वयं सर्व्वाः कालेनाल्पेन तं नरम् ।समागच्छेम यो नस्तद्रपमासादयेत् पुनः । ता बयंचिन्तयित्वैव मुहूर्त्तादिव भारत! । दृष्टवत्यो महाभागं देव-र्षिमुत नारदम् । संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्यु-तिम् । अभिवाद्य च तं पार्थ! स्थिताः स्मोव्रीडिताननाः ।स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयञ्च तत् । श्रुत्वा तत्रयथावृत्तमिदं वचनमब्रवीत् । दक्षिणे सागरानूपे पञ्चतीर्थानि सन्ति वै । पुण्यानि रमणीयानि तानि गच्छतमा चिरम् । तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः ।मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः । तस्य सर्व्वावयं वीर! श्रुत्वा वाक्यमिहागताः । तदिदं सत्यमेवाद्यमोक्षित्वा मां त्वयाकृतम् । एतास्तु मम ताः सख्यश्चतस्रोऽन्याजले श्रिताः । कुरु कर्म्म शुभं वीर! एताः शापाद्विमोक्षय!वैशम्पायन उवाच । ततस्ताः पाण्डवश्रेष्ठः सर्व्वा एब विशा-म्पते! । तस्माच्छापाददानात्मा मोक्षयामास वीर्यवान् ।उत्थाय च जलात्तस्मात् प्रतिलभ्य वपुः स्वकम् । तास्तदा-प्सरसो राजम्नदृश्यन्त यथा पुरा । तीर्थानि शोचयित्वातु तथानुज्ञाय ताः प्रभुम् । चित्राङ्गदां पुनर्द्रष्टुं तदामणिपुरं ययौ” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
