| YouTube Channel

कायस्थः (kAyasthaH)

 
Apte Hindi
Hindi
कायस्थः
पुं*
कायः - स्थः -
लेखक जाति
Wordnet
Sanskrit
Synonyms:
कायस्थः
noun
कायस्थजातेः सदस्यः।
"मम नैकानि मित्राणि कायस्थानि सन्ति।"
Synonyms:
कायस्थः, कायस्था
noun
हिन्दूसमाजे वर्तमाना जातिः यस्याः सदस्याः प्रायः लिपिकाः सन्ति।
"तेन स्वपुत्रस्य विवाहः कायस्थया सह कृतः।"
शब्दकल्पद्रुमः
Sanskrit
कायस्थः,
पुं,
(कायेषु सर्व्वभूतशरीरेषु अन्तर्यामि-तया तिष्ठतीति काय + स्था + कः ।) परमात्मा (यथा उत्तरगीतायाम् ।“कायस्थोऽपि कायस्थः कायस्थोऽपि जायते ।कायस्थोऽपि भुञ्जानः कायस्थोऽपि बध्यते”
काये ब्रह्मकाये तिष्ठतीति काय + स्था + कः ।)नरजातिविशेषः इति मेदिनी
तत्पर्य्यायः ।कूटकृत् पञ्जीकरः इति त्रिकाण्डशेषः
करणः पञ्जिकारकः इति जटाधरः
तस्योत्पत्त्यादिर्यथा*) कायस्थीत्पत्त्यादौ ग्रन्थकृता राज्ञा यानि प्रमाणानिसंगृहीतानि तदितराण्यधुना प्राप्तानि कतिपयप्रशस्तप्रा-माण्यप्रमाणान्यत्रोद्धृतानीति तद् यथा, --“क्षणं ध्यानस्थितस्यास्य सर्व्वकायाद्विनिर्गतः ।दिव्यरूपः पुमान् हस्ते मसीपात्रञ्च लेखनी
चित्रगुप्त इति ख्यातो धर्म्मराजसमीपतः ।प्राणिनां सदसत्कंर्म्मलेख्याय निरूपितः ।ब्रह्मणातीन्द्रियज्ञानी देवाग्न्योर्यज्ञभुक् वै ।भोजनाच्च सदा तस्मादाहुतिर्दीयते द्विजैः
ब्रह्मकायीद्भवो यस्मात् कायस्थी वर्ण उच्यते ।नानागोत्राश्च तद्वंश्याः कायस्था भुवि सन्ति वै”
इति पद्मपुराणे सृष्टिखण्डम्
*
दत्तात्रेय उवाच ।“त्रिकालज्ञं महाप्राज्ञं पुलस्त्यमुनिपुङ्गवम् ।उपसङ्गम्य पप्रच्छ भीष्मः शस्त्रभृताम्बरः
चतुणामपि वर्णानामाश्रमाणां तथैवच ।सम्भवः सङ्करादीनां श्रुतो विस्तरतो मया
कायस्थोत्पत्तयो लोकेख्याताश्चैव महामने ।भूय एव महाप्राज्ञ ! श्रोतुमिच्छामि तत्त्वतः
वैष्णवा दानशीलाश्च पितृयज्ञपरायणाः ।सुधियः सर्व्वशास्त्रेषु काव्यालङ्कारबोधकाः
पोष्टारो निजवर्गाणां ब्राह्मणानां विशेषतः ।तानहं श्रोतुमिच्छामि कथयस्व महामुने !
एतन्म संशयं विप्र ! वक्तुमर्हस्यशेषतः ।इति पृष्टो मुनिप्राज्ञः, गाङ्गेय ! शृणु तत्त्वतः
पलस्त्य उवाच ।शृणु गाङ्गेय ! वक्ष्यामि कायस्थोत्पत्तिकारणम् ।न श्रुतं यत् त्वया पूर्व्वं तन्मे कथयतः शृणु
येनेदं सकलं विश्वं स्थावरं जङ्गमं तथा ।उत्पाद्य पाल्यते भूयो निधनाय प्रकल्पते
अव्यक्तः पुरुषः शान्तो ब्रह्मा लोकपितामहः ।यथाऽसृजत् पुरा विश्वं कथयामि तव प्रभो”
“मुखतीऽस्य द्विजा जाता बाहुभ्यां क्षत्त्रियास्थथा ।ऊरुभ्याञ्च तथा वैश्याः पद्भ्यां शूद्राः समुद्भवाः
द्विचतुःषट्पदादींश्च प्लवङ्गमसरीसृपान् ।एककालेऽसृजत् सर्व्वं चन्द्रसूर्य्यग्रहांस्तथा
एवं बहुविधानेन विश्वमुत्पाद्य भारत ! ।उवाच तं सुतं ज्येष्ठं कश्यपं चातिवेजसम्
प्रतियत्नेन भोः पत्त्र जगत् पालय सुव्रत ! ।इत्याज्ञाप्य सुतं ज्येष्ठं ऋषिसम्भवहेतुकम्
ततस्तु ब्रह्मणा तेन यत् कृतं तन्निबोध मे”
“दशवर्षसहस्राणि दशवर्षशतानि ।समाधिस्थोऽभवत् प्राणान् संयम्य शान्तमानसः
ततः समाहितमतैर्यद्भूतं तद्वदामि ते ।तच्छरीरान्महाबाहुः श्यामः कमललोचनः
कम्बुग्रीवो गूढशिराः पूर्णचन्द्रनिभाननः ।लेखनौच्छेदनाहस्तो मसीभाजनसंयुतः
निःसृत्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।उत्तमः सुविचित्राङ्गः ध्यानस्तिमितलोचनः
त्यक्त्वा समाधिं गाङ्गेय ! तं ददर्श पितामद्वः ।अधोऽर्द्धस्तन्निरीक्ष्याथ पुरुषश्चाग्रतः स्थितः
नामधेयं हि मे तात वक्तुमर्हस्यतःपरम् ।यथोचितञ्च यत् कार्य्यं तत् त्वं मामनुशासय”
पुलस्त्य उवाच ।“इत्याकर्ण्य ततो ब्रह्मा पुरुषं स्वशरीरजम् ।प्रहृष्य प्रत्युवाचेदमानन्दितमतिः पुनः
स्थिरचित्तं समाधाय ध्यानस्थमतिसुन्दरम् ।मच्छरीरात् समुद्भूतस्तस्मात् कायस्थसंज्ञकः
चित्रगुप्तेति नाम्ना वै ख्यातो भुवि भविष्यसि ।धर्म्माधर्मविवेकार्थं धर्मराजपुरे सदा
स्थिनिर्भवतु ते वत्स ! ममाज्ञां प्राप्य निश्चलाम् ।क्षत्तवर्णोचितो धर्मः पालनीयो यथाविधि
प्रजाः सृजख भोः पुत्त्र भुवि भारसमन्विताः ।तस्मै दत्त्वा वरं ब्रह्मा तत्रैवान्तरधीयत”
पुलस्त्य उवाच ।“चित्रगुप्तान्वये जाताः शृणु तान् कथयामि ते ।श्रीमद्रा नागरा गौराः श्रौवत्सश्चैव माथुराः
अहिफणाः सौरसेनाः शैवसेनास्तथैव ।वर्णावर्णद्वयञ्चैव अम्बष्ठाद्याश्च सत्तम् !
