| YouTube Channel

कांस्यं (kAMsyaM)

 
शब्दकल्पद्रुमः
Sanskrit
कांस्यं,
क्ली,
(कंसाय पानपात्राय हितं कंसीयं तस्यविकारः इति “कंसीयपरिसव्ययोरिति” ।१६८ यञ् छस्य लुक् यद्वा कंसमेव इति स्वार्थेयञ् प्रत्ययः ।) ताम्ररङ्गमिश्रितधातुः काँसा इतिभाषा तत्पर्य्यायः कंसम् कंसास्थि ताम्रार्द्धम्४ इति त्रिकाण्डशेषः
सौराष्ट्रकम् घोषम् ६कांसीयम् वह्निलोहकम् दीप्तिलोहम् ९घोरघुष्यम् १० दीप्तिकांस्यम् ११ कास्यम् १२ ।अस्य गुणाः तिक्तत्वम् उष्णत्वम् चक्षुर्हितका-रित्वम् वातकफविकारनाशित्वम् रूक्षत्वम् ।कषायत्वम् रुचिकारित्वम् लघुत्वम् दीपनत्वम् ।पाचनत्वम् पथ्यत्वञ्च इति राजनिर्घण्टः
अम्ल-रसत्वम् विशदत्वम् लेखनत्वम् सारकत्वम् ।पित्तनाशित्वम् इति राजवल्लभः
दृढदेहायुर्वृद्धि-कारित्वम् इति सुखबोधः
(“उपधातुर्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः ।कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा जनैः ।संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः
कांस्यङ्कषायन्तिक्तोष्णं लेखनं विशदं सरम् ।गुरुनेत्रहितं रूक्षं कफपित्तहरम्परम्”
इति भांवप्रकाशस्य पूर्व्वखण्डे भागे
)तत्शोधनमारणमाह ।“अनेनैव विधानेन कांस्यं विड्गन्धलेपितम् ।मारयेद्बुद्धिमान् तैद्यो मृतं भवति चूर्णवत्”
अन्यच्च ।“द्विक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् ।कांस्यारकुटपत्राणि तेन कल्केन लेपयेत् ।बद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा”
अन्यच्च ।“ताम्रवच्छोधन कृत्वा ताम्रवन्मारयेद्बुधः”
अन्यच्च ।“कज्ज्वलीं तत्समां दत्त्वा मर्द्दयेन्निम्बुकद्रवैः ।एवं पुटत्रयेणैव निरुत्थं भस्म जायते”
इति सुखबोधः