| YouTube Channel

कसि (kasi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कंस्
मूलधातुः:
कसि
धात्वर्थः:
गति-शासनयोः
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कंस्ते
धातुप्रदीपः
Sanskrit
कसिँ कसि गति, निशानयोः
- कंस्ते कंसाते कंसते चकंसे कंसः सुरारिभेदः कांस्यम् ।।14।।
क्षीरतरङ्गिणी
Sanskrit
कसिँ कसि गति, शासनयोः
- कंसते, कंसिता कंसनः कंसः कस इत्येके 14
धातुवृत्तिः
Sanskrit
कसिँ कसि (अर्थः) गति, शासनयोः
( कंस्ते कंसाते कंसते कंसे कन्ध्वे ) "धि च'' इति सलोपः, अत्रायोगवाहानामट्सु णत्वमविशेषेण संयोगोपधासंज्ञाऽलोन्त्यद्विर्वचनस्थानिवत्प्रतिषेधा इति यत्र प्रयोजनं तत्र तत्रायोगवाहानामुपदेशस्य चोदितत्वादनुस्वारस्याच्त्वाश्रयणे धकरास्य "अनचि च'' इति वा द्विर्ववने पूर्वस्य जश्त्वेऽनुस्वारस्य परसवर्णे नकारदकारधकारवकाराः संयुज्यन्ते, द्विर्वचनाभावे तु दकारस्याभावादन्ये त्रयः ननु द्वित्वपक्षेऽपि "झरो झरि सवर्णे'' इति दकारस्य लोपात्त्रयाणामेव संयोगः स्यात् मैवम् अस्य विभाषितत्वात् एवं कंस्तइत्यादावपि सकारस्य झल्परत्वे पक्षे द्विर्वचनं द्रष्टव्यं, "स्कोः'' इति सलोपस्यविद्यमानत्वाद् द्विर्वचनमकृतसममिति मन्तव्यम्, अस्मिन् द्विर्वचनस्यासिद्धत्त्वात् कंस्वहीत्यादौ झल्परत्वाभावाच्च सलोपप्रसङ्गो नापि "झरो झरि'' इति सलोपेन वैयर्थ्यमाशङ्कनीयं तस्य विकल्पितत्वात् एवमुदाहरणेषु द्वौ सकारावेको वा मध्यमैकवचने द्वित्वे त्रयः सकाराः, अद्वित्वे "झरो झरि'' इति यदा लोपस्तदैकः, अन्यदा तु द्वौ, ( चकंसे चकंसिषे चकंसिवहे कंसिता, कंसिष्यते कंस्तां, कंस्व, कन्ध्वं, कंसै अकंस्त, अकंस्थाः, अकंसि कंसीत, कंसीथाः कंसीय आशिषि-कंसिषीष्ट अकंसिष्ट, अकंसिष्ठाः अकंसिषि चिकंसिषते चाकंस्ति, चाकंस्यते चाकंसीति ) लङि अटि तिप्सिपोर्हल्ङ्यादिलोपे संयोगान्तलोपे ( अचाकन्, कंसयति अचकंसत, ) सर्वत्रेदित्त्वान्नुम् अत एव चाकंस्यतइत्यादौ लोपाभावः, अयं पाठो मैत्रेयादीनाम् अन्ये तु व्याख्यान्तरेऽमुं तालव्यान्तमनिदितं मन्यन्ते तथा "प्रतिष्कशश्च कशेः'' इत्यत्र वृत्तिः, "कश गतिशासनयोः'' इति सूत्रे सुधाकरश्च, पारायणिकैयमिदिहन्त्यान्त्य उदाहारि अन्यैस्तु "प्रतिष्कशश्च कशेः'' इति दर्शनात्तालव्यान्तः समान्मायि, "घृतस्य धारा अभिचाकशीमि'इत्यत्र भट्ट भास्करश्च कशेर्गतिकर्मणो यङ्लुकि रूपमिति तथा "नाभ्यस्तस्य'' इत्यत्र वृत्तौ पस्पशाते चाकशीति वावसीतीत्युदाहृत्य छान्दसं ह्रस्वत्वं द्रष्टव्यम्, पस्पशातइत्यभ्यासह्रस्वत्वं च, प्रकृत्यन्तराणां वा स्पशिवशिकशीनामेतानि रूपाणीत्युक्तम् अत्र हरदत्तादयः स्याशिर्वार्त्तिककारवचनादपठितोऽपिधातुरस्ति, काशृ दीप्तौ वासृअदने इत्याद्युक्त्वा प्रकृत्यन्तराणामिति विवृण्वाना आहुः कशगतिशासनयोरिति कैयटे स्पशिवशिकशयाः प्रकृत्यन्तराणीति भाष्यमुपादाय स्पश बाधनस्पर्शनयोः कश गतिशासनयोरिति के चित्पठन्ति, अन्ये तु कस गतिशासनयोरिति तन्मते