शृण तेषाञ्च कर्माणि कुरुवंशविवर्द्धन ! ।पुत्त्रान् वै स्थापयामास चित्रगुप्तो महीतले
धर्माधर्मविवेकज्ञश्चित्रगुप्ती महामतिः ।भूस्थानं बोधयामास सर्व्वसाधनमुत्तमम्
पूजनं देवतानाञ्च पितॄणां यज्ञसाधनम् ।वर्णानां ब्राह्मणानाञ्च सर्व्वदातिथिसेवनम्
प्रजाभ्यः करमादाय धर्माधर्मविलोकनम् ।कर्त्तव्यं हि प्रयत्नेन पुत्त्राः स्वर्गस्य काम्यया
या माया प्रकृतिः शक्तिश्चण्डौ चण्डप्रमर्द्दिनी ।तस्यास्तु पूजनं कार्य्यं सिद्धिं प्राप्य दिवं गताः
स्वर्गाधिकारमासाद्य यतो यज्ञभुजः सदा ।भवद्भिः सा सदा पूज्या ध्यातव्या सफलादिभिः
भवन्ती सिद्धिदा नित्यं पुत्त्रदा सा तु चण्डिका ।तथाचोक्ता मुरापेया यानपेया द्विजातिभिः
वैष्णवं धर्ममाश्रित्य मद्वाक्यं प्रतिपालय ।कर्त्तव्यं हि प्रयत्नेन लोकद्वयहिताय वै
अनुशिष्य सुतानेवं चित्रगुप्तो दिवं ययौ ।धर्मराजस्याधिकारी चित्रगुप्तो बभूव
खयं भीष्म ! समुत्पन्नाः कायस्था ये प्रकीर्त्तिताः ।ये पृष्टास्वे मया ख्याताः संवादं शृणु तत्परः
अहं ते कथयिष्यामि विचित्रं परमाद्भुतम् ।प्रभावं चित्रगुप्तस्य समुद्भूतं यथा पुनः”
पुलस्त्य उवाच ।“सौदासो नाम राजाभूत् समस्ते क्षितिमण्डले ।सदा पापरतः सोऽथ धर्माधर्मं विन्दति
यथा स्वर्गमासाद्य लेभे पुण्यफलं शृणु ।सर्व्वपापो दुराचारः सर्वधर्मविवर्जितः
राजनीतिगतं धर्मं जानाति कथञ्चन ।आतिथ्यजयकर्माणि तत्तत्साधनमुत्तमम्
कर्त्तब्यं द्विजैः क्वापि मयाज्ञप्तैर्महीतलेएवमाज्ञप्तवाँल्लोके दैवपित्रेयकर्मणि
परित्यज्य स्वकं देशं ततो देशान्तरं ययौ ।ये केचिद्वसतिं चक्रुर्लोकेषु ब्राह्मणादिषु
ततः प्रभृति गाङ्गेय ! यज्ञहवनं क्वचित्”
“न कोऽपि कुरुते भीष्म ! पुण्यं तत्र निषेवितम् ।गृहीत्वा ब्राह्मणादिभ्यः करं कर्मविदूषकः
अहो धर्मभृतां श्रेष्ठ शृणु कर्म विपाकजम्
कालेनान्येन गाङ्गेय सौदासो विचरन् महीम् ।कार्त्तिके शुक्लपक्षे द्वितीया चीत्तमा तिथिः ।तस्यां कार्य्यञ्च कायस्थैश्चित्रगुप्तस्य पूजनम्
महतीभक्तिभावेन धूपदीपादिभिस्तथा
दैवयोगात्तथायातः सौदासः पर्य्यटन्महीम् ।श्रद्धायुक्तशरीरेण दृष्ट्वा पजनं ततः ।कृत्वा सुपूजनं तत्र चित्रगुप्तस्य भक्तितः
गतपापोऽभवत् सद्यः सौदासोऽसौ महीपतिः ।चित्रगुप्तप्रभावेण गतो लोकं सुणलयम्
इदं विचित्रमाहात्म्यं चित्रगुप्तप्रभावजम् ।कथितं नृपशार्द्दूल ! किमन्यत् श्रोतुमिच्छसि
इत्याकर्ण्य ततो भीष्मः प्रत्युवाच मुनिं ततः ।विधिना केन तत्रापि पूजा कार्य्या महामुने !
को मन्त्रः को विधिस्वत्र सर्व्वं तद्वद्र मे प्रभो ।यामासाद्य मुनिश्रेष्ठ ! सौदासः स्वर्गमाप्तवान्
पुलस्त्य उवाच ।चित्रगुप्तस्य पूजाया विधानं कथयाम्यहम् ।नैवेद्यैर्घृतपक्वैश्च यथाकालोद्भवैः फलैः
गन्धपुष्पोपहारैश्व धूपदीपैः समासतः ।चित्रगुप्तञ्च संपूज्य श्रद्धाभक्तिसमन्वितः
नवकुम्भं समानीय पानीयपरिपूरितम् ।शर्करापूरितं कृत्वा पात्रं तस्योपरि न्यस्येत्
पूजान्ते प्रयत्नेन दातव्यञ्च द्विजन्मने ।ब्राह्मणान् भोजयेत्तत्र कायस्थानपि मन्त्रवित्
मसीभाजनसंयुक्तः सदा चरसि भूतले ।लेखनीच्छेदनीहस्तचित्रगुप्त ! नमोऽस्तु ते
चित्रगुप्त नमस्तुभ्यं नमस्तं धर्मसृपिणे ।तेषां त्वं पालकी नित्यं नमः शान्तिं प्रयच्छ मे
सन्त्रेणानेन राजेन्द्र चित्रगुप्तस्य पूजनम् ।एवं संपूज्य विधिवत् सौदासो भक्तिभावतः
अचिरात् पापसंमुक्तो राज्यं कृत्वा मृतो नृपः ।नीतोऽसौ यमदूतैश्च यमलोकं भयानकम्
चित्रगुप्तन्तदापृच्छद्धर्मराजोऽपि भारत !
धर्मराज उवाच ।सौदासोऽसौ दुराचारः पापकर्मसदारतः ।यानि कानि पापानि राजासौ कृतवान् भुवि
पृष्टोऽसौ यमराजेन धर्माधर्मविशारदः ।धर्मराजं ततः प्राह चित्रगुप्तो महामतिः
विपाकं धर्मजं ज्ञात्वा तं प्रहस्याब्रबीद्वचः
चिचगुप्न उवाच ।जानेऽहं पापकर्मासौ राजायं विदितः सदा ।त्वत्प्रसादादहं सौरे ! पूज्योऽस्मि वसुधातले
त्वया दत्तं वरं स्यानं भक्तस्तेऽहं सदा प्रियः ।इति ज्ञात्वा वदाम्यत्र राजापापोऽस्ति मे मतिः
पूजां चकार राजासौ द्वष्ट्वा पूजाञ्च मामकीम् ।अतस्तष्टोऽस्मि हे देव ! यातु विष्णुपदं नृपः
यमेनाज्ञापितो राजा वैष्णवं पदमाप्तवान् ।ये चान्ये पूजयिष्यन्ति चित्रगुप्तं महीतले
कायस्थाः पापनिर्मुक्ता यास्यन्ति परमां गतिम् ।तस्प्रात् लमपि गाङ्गेय ! पूजां कुरु विधानतः
दत्तात्रेय उवाच ।मुनेर्वचनमाकर्ण्य भीष्मः प्रयतमानसः ।चकार पूजनं तत्र चित्रगुप्तस्य तत्परः
कार्त्तिके शुक्लपक्षे तु द्वितीयायाञ्च भारत ! ।यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत्
अतो यमद्वितीयेति संज्ञा लोके बभूव ।तेनैव भगिनीहस्ते भोक्तव्यं पुष्टिवर्द्धनम्
नित्यं यशस्यमायुष्यसर्व्वकामार्थसिद्धिदम् ।दानानि दापयेद्यस्तु भगिन्यै विशेषतः
काले तत्र संपूज्य चित्रगुप्तञ्च लेखकम्चित्रैश्च चित्रपुष्पैश्च रक्तचन्दनमिश्रितैः
नैवेद्यं दीयते तस्मै मोदकं गुडमिश्रितम्
भीष्मोक्तप्रार्थना यथा, --उत्पत्तौ प्रलये चैव भोग्ये दाने कृताकृते ।लेखकस्त्वं सदा श्रीमांश्चित्रगुप्त नमोऽस्तुते
श्रिया सह समुत्पन्न समुद्रमथनीद्भव ! ।चित्रगुप्त महाबाहो ! ममाद्य वरदो भव
चिबगुप्तस्तु सन्तुष्टो भीष्माय वरं ददौ ।मत्प्रसादान्महाबाहो मृत्युस्ते भविष्यति
स्मरिष्यसि यदा मृत्युं तदा मृत्युर्भविष्यति ।इति तस्मै वरं दत्त्वा चित्रगुप्तो दिवं ययौ
अनेन विधिना यस्तु चित्रगुप्तस्य पूजनम् ।करिष्यति महाबुद्धे तस्य पुण्यफलं शृणु
इहैव विपुलान् भोगान् भुक्त्वा सर्व्वान् मनोरथान् ।अक्षय विष्णुलोकञ्च नरो याति संशयः
चित्रगुप्तकथां दिव्यां कायस्थोत्पत्तिसंज्ञकाम् ।भक्तियुक्तेन मतसा ये शृण्वन्ति नरोत्तमाः
दीर्घायुषो भविष्यन्ति सर्व्वव्याधिविवर्जिताः ।सर्व्वे विष्णपदं यान्ति यत्र यान्ति तपोधनाः”
इति भविष्यपुराणे चित्रगुप्तकायस्थीत्पत्तिमाहात्म्यकथसमाप्ता
*
“एवं हत्वार्ज्जुनं रामः सन्धाय निशितान् शरान् ।एक एव ययौ हन्तुं सर्व्वानेवातुरान् नृपान्
केचित् गहनमाश्रित्य केचित् पातालमाविशन् ।सगर्भा चन्द्रसेनस्य भार्य्या दाल्भ्याश्रमं ययौ”
“ततो रामः समायातो दालभ्याश्रममनुत्तमम् ।पूजितो मुनिना सद्यः पाद्यार्ध्याचमनादिभिः
ददौ मध्याह्नसमये तस्मै भोजनमादरात् ।रामस्तु याचयामास हृदिस्थं स्वमनीरथम्
याचयामास रामाच्च कामं दाल्भ्यो महामुनिः ।ततस्तौ परमप्रीतौ भोजनं चक्रतुर्मुदा
भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति ।यत्त्वया प्रार्थितं देव तत् त्वं शंसितुमर्हसि
राम उवाच ।तवाश्रमे महाभाग सगर्भा स्त्रौ समागता ।चन्द्रसेनस्य राजर्षेः क्षत्त्रियस्य महात्मनः
तन्मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने ।ततो दाल्भ्यः प्रत्युवाच ददामि तव वाञ्छितम्
दाल्भ्य उवाच ।स्त्रियो गर्भममुं बालं तन्मे त्वं दातुमर्हसि ।ततो रामोऽब्रवीद्दाल्भ्यं यदर्थमहमागतः
क्षत्त्रियान्तकरश्चाहं तत् त्वं याचितवानसि ।प्रार्थितश्च त्वया विप्र ! कायस्थो गर्भ उत्तमः
तस्मात् कायस्थ इत्याख्या भविष्यति शिशोः शुभा
एवं रामो महाबाहुर्हित्वा तं गर्भमुत्तमम् ।निर्जगामाश्रमात् तस्मात् क्षत्त्रियान्तकरः प्रभुः”
“कायस्थ एष उत्पन्नः क्षत्त्रिय्यां क्षत्त्रियात्ततः ।रामाज्ञया दालभ्येन क्षत्त्रधर्माद्वहिष्कृतः
कायस्थषर्मोऽस्मै दत्तश्चित्रगप्तश्च यः स्मृतः ।तद्गीत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन्
दालभ्योपदेशतस्त वै धर्मिष्ठाः सत्यवादिनः ।सदाचारपरा नित्यं रता हरिहरार्च्चने
देवविप्रपितृणाञ्च अतिथौनाञ्च पूजकाः”
इति स्कान्दे रेणुकामाहात्म्यम्
*
श्रीहर उवाच ।“भूयस्तेऽहं प्रवक्ष्यामि वगलेति मनूत्तमम् ।यस्य ग्रहणमात्रेण कायस्थो विप्रसेवकः
पार्व्वत्युवाच ।अतीव चित्रं शम्भो ! त्वमुक्तवानावयोरुप ।शूद्रात् कनीयसी जातिरभवद्विप्रसेवकः
श्रोष्याम्यादौ हि कायस्थवृत्तान्तं ब्रूहि विस्तरात् ।कायस्थः क्षत्त्रविट्शूद्रानृते विप्रार्च्चकः कथम्
केन प्रकारेण वा वगलेति गृहीतवान् ।ततश्च सिद्धविद्याया वगलाया वरेश्वर !
