| YouTube Channel

कषायपाक (kaSAyapAka)

 
वाचस्पत्यम्
Sanskrit
कषायपाक
पु०
सुश्रुतोक्ते द्रव्यविशेषाणां क्वाथभेदे तत्-प्रकारो यथा “केचिदाहुस्त्वक्पत्रमूलादीनां भागन्तच्च-तुर्गुणजलमावाप्य, चतुर्भागावशेषं निःक्वाथ्यापहरेदित्येषःकषायपाककल्पः” इति परमतमुक्त्वा “एतत्तु सम्यक्” इतितन्मतं दूषयित्वा द्रव्यपरिमाणभेदं दर्शयित्वा “तत्रान्य-तमषरिमाणसम्मितानां यथायोगं त्वक्पत्रमूलादीनामात-पपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा, भेद्यानिअणुशोभेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वा जलेनाभि-षिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येषकषायपाककल्पः” इति स्वमतेनोक्त्वा पक्षान्तरमप्युक्तम्“अथ वा तत्रोदकद्रोणे त्वक्पत्रमूलादीनां तुलामावाप्य-चतुर्भागावशिष्टं निःक्वाथ्यापहरेदित्येष कषायपाककल्पः”इति, अयञ्च कल्पो विशेषानुक्तविषये विशेषनिर्देशे तुतथैव ग्राह्यः” यथाह तत्रैव “स्नेहभेषजतीयानां प्रमाणंयत्र नेरितम् तत्रायं विधिराख्येयो निर्दिष्टे तत्तदेव तु ।अनुक्तद्रव्यकार्य्ये तु सर्वत्र सलिलं मतम् कल्कक्वाथाव-निर्देशे गणात्तस्मात् विनिर्देशेत्”