| YouTube Channel

काचलवणं (kAcalavaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
काचलवणं,
क्ली,
(काचात् क्षारमृत्तिकाया जातं लव-णम् ।) लवणविशेषः कालालुण इति भाषा ।तत्पर्य्यायः नीलम् काचोद्भवम् काचम् ४नीलकम् काचसम्भवम् काचसौवर्च्चलम् ७कृष्णलवणम् पाकजम् काचोत्थम् १० हय-गन्धम् ११ काललवणम् १२ कुरुविन्दम् १३ काच-मलम् १४ कृत्रिमम् १५ अस्य गुणाः रुचि-कारित्वम् ईषत्क्षारत्वम् पित्तवृद्धिकारित्वम् ।दाहदातृत्वम् कफवातगुल्मशूलनाशित्वम् अग्नि-दीपनत्वञ्च इति राजनिर्घण्टः