श्रोष्यामि महिमानञ्च साधनं त्वत्त एव हि
हर उवाच ।ब्रह्मपादांशतो जन्म चातः कायस्थनामभृत् ।ककारं ब्राह्मणं विद्यादाकारं नित्यसंज्ञकम्
आयन्तु निकटं ज्ञेयं तत्र काये हि तिष्ठति ।कायस्थोऽतः समाख्यातो भसीशं प्रोक्तवांश्च यम्
जीवेक्षणे भृगुपदे जन्मत्वात् शोभना धियः ।शठश्च शूरता किञ्चिदनेकप्रतिपालकृत्
जन्मावधि द्विजार्च्चायां मतिरेव निरन्तरम् ।कुशासनादि सकलं गृहीत्वा मस्तकोपरि
अनुगच्छामि सततमिति चिन्तामनाः सदा ।शठत्वाच्चतुरत्वाच्च विप्रसेवामनुक्षणम्
वाञ्छत्येव मसीशः सदोद्वेगीतिमावहन् ।ब्राह्मणं हीश्वरं ज्ञात्वा भक्त्या स्तौति पुटाञ्जलिः
यं यं गच्छति विप्रश्च मसीशश्चानुगच्छति ।नद्यादौ गत्वा चेद्विप्रः स्नात्वा कुर्य्यात्तपोऽपि
यावत्तावच्च तिष्ठेत् क्षुधया पीडितोऽपि ।तथापि नासनं लाति शिरे धर्त्तुं, द्विजोऽपि
मसीशायादीक्षिताय क्षत्त्रवैश्योपमाय ।अशूद्रायेति वोढुं ददात्येवासनादिकम्
पार्व्वत्युवाच ।चित्रं ब्रवीषि हे नाथ कायस्थोऽशूद्र एव किम् ।जाने शूद्रकनिष्ठं तं शूद्रतुल्यः कथं
क्षत्रवैश्योपमो ह्युक्तस्त्वयैष कथमीश्वर !
हर उवाच ।ब्रह्मपादांशत शूद्रमसीशौ द्वो बभूवतुः ।शूद्रात् परः कनिष्ठः चातः वतलि ! ऋतञ्च तत्
किन्तु सामादिवेदान् हि क्षत्रो विट् शूद्र एव हि ।गृहीतवान्न तत् किञ्चिन्मसीशोऽलसतः शिवे !
अतो यज्ञोपवीती ते हि यज्ञोपवीतिनः ।एते स्युर्वैदिकाचारा मसीशो हि स्वमावतः
मस्या सह तु लेखन्या सर्व्वं लेखितुमीश्वरः ।लेखितुं नैव शक्नोति वैदिकं किञ्चितं किल
अतो हृदि विचार्याथ खेदेन विप्रमीश्वरम् ।ज्ञात्वा भक्त्यानुगच्छेद्धि यत्र याति धरासुरः
कृतत्रेताद्वापरेषु गतेष्वपि मसीशकः ।तदपि त्यक्तवान्नैव दृढां भक्तिं द्विजेषु
ततो हि कृपया विप्रः कायस्थमनुगृह्य हि ।सालसं प्राददद्विद्यां बगसेति तव प्रिये !
यतो दीक्षामात्रमेव पवित्रः कार्य्यसिद्धिता ।ततः कुशासनादींश्च वोढुं प्रादात् शिरोपरि
एवं प्रकारेण कालि ! विप्राणामनुगाः कलौ
कायस्थाः कालिके ! देवि ! पुनस्तद्विभवं शृण
कलिप्रथमतो राजा क्षत्त्रियाणां महाबलः ।सुयज्ञनामा गोमेधमखमारब्धवान् प्रिये
आहूतवांश्च सर्व्वान् चतुर्योजनमध्यतः ।ब्राह्मणान् भ्रान्तिवशतः केवलं सुतपसं विना
प्राप्ताह्वानद्विजान् यातो दृष्ट्वा सुतपसः प्रिया ।धवं तिरस्कृतवती यथैतच्छृणु कालिके !
हे स्वामिंस्त्वां नृपो मूर्खं मत्वा नाहूतवान् मखे ।केवलं तव पाण्डित्यं मत्समीपे शोभते
सुतपा उवाच ।कान्ते ! ब्रवीमि विप्राणां यत् कर्त्तव्यं शृणुष्व तत्यात्रामात्रं वहन्नन्नं काङ्क्षितव्यं चाधिकम्
विद्वांश्चेद्विद्या दातव्या क्वापि नानार्ज्जवं चरेत् ।मूर्खश्चेत् केवला सन्ध्या सदोपास्या प्रयत्नतः
प्रिये तेन वक्तव्यमृतमेवाप्रियन्त्वपि ।विप्रेण सततं कार्य्यं वैद्यमागमिकञ्च तत्
ऋतौ गच्छेच्च स्वां कान्तां मुदा कालञ्च पातयेत् ।कालीं कालादिकं वापि जपेद्विप्रो निरन्तरम्
स्वयं स्वभावतो नॄणां क्षत्त्रादीनां शिवं वचः ।वक्तव्यं चेन्न गृह्णन्ति विप्रहानिर्न तत्क्षतिः
ब्राह्मण्युवाच ।सुमानुषत्वं ते कान्त ! सुविप्रत्वं धव ! त्वयि ।तिष्ठत्वेव चिरं विप्र तेऽन्तौ मे मरणं शिवम् ।कांस्यकङ्कणवलयौ सङ्गिनौ मे मृतावधि
सुतपा उवाच ।प्रिये ते ह्यधुना तीव्रं धनान्तःकरणं सदा ।विना निमन्त्रितेनापि गत्वा चानीयते धनम्
इत्युक्त्वा सुतपाः कान्तां गत्वा राजसभां प्रिये ! ।रान्तं सुयज्ञं वरणं प्रोवाच नृपतिं द्विजः
रे सुयज्ञ ! विनाह्वानैरगच्छं ते सभामहम् ।विप्राणां रणं राजन् ! क्षत्रियाणां तथैव
कृतं तदपि नाहं रे त्वया दृष्टः स्वचक्षुषा ।भ्रष्टो भवतु ते यज्ञः श्रीश्च यातु स्थलान्तरम्
क्रुधैतदुक्त्वा सुतपास्ततो नृपसदः स्थलात् ।विप्रो निःसृतवान् राजा भीतेन मनसाब्रवीत्
हे पुरोहित ! हे विप्र ! हेऽङ्गिरोऽसौ गतः कः ।रे इत्युक्त्वा सभामध्ये वृत्तान्तं वद विस्तरात्
नृपाज्ञया क्षत्रियार्थं पट्टादिवस्त्रसंकुलम् ।स्वर्णाङ्गुरीयकमपि चानेतुं गतवान् हि यः ।कोषमन्दिरमालोक्य राजान्तिकमथागतः
इत्यब्रवीच्च राजानं चित्रन्ते कोषमन्दिरे ।किञ्चिच्च वस्तु दृष्टं दृष्टं भस्मतृणादिकम्
श्रुत्वैतत् विस्मितो राजाऽब्रवीच्चैतत् पुरोहितम् ।हे पुरोहित ! विप्र ! त्वं कृतवान् यत्त्वभूच्च तत्
कोऽपराधोऽस्ति मे विप्रः कथं शप्त्वा गतः प्रभो ! ।कोषमन्दिरसंपातसंवादं दत्तवानयम्
कोषे नास्ति धनं किञ्चित् सर्व्वं भस्मतृणादिकम् ।श्रुत्वैतदङ्गिरा ब्रूते सुतपा यत्र तत्पट
ततो दुर्गे राजा तूर्णं स्वर्णकुठारकम् ।गले बद्ध्वा द्विजकुलैर्गतवान् सुतपोऽन्तिकम्
अङ्गिरादिद्विजाः सर्व्वे तत्राट्य सुतपोद्विजम् ।स्तुतिञ्चक्रुः राजा दूरस्थो भक्तितोऽस्तवीत्
अङ्गिरःप्रभृतय ऊचुः ।धरामरवर ! प्राज्ञ ! नो वरस्त्वं धरातले ।राज्ञः शिवं नो मानं त्वद्याचामह उमेशहृत् !
