| YouTube Channel

काकमाची (kAkamAcI)

 
शब्दसागरः
English
काकमाची
f.
(-ची) An esculent vegetable, commonly Gurkamai, (Sola-
num Indicum. )
E.
काक, मच् to respect, &c. अण् and ङीष् affixes
also with कन् and टाप् added, काकमाचिका.
Yates
English
काक-माची (ची) 3.
f.
Idem.
Wilson
English
काकमाची
f.
(-ची) An esculent vegetable, commonly Gūrkamai,
(Solanum Indicum. )
E.
काक, मच to respect, &c. अण् and ङीष् affixes
also with कन्
and टाप् added, काकमाचिका.
Monier Williams Cologne
English
काक—माची
f.
id.,
Suśr.
Shabdartha Kaustubha
Kannada
काकमाची
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಚಿಗಿಡ /ಗಣಿಕೆ ಗಿಡ
निष्पत्तिः - > मचि (धारणोच्छ्रायपूजनेषु) - "अण्" (३-२-१) पृषो० गौरा० "ङीष्"
व्युत्पत्तिः - > काकान् मञ्चते
Wordnet
Sanskrit
Synonyms:
वायसी, काकोडुम्बारिका, काकमाची, महाज्योतिष्मती, काकनामा, काकतुण्डी
noun
वृक्षविशेषः
"राजनिर्घण्टः इति ग्रन्थे वायस्याः वर्णनं प्राप्यते"
अभिधानचिन्तामणिः
Sanskrit
--source--
काकमाची वायसी स्यात्कारवेल्लः कठिल्लकः
-wordlist-
काकमाची (स्त्री), वायसी (स्त्री), कारवेल्ल (पुं), कटिल्लक (पुं)
वैजयन्तीकोषः
Sanskrit
Word: काकमाची
Root: काकमाची
Gender: स्त्री
Number: all
अर्थः
Meaning(s):
Solanum nigrum
Tamil Maṇa takkāl̤i
Shloka(s):
3|3|112|2 तृड्घ्न्यां वयस्या काकोली काकमाची तु वायसी॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|112|2 काकमाची (काकमाची) (स्त्री) Solanum nigrum
Tamil Maṇa takkāl̤i
3|3|112|2 वायसी (वायसी) (स्त्री) Solanum nigrum
Tamil Karum or (Maṇa) takkāl̤i
Related word(s):
अमरकोशः
Sanskrit
Word: काकमाची
Root: काकमाची
Gender: स्त्री
Number: all
Meaning(s):
Shloka(s):
2|4|151|2 मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी॥ (वनौषधिवर्गः)
Synonym(s):
2|4|151|2 काकमाची (काकमाची) (स्त्री)
2|4|151|2 वायसी (वायसी) (स्त्री)
Related word(s):
जातिः ओषधिः
शब्दकल्पद्रुमः
Sanskrit
काकमाची,
स्त्री,
(काकान् मञ्चते अर्च्चयति फल-दानेनेति मचि + अण् + गौरादित्वात् ङीष्पृषोदरादित्वात् लोपः ।) क्षुद्रवृक्षविशेषः ।गुडकामाइ इति भाषा तत्पर्य्यायः वायसी ।इत्यमरः १५१
ध्माङ्क्षमाची वाय-साह्वा सर्व्वतिक्ता बहुफला कट्फला ७रसायनी गुच्छफला काकमाता १० स्वादु-पाका ११ सुन्दरी १२ तिक्तिका १३ बहुतिक्ता१४ अस्या गुणाः कटुत्वम् तिक्तत्वम् उष्ण-त्वम् कफशूलार्शःशोथदोषकुष्ठकण्डूनाशित्वञ्च ।इति राजनिर्घण्टः
त्रिदोषशमताकारित्वम् ।वृव्यत्वम् रसायनत्वम् नातिशीतत्वम् नात्यु-ष्णत्वम् हृद्यत्वम् भेदकत्वञ्च इति राज-वल्लभः
(तथाच भावप्रकाशस्य पूर्व्वखण्डे भागे
“काकमाची त्रिदोषघ्नी स्निग्धोष्णास्वरशुक्रदा
तिक्ता रसायनीशोथकुष्ठार्शोज्वरमेहजित् ।कटुर्नेत्रहिता हिक्काच्छर्द्दिहृद्रोगनाशिनी”
)
वाचस्पत्यम्
Sanskrit
काकमाची स्त्री काकान् मञ्चते मचि--अण् पृषो० नलोपःपा० गौरा० ङीष्, मुग्ध० षण् ईप् कट्फललतायाम् ।(कठेया गुड्कामाइ) इति ख्याते वृक्षे भावप्र० ।तत्पर्य्यायगुणाद्युक्तं तत्रैव यथा--“काकमाची ध्वाङ्क्ष-माची काकाह्वा चेव वायसी माकमाची त्रिदोषर्घ्नस्निग्धोष्णा स्वरशुक्रदा तिक्ता रसायनी शोथकुष्ठाशेज्वररोगजित् कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रोगनाशिनी“काकमाचिजनितं मृदुशाकं वेशवारमिलितं शुभवासम् ।तप्ततैलतलनेन सुपाकं कैरवाप्य कृतं मुखवासम्”इत्यत्र वैद्यके असंज्ञायामपि “ङ्यापोरिति” पा० ह्रस्वःइति बोध्यम् स्वार्थे कन् काकमाचिकाऽप्यत्र