कषायः (kaSAyaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकषायः
- कषति कण्ठम्-कष्-आय
कसैला स्वाद या रस
कषायः
- कषति कण्ठम्-कष्-आय
लाल रंग
कषायः
- कषति कण्ठम्-कष्-आय
"एक भाग औषधि, चार आठ या १६ भाग पानी में मिलाकर बनाया हुआ काढ़ा"
कषायः
- कषति कण्ठम्-कष्-आय
"लेप करना, पोतना, चुपड़ना"
कषायः
- कषति कण्ठम्-कष्-आय
उबटन लगाकर शरीर को सुवासित करना
कषायः
- कषति कण्ठम्-कष्-आय
"गोंद, राल, वृक्ष का निःश्रवण"
कषायः
- कषति कण्ठम्-कष्-आय
"मैल, अस्वच्छता"
कषायः
- कषति कण्ठम्-कष्-आय
"मन्दता, जडिया"
कषायः
- कषति कण्ठम्-कष्-आय
सांसारिक विषयों में आसक्ति
कषायः
- कषति कण्ठम्-कष्-आय
कसैला स्वाद या रस
कषायः
- कषति कण्ठम्-कष्-आय
"आवेश, संवेग"
कषायः
- कषति कण्ठम्-कष्-आय
कलियुग
Wordnet
Sanskrit कषायः
भेषजानि जले क्वथित्वा प्राप्तः रसः।
"कफस्य नाशार्थे कषायो उपयुक्तः।"
कषायः, कषायपेयम्, चहा, चायः
चायः चहा एवंविधैः शब्दैः भारतीयभाषासु प्रसिद्धस्य क्षुपस्य शुष्कपर्णानां चूर्णम् उष्णजले अभिपच्य तस्मिन् द्रवे शर्करादुग्धादीन् संमिश्र्य निर्मितम् उष्णपेयम्।
"मधुमेहस्य रोगी शर्करां विना कषायं पिबति।"
नागकेसरः, नागकेशरः, नागकेशसर, नागकिञ्जल्कम्, कषायः
वृक्षविशेषः यस्य शुष्काणि फलानि भेषजरञ्जकव्यञ्जनादिरूपेण उपयुज्यन्ते।
"ग्रीष्मे नागकेसरे श्वेतपुष्पाणि विकसन्ति।"
कलियुगम्, कलिः, कलेःयुगम्, कषायः
हिन्दूनां मते कालस्य चतुर्विभागेषु अन्तिमः कलियुगसंज्ञकः स च द्वापागयुगाद् अनन्तरं ४३२००० वर्षपर्यन्तः।
"कलियुगस्य लक्षणम् धर्मः सङ्कुचितस्तपो विरहितं सत्यं च दूरं गतम् लोका धर्महता द्विजाश्च लुभिता नारीवशा मानवाः।"
चम्पकः, चाम्पेयः, हेमपुष्पकः, स्वर्णपुष्पः, शीतलछदः, सुभगः, भृङ्गमोही, शीतलः, भ्रमरातिथिः, सुरभिः, दीपपुष्पः, स्थिरगन्धः, अतिगन्धकः, स्थिरपुष्पः, हेमपुष्पः, पीतपुष्पः, हेमाह्वः, सुकुमारः, वनदीपः, कषायः
वृक्षविशेषः सः वृक्षः यस्य पुष्पाणि पीतवर्णीयानि सुगन्धितानि च सन्ति।
"तस्य प्राङ्गणे चम्पकः कुन्दम् इत्यादीनि सन्ति।"
कितवः, उन्मत्तः, धूर्तः, कनकाह्वयः, मातुलः, महनः, धत्तूरः, शठः, मातुलकः, श्यामः, शिवशेखरः, खर्ज्जूघ्नः, खलः, कण्टफलः, मोहनः, मत्तः, शैवः, धुस्तुरः, धुत्तुरः, धुस्तूरः, पुरीमोहः, कषायः
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
"शिवाय कितवः रोचते।"