देवस्त्वं देवताज्ञस्त्वं पण्डितानाञ्च पण्डितः ।दयालो ! नो दयस्व ज्ञ ! नमस्ते वरतो वर !
ब्रह्म ब्रह्मज्ञ एव त्वं ब्राह्मणेश्वर मानद ! ।राज्ञः शिवं नो मानं त्वद्याचामह उमेशहृत्” !
सुयज्ञराज उवाच ।हे नाथ ! हे धरेशेश ! धर्म्मकर्म्मविधायक ! ।वर्णेश्वर ! नमस्तुभ्यं वन्दे ते चरणाम्बुजम्
हे ब्रह्मण्यदेव ! हे नाथ हे धरामर हे प्रभो ! ।कृपां कुरु नमस्तुभ्यं प्रणमामि पदं तव ।नाहं जानामि ते पूजां नाहं जानामि ते स्तुतिम्
नाहं जानामि ते ध्यानं मूढं मां कृपया दय
सुतपा उवाच ।किमर्थं स्तुथ हे विप्राः किमर्थं स्तौषि हे नृप ! ।गच्छ यात मखं गव्यं सुखेन सफलं कुरु
श्रुत्वेति सुतपोवाक्यं सुयज्ञः सुखमानसः ।कृताञ्जलिपुटो राजा चाब्रावीदिदमुत्तमम्
राजोवाच ।निमन्त्रणन्तु विप्रेन्द्र ! भोज्यञ्च सकलोत्तमम् ।गृह्णापराधसाहस्रं क्षमस्व मे कृपां कुरु
अपराधसहस्राणि कृतवानहमव्यय ! ।गृह्ण मद्राजतीं मुद्रामयुतां मां कृपां कुरु
मत्सभास्था द्विजा ह्येते प्रोचुः पाण्डित्यमद्भुतम् ।गुणांश्च ते बहुविधान् श्रुत्वाहं सुखमानसः
क्षमस्व नाथ ! मे दोषमेकं प्रश्नोत्तरं वद ।मत्सभास्थो बुधः कोऽपि ब्रवीति विदाम्बर !
आगच्छति कलिर्घोरस्तत्र के भक्तितो द्विजान् ।अर्च्चिष्यन्तीति श्रुत्वा मे वरञ्च मरणं शिवम्
श्रुत्वैतत् सुतपा विप्रोऽब्रवीच्च सदयो नृपम्
सुतपा उवाच ।हे सुयज्ञ नृपश्रेष्ठ ! ब्राह्मणातिप्रियो नृपः ।पश्यैतान् विप्रभृत्यांस्त्वमासनादिशिरोधृतान्
एतद्घोरकलावेते भविष्यन्ति द्विजार्च्चकाः ।जात्या मसीशाः कायस्था ब्राह्मणेश्वरमानसाः
महाविद्योपासकाश्च गुणतः क्षत्रियोपमाः ।कलौ हि क्षत्रियाभावात् वैश्याभावाच्च सुव्रत !
एते भक्त्या भविष्यन्ति विप्रामानसहिष्णवः ।विप्रप्रिया विप्रभक्ता विप्रमानप्रदा यतः
महाविद्याप्तितश्चैते क्षत्रकर्म्मकृतः कलौ ।मस्या एवेश इत्यस्मात् मसीशोऽसौ निगद्यते
ब्रह्मणो विप्रमूर्त्तेस्तु पादांशे सम्भवन्ति तत् ।कायस्था इति संज्ञाः स्युः सुयज्ञैषां शिवा मतिः
श्रुत्वैतत् सकलं राजा वृत्तान्तं सुतपोमुखात् ।प्रेमाश्रुभिर्नृत्यकारी कृताञ्जलिपुटोऽब्रवीत्
राजोवाच ।इतः परमृषेऽहञ्चेत् म्रिये तदपि मच्छिवम् ।श्रुतं यत्तव जातीनां क्षत्रहीनकलौ सुखम्
ततो ऽतितुष्टः सुतपा उवाच मधुरं नृपम् ।सुयज्ञ ! सुमतिस्त्वं हि त्वत्तो विप्रप्रियो हि
मानेन ब्राह्मणानां हि वरञ्च मरणं नयेः
सुयज्ञोवाच ।हे नाथ सुतपो विप्र ! श्रुतं यन्मेऽङ्गकृन्मुखात् ।कृपया शृणु तत् सव्व ते जातेर्म्महिमानमु
ब्राह्मणो ब्रह्म जानाति नान्यजातिरिति श्रुतिः ।ब्रह्मज्ञानी सदा विप्रो चेद्ब्राह्मणसंज्ञकः
विना प्रयुक्तिं यो विप्र उपकारी स्वयं भवेत् ।आशीः करोति ब्रूते क्षत्रादीनां शिवं वचः
एव साक्षाद्बह्मेति विप्राणां जातिलक्षणम् ।ब्राह्मणाज्ञावचो ये गृह्णन्ति पालयन्ति
गुर्व्वाज्ञालङ्घनं पापं स्पृशेत्तेषां शरीरतः ।पित्रेति सकलं चोक्तं ते सन्दिग्धजातयः
वशीकारादि सकलं सृष्टिस्थितिलयञ्च यत् ।शक्नुवन्ति हि कर्तुं ते विप्राः पित्रेति चोक्तमु
विनायासैर्मुदा यो यत् विप्राय शक्तितो ददत् ।मुदा तदेव गृह्णाति विप्राणामिति लक्षणम्
केषामपि कापट्यं कुरुते ब्राह्मणः क्वचित् ।विनापराधैर्न शपेदिति तज्जातिलक्षणम्
हिंस्रे भवति हिंस्रः शठे शाठ्यं समाचरेत् ।आर्जवञ्चेन्द्रियग्रामान् स्ववशे स्थापयेच्चिरम्
दयालुश्च सदा विप्र इति पुत्त्र हृदि स्मरन् ।भीत्या भक्त्या सदा पूज्यः पितेति ब्रूतवांश्च मे
कटूक्त्या यदि गृह्णाति हृदा दुःखेन राति चेत् ।तद्विप्रो दुःखं भजते दातुर्नैव शिवं क्वचित्
वित्तशाठ्यं गृह्णशाठ्यं कार्य्यं नोभयतः क्वचित् ।इत्यप्यात्मज विप्राच्च श्रुतं शासनसम्मतम्
शृणु पुत्र प्रवक्षामि सावधानं समाचर ।घ्नन्तं बहुशपन्तं वा नैव द्रुह्यति भूसुरम्
सुतपो नाथ मे पित्रा यद्यदुक्तं तदुक्तवान् ।त्वञ्चापि ब्राह्मण ब्रह्म यथारुचि तथा कुरु
श्रुत्वैतत् सुतपा विप्र उवाच परमादरम् ।राजन् वरं वृणु वृणु यत्ते मनसि वाञ्छितम्
सुयज्ञ उवाच ।ऋषे ! वरेण ते नैक उपकार इहाधुना ।यज्ञे समाप्तौ मे मस्तच्छेत्ता रामो भविष्यति
सुतपा उवाच ।यज्ञं समाप्य सुखतः प्रगच्छेर्विन्ध्यनैरृतिम् ! ।तत्र वै स्वर्णदानद्या मध्ये द्वीपोऽस्ति सुन्दरः
द्वादशक्रोशमानी हि तद्गत्वा वसतिं कुरु ।यदा परशुरामस्ते कच्चिच्छेत्ता भविष्यति
भविष्यति काणः नय ते वाञ्छितं वरम् ।ततः पुनः कृते राजन् जम्बूद्वीपेश्वरो भवान्
भविष्यतीति त्वं वीजरूपेण तिष्ठ तत्र हि ।वरं ते वाञ्छितं गृह्ण तुष्टोऽहं भक्तितस्तव
इहतः परतो यद्यत् परमानन्द मुत्तमम्
सुयज्ञराजोवाच ।नाथ ! नाहं वरं याचे याचे केवलमङ्घ्रिते ।चिरं मम मतिस्तिष्ठेदिति देहि वरोत्तमम्
तेऽङ्घ्रौ पवित्रे परमे सर्व्वत्र सुस्वदे किल ।तदेवास्तु इति प्रोच्य सुतपा गतवान् गृहम्
राजापि मखं कृत्वा विप्रेभ्यो दक्षिणां ददत् ।परिवारयुतोऽगच्छद्द्वीपे काञ्चनदान्तरे
वसतिं वरतः प्राप्तां चतुर्द्दिक्षु जलप्लुताम् ।अत्रस्थाः प्रापटन् विप्राः पण्डिताः स्वस्ववासभूम्
एको मसीशः सर्व्वाख्यः सर्व्वाणीहृदयद्विजात् ।कुलप्रदीपः स्वीयानां जातीनां पूततास्पृहः
वगलेति महाविद्यां गृहीत्वा साधयन् मुदा ।सर्व्वाणीहृदयाख्यस्य पण्डितस्य प्रसादतः
वरं याचितवान् भक्त्या त्रिलोकाधिपतिं गुरो ! ।कृपया कुरु मां नाथ ! त्वमेव वगला मम
गुरुस्त्वपि वरं दत्तो राज्यं भुक्त्वा पुनर्भवन् ।त्रिलोकाधिपतिर्भूय मुदा तत्र सुखिष्यसि
गुर्व्वाज्ञया मसीशः राज्यभोगी द्विजार्च्चितः ।विहाय देहं भूयश्च त्रिधारुपो बभूव
चित्रगुप्तश्चित्रसेनश्चित्राङ्गद इति त्रयः ।स्वर्गे मर्त्ये पाताले राजते चिरमुत्तमः
चित्रगुप्तो महाविद्यां प्राप्य कुल्लाख्यविप्रतः ।पुत्रान् याचितवान्नैव गुरोदर्वेत्वमावहन्
यमान्तिस्थो बभूवापि स्वर्म्मर्त्याधोविवेचकः ।चिरं शुभाशुभं कर्म्म विविच्य शमनान्तिके
यद्वदेत् सकलानां तु तदेवाभोजयेत् यमः ।चित्रसेनो महाविद्यां वगलेति गुरोर्नयन्
जप्त्वा संतोष्य पुत्रादीन् याचित्वा प्राप्य मर्त्यतः ।राज्यं चकार मुद्युक्तश्चित्राङ्गद अधोगतः
अधोगतस्य हेतुं त्वं वगले शृणु कालिके ! ।वगलेति भनुं प्राप्य विप्रोऽस्मि इति वाञ्छया
तपश्चकार पञ्चाब्दं नान्नं किञ्चित् गृहीतवान् ।फलमूलादिकं किञ्चित् सायमत्ति यथा मिलेत्
विहाय विप्रस्य गुरोरपि पूजाञ्च पार्व्वति ! ।जपेन्नित्यं हि वगलामन्यविप्रञ्च नेक्षयन्
ज्ञात्वेति ब्राह्मणाः सर्व्वे ऊचुश्चित्राङ्गदं क्रुधा ।वचो हि मधुरं किञ्चित् प्रियाद्भक्ताच्च सुन्दरि !
