| YouTube Channel

कामरूपः (kAmarUpaH)

 
Wordnet
Sanskrit
Synonyms:
कामरूपः
noun
षड्विंशतिभिः मात्राभिः युक्तः छन्दोविशेषः।
"कामरूपे सप्तमे नवमे दशमे विरामः भवति तथा अन्ते गुरुः लघुश्च भवति।"
शब्दकल्पद्रुमः
Sanskrit
कामरूपः,
पुं,
(मूलप्रकृतिर्भगवती कामरूपिणीसती यत्र देशे विराजमाना देशस्तन्नाम्ना एवउच्यते ।) स्वनामख्यातदेशः तत्पर्य्यायः प्राग्-ज्योतिषः इति त्रिकाण्डशेषः
तत्र काम-गिरौ योनिपीठे कामाख्या देवी वर्त्तते यथा ।“योनिपीठं कामगिरौ कामाख्या तत्र देवता” ।“सर्व्वत्र विरला चाहं कामरूपे गृहे गृहे”
इति तन्त्रचूडामणौ पीठमाला
(अयं हि गणेश-गिरिशिखरस्थो देशः यदुक्तं तन्त्रे ।“कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् ।कामरूपाभिधो देशो गणेशगिरिमूर्द्ध्वनि”
कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतं यावत्
अयं खलु वङ्गदेशस्य ईशानभागे आसामप्रदेशस्यपश्चिमभागे वर्त्तते
)
कामरूपः, त्रि, (कामं काम्यं मनोहरं रूपं यस्य ।)मनोज्ञरूपः स्वेच्छारूपः (यथा महाभारते ।१ सुपर्णस्तुतौ २३ ।“कामरूपः कामगर्भः कामबीर्य्यो विहङ्गमः”
)तथा मेघदूते ।“जातं वंशे भूवनविदिते पुष्करावर्त्तकानांजानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः”