| YouTube Channel

कष्टं (kaSTaM)

 
Wordnet
Sanskrit
Synonyms:
कष्टेन, दुःखेन, कष्टं, कृच्छ्रेण, कठिनतः
adverb
काठिन्येन सह।
"कठिनतया एतद् कार्यं समाप्तम्।"
शब्दकल्पद्रुमः
Sanskrit
कष्टं,
क्ली,
(कष्यते इति कष् + भावे क्तः ।“कृच्छ्रगहनयोः कषः” २२ इति नेट् ।)पीडामात्रम् तत्पर्य्यायः पीडा बाधा ३व्यथा दुःखम् अमानस्यम् प्रसूतिजम् ७कृच्छ्रम् आभीलम् इत्यमरः ।३
आबाधा १० वेदना ११ दुखम् १२ आमा-नस्यम् १३ इति तट्टीकायां भरतः
कला-कलम् १४ इति वाचस्पतिः
अर्त्तिः १५आर्त्तिः १६ पीडनम् १७ बाधनम् १८ आम-नस्यम् १९ विबाधनम् २० विहेठनम् २१ विधा-नकम् २२ पीडितम् २३ इति शब्दरत्नावली
क्वाथः २४ अशर्म्म २५ इति जटाधरः
(यथामहानिर्व्वाणोक्तात्मज्ञाननिर्णये ।“कुर्व्वाणः सततं कर्म्म कृत्वा कष्टशतान्यपि ।तावन्न लभते मोक्षं यावज्ज्ञानं जायते”
)