रे चित्राङ्गद ! अज्ञस्त्वं वत्स विप्रत्वमिच्छसि ।कदाप्युपानन्मस्तस्थो नैवेति हि बुध्यसि
वत्स ! शीघ्रमधो गच्छ चिरं कुरु तपो मुदा ।ततः श्रुत्वेति शापं भक्त्यातिशयमानसः
कृताञ्जलिपुटो ब्रूते चित्राङ्गद इतीश्वरि !
चित्राङ्गद उवाच ।“हे ब्राह्मणा हे गुरवो ! मामेवातिनिरागसम् ।कथं शेपुर्भवन्तो हि विप्ररूपा ईश्वराः
मुखाद्वो श्रुतवान् यद्यत्क्षतिः का तत्समाचरन् ।उपास्यो यस्तद्भवितुं सर्व्वे ह्युद्योगिनः स्युरु
जानेऽहं ब्राह्मणो ब्रह्म स्वेच्छया विविधाकृतिः ।नानालीलामाचरितुं मानुषाकृतिरप्यभूत्
तद्ब्रह्म ब्राह्मणं जाने जाने तत् सर्व्वरूपधृक् ।राजेति संज्ञाधारी कः किं वा तच्च प्रजाभिधम्
तदेव मकलस्थायि तदेव सर्व्वकर्त्तृ ।तदेव सर्व्वपातृ स्यात्तदेव सर्व्वहर्त्तृ
पुंरूपं चैव स्त्रीरूपं क्लीवरूपञ्च नान्यथा ।आत्मा एवैकरूपं तत् स्वमेवानेकमाकरोत्
नानाप्रकारजीवादि चात्मनात्मानमेव हि ।स्थावरं जङ्गमं विप्रास्तदेव नात्र संशयः
भवन्तो हीश्वराः सर्व्वे किमर्च्चयथ तत् कथम् ।कथं चिन्तयथात्मानं देवमर्च्चनकालतः
छलेन भूतशुद्ध्यादि कृत्वा देवाः स्युरेव किम् ।ईशोऽपि मानुषाकृत्या ईशत्वप्राप्तये पुनः
यद्युद्योगी भवेत्तत् किं मानुषोऽहं तच्चरे ।अन्यायि भवेद्बह्म यूयमन्यायिनः कथम्
वगलापि या जप्या सा ब्राह्मण एव हि ।कश्चिद्विशेषो भेदोऽपि वगलायां द्विजेऽपि
अतस्तद्भवितुं विप्रा अहमप्येव तापसः ।गुर्व्वाज्ञा मे पुराभूच्च सर्व्वं त्यक्त्वा जपं कुरु
अतोऽहं सकलं त्यक्त्वा केवलां वगलां जपे ।वगलायां द्विजे नैव कश्चिद्भेदोऽस्ति शासने
अतो विप्रोऽस्मीति कामं कृतवान् जपकर्म्मणि ।गुरौ विप्रे मनौ चापि देवे चात्मनि भूसुराः
मसीशजातिः किञ्चिच्च विशषं विचिन्तयेत् ।ब्राह्मणोऽप्यविशेषश्च तस्मिंस्तस्मिंश्च भूसुराः
आत्मन्यात्मनि कीटेऽपि चेति वो जातिलक्षणम् ।मूर्खोऽहं यच्च श्रुतवान् प्रभवो ब्राह्मणास्यतः
तदाचरितवान् मे को दोषोऽस्ति वदत द्विजाः ।विनापराधतो विप्रा यूयं वामनरूपतः
बलिञ्चातिप्रियं भक्तमधः प्रास्थापयन् यदि ।अहं कीटोऽत्र नाश्चर्य्यं किमधो पटे कथम्
कृताञ्जलिपुटोऽहं वश्चरणं शतसंख्यया ।प्रणमे स्वगृहं विप्रा गच्छताहमधः पटे
अधोगच्छाम्यहं तत्र किञ्चित् खेदं करोमि ।वाञ्छयामीति चाज्ञा वो लङ्घ्या भवतु क्वचित्
इत्यादि श्रुत्वा हे कालि ! लज्जां प्राप्यातिखेदिताः ।ब्रुवन्ति चातिमधुरं क्रन्दन्त इव ते द्विजाः
हे चित्राङ्गद ! हे विद्वन् ! दौर्ब्बल्यं त्यज वत्सक ! ।दुश्चिन्तां कुरु मा तात भद्रं ते कथयामि ते
जनस्तपोबलेनैव सर्व्वं भवितुमर्हति ।नार्हतीशं विना तात ब्राह्मणो भवितुं किल
इतीश्वराज्ञा वेदेऽस्ति प्रतिजानीहि तत्त्वतः ।वरं प्राप्नोति देवत्वं ब्राह्मणत्वं कदापि
यथामरत्वमीशेन विना क्वापि शासने ।मा टुःखी त्वमधो गच्छ मुखेन वगलां जप
कलेदशसहखाणि नागलोकेश्वरो भव ।ततस्त्रिलोकनाथस्त्वमिन्द्रतुल्यो भविष्यसि
राज्यं भुक्त्वा ततो नैव पुनरावर्त्तनं तव ।सदा वयं तव शिवं चिन्तयामो भीं कुरु
के जानन्तीदृशं त्वां हि भक्तश्रेष्ठं विवेचकम् ।शापं दारुणमाहुस्त्वमधुना तन्न खण्डति
तात गच्छ सुखं भुङक्ष्व नागलोकेऽपि विस्तरात् ।तत आनन्दमनसा गताश्चत्राङ्गदस्तलम्
स्वस्थानं ब्राह्मणाश्चापि चागच्छन् लज्जितान्तराः ।भूस्थो मसीशः सर्व्वोऽपि विप्रदासाभिधोऽभवत्
विप्रप्रसादात् शूद्राणामपि श्रेष्ठो बभूव ।वगलेति महामन्त्रं सर्व्वेषां सर्व्वकामदम्
केवलेन जपेनैव लक्षेण कालि सिध्यति ।वशीकरणकर्म्मादि दशसाहस्रतो भवेत्
अथ वक्ष्ये महेशानि वगलासाधनं तव ।वगलेति मनोः संख्या पुरश्चरणकर्म्मणि
लक्षेण मन्त्रसिद्धिः स्यात् नास्त्यत्र युगसंख्यकम् ।ततो वश्यादि कर्त्तव्यं दशसाहस्नसंख्यया
शरीरारोग्यतो वापि धनेच्छुश्चायुतं जपेत् ।कलावेतस्य हि मनोः प्रभावं किं ब्रवीमि ते
सहस्रमात्रहोमेन सर्व्वसिद्धिर्न चान्यथा ।नास्त्यपेक्षा हि ऋष्यादेः स्तुतिपाठादिकस्य वा
स्तुतिर्व्वा कवचं वापि ऋष्यादिन्यास एव वा ।वगलेति स्वयं सर्व्वं सिद्धविद्या इति प्रिये !