कशिः सौत्रो धातुर्द्रष्टव्य इत्युक्तम् अत्र धातौ क्षीरस्वामी कसेत्येक इति दन्त्यान्तमनिदितमपि पपाठ प्रदेशान्तरे चाह कशि गतिशानयोरितीकारान्तः शकारान्तश्च पठ्यते इति (कष्टे, ) "व्रश्चादिना'' षत्वं ष्टुत्वम् कशाते कक्षे, ) षत्वकत्वे (कड्ढ्वे, ) षत्वे धकारस्य ष्टुत्वे षकारस्य जश्त्वं डकारः ( कशे, कश्वहे, चकशे, चकशिषे चकशिवहे कशिता कशिष्यते, कष्टाम्, कक्ष्व, कशै अकष्ट अकष्ठाः, कशीत कशीथाः, कशीय, ) आशिषि (कशिषीष्ट, अकशिष्ट, अकशिष्ठाः, अकशिषि चिकशिषते चाकश्यते चाकशीति, चाकष्टि, काशयति, अचीकशत् कशा) पचाद्यचि टाप् कशामर्हतीति (कश्यम्) अश्वानां मध्यं, दण्डादित्वाद्यत्, ( प्रतिष्कशः, ) वार्त्तापुरुषः सहायः पुरोयायीति वा "प्रतिष्कशश्च कशेः''इति प्रतिपूर्व्वस्य कशेरचि सुट् सस्य षत्वञ्च निपात्यते "प्रतिष्कश' इत्येतावत्येव सूत्रयितव्ये कशेरिति वचनं प्रतेः कशिसम्बन्धित्वे निपातनं यथा स्यादिति, तेन कशां प्रति गतः प्रतिकशेश्च इत्यत्र भवति, अत्र हि प्रतिर्गमिसम्बन्धः अनिदित्सान्तपक्षे कस्तइत्यादि द्रष्टव्यम् 14
कृदन्तरूपमाला
Sanskrit
1 {@“कसि गतिशासनयोः”@} 2 ‘गतिशासनयोः कंस्ते, कसतीति गतौ शपि।’ 3 इति देवः।
कंसकः-सिका, कंसकः-सिका, चिकंसिषकः-षिका, चाकंसकः-सिका
4 कंसिता-त्री, कंसयिता-त्री, चिकंसिषिता-त्री, चाकंसिता-त्री
-- कंसयन्-न्ती, कंसयिष्यन्-न्ती-ती
-- 5 कंसानः, कंसयमानः, चिकंसिषमाणः, चाकंस्यमानः
कंसिष्यमाणः, कंसयिष्यमाणः, चिकंसिषिष्यमाणः, चाकंसिष्यमाणः
6 कन्-कंसौ-कंसः -- -- -- कंसितम्-तः, कंसितः-तम्, चिकंसिषितः, चाकंसितः-तवान्
7 कंसः] कंसः, चिकंसिषुः, चिकंसयिषुः, चाकंसः
कंसितव्यम्, कंसयितव्यम्, चिकंसिषितव्यम्, चाकंसितव्यम्
कंसनीयम्, कंसनीयम्, चिकंसिषणीयम्, चाकंसनीयम्
कंस्यम्, कंस्यम्, चिकंसिष्यम्, चाकंस्यम्
ईषकंसः-दुष्कंसः-सुकंसः
-- -- कंस्यमानः, कंस्यमानः, चिकंसिष्यमाणः, चाकंस्यमानः
8 कंसः, कंसः, चिकंसिषः, चाकंसः
कंसितुम्, कंसयितुम्, चिकंसिषितुम्, चाकंसितुम्
कंसा, कंसना, चिकंसिषा, चिकंसयिषा, चाकंसा
कंसनम्, कंसनम्, चिकंसिषणम्, चाकंसनम्
कंसित्वा, कंसयित्वा, चिकंसिषित्वा, चाकंसित्वा
प्रकंस्य, संकंस्य, प्रचिकंसिष्य, प्रचाकंस्य
कंसम् २, कंसित्वा २, कंसम् २, कंसयित्वा २, चिकंसिषम् २, चिकंसिषित्वा २, चाकंसम्
चाकंसित्वा २।
प्रासङ्गिक्यः
01
=>
(१८२)
02
=>
(२-अदादिः-१०२४। सक। सेट्। आत्म।)
03
=>
(श्लो-१९२)
04
=>
[पृष्ठम्०१७७+ २६]
05
=>
[[१। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुक्।]]
06
=>
[[२। ‘संयोगान्तस्य लोपः’ (८-२-२३) इति सकारलोपः।]]
07
=>
[[[३। ‘अतः कृकमिकंस--’ (८-३-४६) इति सूत्रे ‘कमेः सः कंसः, तु कंसेः इति भाष्यात्--अस्यानभिधानं कल्प्यते।’]]
08
=>
[[४। ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति घः। कंसेरच्प्रत्ययो न, अनभि- धानात् इति ‘प्रत्ययस्य लुक्श्लुलुपः’ (१-१-६१) इत्यत्र भाष्यात्।]]