त्वयाद्यारूपया कालि ! स्वयमुक्तं पुरैकदा ।शरीरारोग्यतो देवि ! वैरिनिग्रहतोऽपि वा
दिवा नक्तञ्च कर्त्तव्या सहस्रमानतो हुतिः ।केवलाहुतिमात्रेण रात्रावारोग्यतां लभेत्
वगले इति यो द्विश्चाप्युक्त्वोच्चैर्यत्र वारयेत् ।पथिस्था विघ्नदाः सर्व्वे पलायन्ते तमीक्षिताः
भवेद्धि सफलं कर्म्म वगलेति स्मरन् जनः ।वगलाजापिनं दृष्ट्वा सर्व्वे भीतिमवाप्नुयुः
केवलं पटलमिदं पठन् शृण्वन् मनोरथम् ।लभेत् कालि ! वपुस्त्यक्त्वा वगलाञ्च संशयः
एषा विद्या मसीशेन सदोपास्या संशयः ।ब्राह्मणे वगलायाञ्च चिन्तयेदेकरूपतः
विना प्रयुक्तिमपि मसीशं श्रावयेद्द्विजः ।श्रावणायां धनाकाङ्मी भवेद्ब्राह्मणोत्तमः
आलस्याद्वा प्रमादाद्वा श्रावयेन्न यदि द्विजः ।मसीशहत्याभागी स्याच्छ्रावयित्वा तव प्रियः
ब्राह्मणोऽपि वरारोहे ! शृणुयात् भक्तितत्परः ।निर्व्वाणं लभते कालि ! निष्कामी कोऽपिचेत् पठेत् ।एतदुक्तेऽपि कायस्थः शृणुयान्न यदि प्रिये ! ।पटलं काम्यदञ्चाशु ब्रह्महत्याफलं लभेत्”
इति आचारनिर्णयतन्त्रे वासुदेवसम्मते हर-पार्व्वतीसंवादे सप्तत्रिंशत्तमः पटलः
“चाटचारणचौरेभ्यो वधबन्धभयादिभिः ।पीड्यमानाः प्रजा रक्षेत् कायस्थेभ्यो विशेषतः”
इति वह्निपुराणे पाशुपतदानाध्यायः
*
गौडदेशे तेषामागमनकारणम् तत्रादौमङ्गलाचरणं यथा, --“यस्याभूद्भूमिदेवो वदनसरसिजेयद्भुजेभूमिपालोयस्योर्व्वोर्व्वैश्य एव द्विजभजनरतिर्यस्य शूद्रःपदाब्जे ।सृष्ट्वा पातिष्यतीदं जगदिति प्रकृतिर्यः स्वयं पूरुषस्तंवन्देऽहं देवदेवंत्रिगुणमयवरं सर्व्व लोकानुकम्पम्”
अथ आदिशूरराजप्रशंसा ।“श्रीमद्राजादिशूरोमवदवनिपतिर्धर्म्मराजो शास्तासल्लोकः सद्विचारैरदितिसुतपतिः स्वर्यथासी-द्तथासीत् प्रातापादित्यतप्ताखिलतिमिररिपु-स्तत्त्ववेत्ता महात्मा जित्वा बुद्धांश्चकार स्वयमपिनृपतिर्गौडराज्यान्निरस्तान्”
*
अथादि-शूरस्य पात्रं प्रति क्रतुज्ञब्राह्मणकुलीनशूद्रयोःप्रश्नस्तस्योत्तरञ्च “पात्रं पप्रच्छ पूतं परमसुरपद-द्वन्द्वपद्मार्च्चकोऽसौ कासन्ते काश्यपीशाः क्रतु-कृतिकुशलाः क्वापि शूद्राः कुलीनाः पात्रन्तेषामवोचत् परिचयमखिलं भूपवाक्यात् द्विजास्तेकोलाञ्चस्थाः कुरङ्गा इव किल तपसा नैव केषा-मधीनाः
कोलाञ्चस्य महीपतिः क्षितिभूजा-मेकप्रधानः प्रधी स्वेष्टे निष्ठमतिर्महाशयवरंश्रीवीरसिंहः स्वभूत् तद्देशवासिनः समाधि-कृतिनः पापालिसंहारिणः सन्ति व्यासलमाःसभासद इतो गौडेन्द्रभूमीश्वराः”
*
अथ वीरसिंहं प्रति लिपिप्रेरणम् ।“भूपोऽभूद्भवने स्वचेष्टितपरः सद्भृत्यभार्य्यान्वितान्भूदेवान् वृषवान् विचित्रलिखनैरानेतुकामः स्वयम् ।पात्रेण प्रणयप्रमोदरचितां श्रीवीरसिंहे लिपिंगौडक्ष्मापतिरेव पुण्यसुमतिर्दूतेन प्रास्थापयत्”
*
अथ लिपिप्रकारः ।“सुकृतसुकृतसंघाः सर्व्वशास्त्रार्थदक्षालपितहतविपक्षाः स्वस्तिवाक्याः श्रुतिज्ञाः ।सुजितसुगतवृन्देगौडराज्ये मदीयेद्विजकुलवरजाताः सानुकम्पाः प्रयान्तु
नृपतिसुकृतिसारः स्वीयवंशावतारःप्रबलबलविचारो वीरसिंहोऽतिवीरः ।मयि वरसखितास्ते भूमिदेवान् सशूद्रान्पुनरपि मम गौडे प्रापय त्वं नितान्तम्”
*
अथ ब्राह्मणशूद्राणां गौडदेशे गमनेच्छा ।“मुदा गन्तुकामाः पुरावासगौडाःसमाहाय कोलाञ्चदेशं क्षितीशम् ।नृपाज्ञाञ्च लवध्वा सदारादिभृत्यामहायोगिनस्ते बभूवुः सशूद्राः”
*
अथादिशूरसमीपे ब्राह्मणप्रेरणम् ।“महाराजराजादिशूरो महात्मात्वया वीरसिंहस्य मेऽस्त्वादिसख्यम् ।तवाज्ञानुसाराद्धि प्रस्थापयामिद्विजान् पञ्चगोत्रान् सदारादिभृत्यान्”
*
अथ ब्राह्मणानां गमनम् ।“चलच्चञ्चलाश्वालियानाः प्रधानावृहत्श्मश्रुगुम्फातिशोभानलाभाः ।क्रतुज्ञाः श्रुतिज्ञाः प्रतिज्ञानसाध्याःसवर्म्माश्वशस्त्राः प्रयाताः प्रयागम्
ततः स्नानदानादि कृत्वा विप्राःययस्तेऽपि वाराणसीं पञ्चगोत्राः ।ततो विश्वनाथं समालोक्य दानै-र्यशः प्राप्य तस्माद्गयाभू मिमापुः”
*
अथ ब्राह्मणानां गौडराज्यप्रवेशो राजसमीपेआशिरर्थं गमनञ्च“पितॄन् बान्धवांस्तारयित्वा गयायांगताः शासितं गौडराज्येशराज्यम् ।ततस्तेजसा ते दिशो भासयन्तःश्रुतिं व्याहृतिं भारतीं पाठयन्तः
ततो हस्तदूर्व्वाक्षताः पञ्चगोत्रानृपञ्चाशिषं कर्त्तुमेव प्रतस्थुः ।अमी पञ्च मध्याह्नमार्त्तण्डतुल्याद्विजाः स्थापिताश्वाः परश्रेयसञ्च”
*
अथैषां वेशं दृष्ट्वा राज्ञोऽवज्ञा तेषां शुष्कवृक्षेआशिषो निक्षेपश्च “दृष्ट्वैवं वेशमेषामवनिपति-रसौ भ्रात्तचित्तो द्विजानां तैरालापं कृत्वास्वगृहमपि ययौ गन्तु कामाः पुनस्ते बुद्ध्वा भू-पालबुद्धिं क्षणमपि बुधाः शुष्कवृक्षाशिषस्तेतद्धस्तात् प्राप्य दूर्ब्बाक्षतमपि वभौ शुष्कवृक्षःसुवृक्षः”
*
अथ राज्ञा ब्राह्मणानां प्रशान्तनंगोत्रनामप्रश्नश्च ।“सविस्मया वै गलबद्धवस्त्राभूपादयस्ते चरणारविन्दम् ।पवित्रकीर्त्तिं भुवि भूसुराणांश्रुत्वा पेतुः सकलाः प्रणम्य
क्षमध्वमस्माकमुच्चित्तवादंमूढात्मनाञ्चापराधं हि विप्राः ।भो ब्रूत विप्राः किमु नाम गोत्रंततश्च सर्व्वे गदितुं प्रवृत्ताः”
*
अथ पञ्चब्राह्मणानां परिचयः ।“अभूद्वन्द्यवंशोद्भवो भट्टनारायणोऽयञ्च शाण्डिल्य-गोत्रे गरीयान् तपस्वान् यशस्वान् दयावान्सुविद्वान् विवस्वानिवास्यां सभायां विभाति
श्रुतितत्त्वतदङ्गविचारकरोऽत्रनिपालक काश्यप-गोत्रवरः क्रतुदक्षसमः किल दक्षमहाशयो नामइति भुवि भाति यतिः
समस्तशास्त्रपण्डित-स्तथागवप्रखण्डितः प्रचण्डसर्व्ववैरिदर्पगर्व्वखर्व्व-कारकः सावर्णगोत्रसम्भवोऽत्र भाति वेदगर्भकःछान्दडः प्रभाति भूप वात्स्यगोत्रसम्भवः
यशः-सुधाकरोत्तपत्सपत्निसङ्गयोषिताननाम्बुजे महा-तपस्तपोवशीकृतेन्द्रियः
अयं श्रीलहर्षोऽनिशंदानहर्षो महर्षिर्यथास्यां तपोभिः प्रभाति क्षि-तीन्द्र ! क्षितौ यो भरद्वाजगोत्रेश्वरो विप्रवर्य्यःप्रतापारिशौर्य्यः”
*
अथ शूद्रपरिचयप्रश्नः ।“के यूयं नाम किं वा कथयत कृतिनः स्वागताःक्वापि देशात् ? कोलाञ्चात् पञ्चशूद्रा वयमपिनृपते ! किङ्करा भूसुराणाम् धन्या यूयं पृथिव्यांपरिचयमखिलं ब्रूत भो विप्रभक्ताः श्रुत्वोचुर्व्वि-प्रवर्य्याः सकलपरिचयं भूपतेरत्नि चैषाम्
*
अथ पञ्चशूद्राणां परिचयः ।“सुकृतालिकृताम्बर एष कृतीक्षितिदेवपदाम्बुजचारुरतिः ।मकरन्द इति प्रतिभाति यति-र्द्विजवन्द्यकुलोद्भवभट्टगतिः
घोषकुलाम्बुजभानुरयंप्रथिमेन्दुयशःसुरलोकवशः ।सततं सुसुखी सुमतिश्च सुधीःशरदिन्दुपयोऽम्बुधिकुन्दयशाः
वसुधाधिपचक्रवर्त्तिनोवसुतुल्या वसुवंशसम्भवाः ।वसुधाविदिता गुणार्णवै-र्नियतं ते जयिनो भवन्तु नः
दशरथो विदितो जगतीतलेदशरथप्रथितः प्रथमः कुले ।दशदिशां जयिनां यशसा जयीविजयते विभवैः कुलसागरे
यशस्विनां यशोधरः सदा हि सर्व्वसादरःप्रमत्तसत्वमत्तहःशरत्सुधांशुवद्यशः ।प्रतापतापनोत्तपद्द्विषालियोषिदालिकोविभाति मित्रवंशसिन्धुकालिदासचन्द्रकः
द्विजालिपालनार्थकोऽप्यसौ हर्षसेवकः ।कुलाम्बुजप्रकाशको यथान्धकारदीपकः
अयं गुहकुलोद्भवो दशरथामिधानो महान्कुलाम्बुजमधुव्रतो विविधपुण्यपुञ्जान्तितः ।निशम्य गुहभाषितं सकलसभ्यहास्यं व्यभूत्स वङ्गगमनोद्यतो विबिधमानभङ्गो यतः
अहञ्च पुरुषोत्तमः कुलभृदग्रगण्यः कृतीसुदत्तकुलसम्भवो निखिलशास्त्रविद्योत्तमः ।विलोकितुमिहागतो द्विजवरैश्च राज्यं प्रभो !चकार नृपतिः तं विनयहीनतो निष्कुलम्”
*
अथाष्टौ सिद्धमौलिकाः ।“गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिकाये हि सिद्धास्ते दत्ताः सेनदासाः करगुहसहिताःपालिताः सिंहदेवाः ये वापाद्याभिमुख्याः स्थि-तिविनयजुषः सप्ततिस्ते द्विपूर्व्वा होडाद्या वीक्ष्यराज्ञा चरणगुणवुता मौलिकत्वेन साध्याः”
*
अथ द्विसप्ततिः साध्यमौलिकाः ।“होडः स्वर धर धरणी वान आइच सोमः पैसुरसामः भञ्जो विन्दो गुह वल लोधः शर्म्मा वर्म्माहुइ भुइ चन्द्रः
रुद्रो रक्षित राजादित्यो विष्णु-र्नागः खिल पिल गूतः इन्द्रो गुप्तः पालो भद्रओमश्चाङ्कुर बन्धुर नाथः
शाँइ हेशश्च मनोगण्डो राहा राणा राहुत साना दाहा दाना गणउपमाना खामः क्षोमो घर वैओषो वीदस्तेज-श्चार्णव आशः
शक्तिर्भूतो ब्रह्मः शानः क्षेमोहेमो बर्द्धन रङ्गः गुइः कीर्त्तिर्यशः कुण्डुर्नन्दीशीलो धनुर्गुणः
*
इति दक्षिणराढीयघटक-कारिका
*
*
*
अथ वङ्गजकुलाचार्य्यकारिका लिख्यन्ते ।अथ शूद्रोत्पत्तिः ।तथा चाग्निपुराणोक्तजातिमालायाम् ।“आदौ प्रजापतेर्जाता मुखाद्विप्राः सदारकाः ।बाह्वोश्च क्षत्त्रिया जाता उर्व्वोर्व्वैश्या विजज्ञिरे
पादाच्छूद्रश्च सम्भूतस्त्रिवर्णस्य सेवकः ।हीमनामा सुतस्तस्य प्रदीपस्तस्य पुत्त्रकः
कायस्थस्तस्य पुत्त्रोऽभूद्बभूव लिपिकारकः ।कायस्थस्य त्रयः पुत्त्राः विख्याता जगतीतले
चित्रगुप्तश्चित्रसेनो विचित्रश्च तथैव ।चित्रगुप्तो गतः स्वर्गे विचित्रो नागसन्निधौ
चित्रसेनः पृथिव्यां वै इति शूद्रः प्रचक्ष्यते”
*
अथ चित्रसेनादिसुताः ।“वसुर्घोषो गुहो मित्रो दत्तः करण एव ।मृत्युञ्जयश्च सप्तैते चित्रसेनसुता भुवि
करणस्य सुता जाता नागो नाथश्च दासकः ।मृत्युञ्जयतनूद्भूता देवः सेनश्च पालितः
सिंहश्चैव तथा ख्यातश्चैते पद्धतिकारकाः ।एते पद्धतिकाराश्च मुनिभिः कथिताः पुरा”
*
अथ द्वादशशुद्धवंशजाः ।“वसुर्घोषो गुहो मित्रो दत्तो नागश्च नाथकः ।दासो देवस्तथा सेनः पालितः सिंह एव
एते द्वादशनामानः प्रसिद्धाः शुद्धवंशजाः”
*
अथ सप्ताशीतिः पद्धतिकाराः ।“मृत्युञ्जयवंशभूतो नित्यानन्दो नृपेश्वरः ।तस्यापि वंशसंजाताः सप्ताशीतिः प्रकीर्त्तिताः
तेऽपि पद्धतिकाराश्च मुनिभिः कथिताः पुरा”
*
तेषां नामानि ।करो भद्रो धरो नन्दी पालश्चाड्करदामकः ।स्मारो धरणिहोडौ वानश्चाइचसोमकौ
पै सुरः शोनकश्चैव भञ्जो विन्दुर्गुहस्तथा ।बलश्च लोदकश्चैव शर्म्मा वर्म्मा भूमिकः
हुइश्च रुद्रकश्चैव चन्द्रो रक्षितराजकौ ।आदित्यविष्णुगुप्ताश्च खिलश्च पीलकस्तथा
चाञिर्हेशश्च बन्धुश्च शाञिश्च सुमनुस्तथा ।गण्डको राहकश्चैव राणाराहुतदाहकाः
दाना गणश्च मानाश्च खामापक्षेमघारकाः ।वैतोषवेदकाश्चैन्दश्चार्णवश्चावशक्तिकः
भूतो ब्रह्मः संज्ञः क्षीमो बर्द्धनो हेमरङ्गकौ ।भूञिः कीर्त्तिर्यशः कुण्डुः शीलश्चैव धनुर्गुणः
दाँडिर्मनोरितिश्चैव चाकिश्च नन्दनस्तथा ।श्यामश्चाढ्यश्च पूञिश्च तेजको नाद एव
रोइर्ह्रोमश्च हाथिश्च ढोलश्च दूतकस्तथा ।एते पद्धतिकाराश्च सप्ताशीतिः प्रकीर्त्तिताः”
एताः सप्ताशीतिपद्धतयः द्वादशशुद्धपद्धतयश्च मि-लित्वा नवाधिकनवतिपद्धतयो भवन्ति
एतेषां पु-रोहितगोत्रप्रवरेण गोत्रप्रवरत्वं मुनिभिरुक्तम्
*
अथ कान्यकुब्जात् पञ्चानां विप्राणां शूद्राणाञ्चा-गमनमाह देवीवरः ।“अम्बष्ठकुलसम्भूत आदिशूरो नृपेश्वरः ।राढगौडवरेन्द्राश्च वङ्गदेशस्तथैव
एतेषां नृपतिश्चैव सर्व्वभूमीश्वरो यथा ।अमात्यैर्बान्धवैश्चैव मन्त्रिभिर्द्विजवृन्दकैः
एतैः सह महीपाल एकदा निजालये ।उपविष्टो द्विजान् प्रष्टुं धर्म्मशास्त्रपरायणः
केन यज्ञेन भगवत्प्रीतिर्भवति निश्चितम् ।तत् सर्व्वं श्रोतुमिच्छामि कथयध्वं द्विजोत्तमाः
इति श्रुत्वा द्विजाः सर्व्वेखर्व्वीकृतकलेवराः ।कथयन्ति नृपाग्रे तु सर्व्वे विकृतमानसाः
केन केन विधानेन यज्ञो वा क्रियते बुधैः ।वयं सर्व्वे जानीमो विधानं कीदृशं क्रतोः
इति तेषां वचः श्रुत्वा चिन्तायुक्तो महीपतिः ।किं करोमि क्व गच्छामि विललाप पुनः पुनः
कान्यकुब्जात् समानीतान् दूतेन द्विजपञ्चकान् ।वेदशास्त्रेष्ववगतान् सर्व्वास्त्रे विशारदान्
गोयानारोहितान् विप्रान् खड्गचर्म्मादिभिर्युतान् ।पत्तिवेशान् समालोच्य विषादो जायते हृदि
अश्रद्धा जायते राज्ञ इति ज्ञात्वा द्विजोत्तमाः ।आशीर्व्वादार्थनिर्म्माल्यं मल्लकाष्ठोपरि स्थितम्
तदा काष्टं सजीवं स्यात् फलपल्लवसंयुतम् ।इति दृष्ट्वा नृपस्तस्मिन् कम्पान्वितकलेवरः
स्तोत्रञ्च बहुधा तेषामकरोत् नृपोत्तमः ।आसनं पाद्यमानीय ददौ विनयपूर्व्वकम् ।उपविष्टा द्विजाः पञ्च तथा शूद्रपञ्चकाः
राजंस्ते कुशलं सर्व्वं प्रोचुश्चेत्यवदत् तान् ।अद्य मे सफलं जन्म जीवितञ्च सुजीवितम्
पूतञ्च वनं जातं युष्माकं गमनं यतः ।एवञ्च क्रियते स्तोत्रं पृष्ट्वान्यत् शूद्रपञ्चके
युष्माकं गोत्रमाख्या किमर्थं वा द्विजैः सह ।तत् सर्व्वं श्रोतुमिच्छामि ब्रूत भोः शूद्रपुङ्गवाः
इति राज्ञो वचः श्रुत्वा कथयन् नामगोत्रके ।काश्यपे चैव गोत्रे दक्षनामा महामतिः
तस्य दासो गौतमस्य गोत्रे दशरथो वसुः ।शाण्डिल्यगोत्रे सम्भूतो भट्टनारायणः कृती
सौकालिनश्च दासोऽयं घोषः श्रीमकरन्दकः ।भरद्वाजेषु विख्यातः श्रीहर्षो मुनिसत्तमः
दासस्तस्य विराटाख्यो गुहकः काश्यपः स्मृतः ।सावर्णगोत्रनिर्द्दिष्टो वेदगर्भमुनिस्त्वयम्
तस्य दासो मित्रवंशो विश्वामित्रश्च गोत्रकः ।कालिदास इति ख्यातः शूद्रवंशसमुद्भवः
वात्स्यगोत्रेषु सम्भूतश्च्छान्दडश्चेति संज्ञितः ।मौद्गल्यगोत्रजो दत्तः पुरुषोत्तमसंज्ञकः
एतेषां रक्षणार्थाय आगतोऽस्मि तवालये ।इति श्रुत्वा नृपस्तत्र मनसा हर्षमागतः
विधानेनैव निर्वर्त्त्य क्रतुञ्च धर्म्मसंज्ञितम् ।ग्रामं सुवर्णं गाञ्चैव वस्त्राणि विविधानि
दक्षिणार्थे द्विजातिभ्यः प्रददौ नृपोत्तमः ।अत्र देशे कृतावासाः सर्व्वे द्विजशूद्रकाः
बहवश्च प्रजा जाता नानादेशनिवासिनः”
*
अथ वल्लालकृतश्रेणिविभागः ।“अथ वल्लालभूपश्च अम्बष्टकुलनन्दनः ।कुरुतेऽतिप्रयत्नेन कुलशास्त्रनिरूपणम्
आदिशूरानीतविप्रान् शूद्रांश्चैव तथापरान् ।एतेषां सन्ततीः सर्व्वा आनयत् निजालये
यत्र यत्र स्थिता विप्रास्तत्र ग्रामे निरोपिताः ।श्रेणीद्वयन्तु निर्णीतं राढीवारेन्द्रसंज्ञितम्
तथैव द्विविधं प्रोक्तं कुलञ्च सद्विजोत्तमे ।शूद्रस्याथ चतम्रश्च नृपेण श्रेणयः कृताः
उदगदक्षिणराढौ वङ्गवारेन्द्रकौ तथा ।इति चतस्रः संज्ञाः स्युस्तत्तद्देशनिवासनात्
कुलं चतुर्व्विधं तेषां श्रेणीश्रेणीविशेषतः”
*
अथ वङ्गजकायस्थश्रेणिनिर्णयः ।“तत्र वङ्गेषु यैः शूद्रैर्निवासः क्रियतेऽधुना ।तेषां निर्णयमाचक्षे कुलञ्चैव विशेषतः
वसुवंशे मुख्यौ द्वौ नाम्ना लक्षणपूषणौ ।घोषेषु समाख्यातश्चतुर्भुजमहाकृती
गुहे दशरथश्चैव मित्रे तारापतिस्तथा ।दत्ते नारायणश्चैव एते वङ्गजाः स्मृताः”
अपरन्तु ।“नागे दशरथश्चैव महानन्दस्तु नाथकः ।चन्द्रशेखरदासस्तु सेने गङ्गाधरस्तथा
दामोदरकरः ख्यातो दामस्तूषापतिस्तथा ।पालिते जनसंज्ञः स्यात् चन्द्रे नारायणाख्यकः
पाले आवः समाख्यातो राहावंशे कृष्णकः ।भद्रे दिगम्बरश्चैव धरे तु व्याससंज्ञकः
प्रभाकरस्तु नन्दी स्यात् केशवो देववंशजः ।अवीपतिरिति ख्यातः कुण्डुवंशे प्रकीर्त्तितः
सोमे वंशधरश्चैव सिंहे रत्नाकरस्तथा ।नारायणः समाख्यातो रक्षिते तथापरे
वेदगर्भाड्कुरश्चैव दैत्यारिर्विष्णुसंज्ञकः ।आढ्ये त्रिलोचनः ख्यातो नन्दने उषापतिः
एते वङ्गजनिर्द्दिष्टा वल्लालेन महात्मना ।अन्येऽपि शूद्रा विख्यातास्तत्र देशनिवासिनः
ते वङ्गजाः समाख्याताः करणेषु प्रतिष्ठिताः”
*
अथ वङ्गजकुलीनादिनिरूपणम् ।“कुलीन इति संज्ञा स्यात् मध्यन्यश्च तथापरः ।महापात्रोऽचलश्चैव इति संज्ञाचतुष्टयम्”
तद्यथा ।“वसुर्घोषो गुहो मित्रो दत्तो नागश्च नाथकः ।दासः सेनः करो दामः पालितश्चन्द्रपालकौ
राहो भद्रो धरो नन्दी देवः कुण्डुश्च सोमकः ।रक्षिताङ्कुरसिंहाश्च विष्णुराढ्यश्च नन्दनः
चत्वारोऽग्र्यास्त्रयो मध्या महापात्राः परे तथा ।सप्तविंशतिः शूद्राणां वल्लालेन प्रशंसिताः”
*
इति कुलीनमध्यन्यमहापात्राः अचलान् वक्ष्यामि ।“होढश्च स्मारकश्चैव धरणीवान एव ।आइचः पैसुरश्चैव शानश्च भञ्जविन्दुकौ
गुहश्च वललोधौ शर्म्मा वर्म्मा भूमिकः ।हुइश्च रुद्रकश्चैव राणादित्यौ पीलकः
खिलश्च गुप्तचाञी बन्धुश्च शाञिसंज्ञकः ।हेशश्च सुमनुर्गण्डो राणाराहुतदाहकाः
दानागणापमानाख्याः खामः क्षेमश्च तोषकः ।वैश्चापि घरवेदौ भूतार्णवकब्रह्मकाः
एन्दश्च शक्तिसङ्गौ क्षेमाशौ वर्द्धनस्तथा ।हेमश्च बन्धकश्चैव भूञिः कीर्त्तिश्च शीलकः
धनुर्गुणो यशश्चैव मनोरीतिश्च दाडिकः ।चाकिश्च श्याम पूञिश्च गण्डको नादकस्तथा
रोइश्च होमकश्चैव चाशकश्च तथैव ।ढोलश्च दूतकश्चेति द्विसप्तत्यचलाः स्मृताः”
एतेषां प्रतिपुरुषक्रमेण कुलार्च्चनात् महापात्र-भावो जायते
*
इति वङ्गजघटकरामानन्द-शर्म्मकृतकुलदीपिका