रक्तः, रक्ता, रक्तम्, रक्तवर्णीयः, रक्तवर्णीया, रक्तवर्णीयम्, लोहितः, लोहिता, लोहिताहिनी, लोहितम्, रक्तवर्णः, रक्तवर्णा, रक्तवर्णम्, लोहितवर्णम्, रोहितः, रोहिता, रोहिताहिनी, शोणितः, शोणिता, शोणितम्, शोणः, शोणा, शोणम्, शोणी, सिन्दूरवर्णः, कषायः, कषाया, कषायम्, मञ्जिष्ठः, मञ्जिष्ठी, मञ्जिष्ठम्, अरुणः, अरुणा, अरुणम्, पाटलः, पाटला, पाटलम्
वस्तूनां रक्तगुणत्वद्योतनार्थे उपयुज्यमानं विशेषणम्।
"रक्ते गुणे तत्वं रक्तम् इति उच्यते।"
सारः, निष्कर्षः, निर्यासः, कषायः, निर्गलितार्थः, मण्डः, रसः
विचारे स्थिरांशः।
"होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।"
रक्तः, रक्ता, रक्तम्, लोहितः, लोहिता, लोहिताहिनी, लोहितम्, रक्तवर्णः, रक्तवर्णा, रक्तवर्णम्, लोहितवर्णम्, रोहितः, रोहिता, रोहिताहिनी, शोणितः, शोणिता, शोणितम्, शोणः, शोणा, शोणम्, शोणी, सिन्दूरवर्णः, कषायः, कषाया, कषायम्, मञ्जिष्ठः, मञ्जिष्ठी, मञ्जिष्ठम्, अरुणः, अरुणा, अरुणम्, पाटलः, पाटला, पाटलम्
वर्णविशेषः, रक्तस्य वर्णः इव वर्णः।
"इमं प्रकोष्ठं रक्तेन वर्णेन वर्णय।"
काञ्चनारः, कोविदारः, चमरिकः, कुद्दालः, युगपत्रकम्, कणकारकः, कान्तपुष्पः, करकः, कान्तारः, यमलच्छदः, काञ्चनालः, ताम्रपुष्पः, कुदारः, रक्तकाञ्चनः, विदालः, कुण्डली, रक्तपुष्पः, चम्पः, युगपत्रः, कनकान्तकः, कनकारकः, कर्बुदारः, गण्डारिः, गिरिजः, चमरिकः, ताम्रपुष्पकः, महापुष्पः, युग्मपर्णः, युग्मपत्रः, वरलब्धः, विदलः, शोणपुष्पकः, सत्काञ्चनारः, सिंहास्यः, हयवाहनसङ्करः, हयवाहनशङ्करः, सुवर्णारः, स्वल्पकेसरी, आस्फोतः, कषायः
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
"उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।"
कषायः
नारायणस्य पुत्रः ।
"कषायेन धनञ्जयविजयं रचितम्"
कषायः
एकः बुद्धः ।
"कषायः पञ्चमः बुद्धः अस्ति"
कषायः
एकः आचार्यः ।
"कषायस्य उल्लेखः शौनकादिगणे वर्तते"
कषायः
एकः क्षुपः ।
"कषायस्य वर्णनं कोशे वर्तते"
कषायः
एकः आचार्यः ।
"कषायस्य उल्लेखः शौनकादिगणे वर्तते"
शब्दकल्पद्रुमः
Sanskritकषायः, (कषति कण्ठम् । कष् + आयः ।)रसविशेषः । कषा इति भाषा । पृथिव्यनिलगुण-बाहुल्यात्तस्योत्पत्तिः । इति शिवदासः ॥
(यथा, मनुः ११ । १५३ ।“शुक्तानि च कषायांश्च पीत्वामेध्यान्यपि द्विजः” ॥
)तत्पर्य्यायः । तुवरः २ तद्युक्ते त्रि । इत्यमरः ।१ । ५ । ९ ॥
कुवरः ३ तूरवः ४ । इति तट्टीका ॥
अस्य गुणाः । व्रणादिरोपणत्वम् । ग्राहित्वम् ।शोषणत्वम् । वायुकोपकारित्वञ्च । अतियुक्तस्यतस्य गुणः । मलमूत्रग्रहाध्मानहृत्पीडाक्षेपणादि-रोगकारित्वम् । अन्यच्च ।“कषायः शोषणः स्तम्भी व्रणपाकार्त्तिनाशनः ।कफशोणितवातघ्नी रूक्षः शीतो गुरुस्तथा” ॥
इति राजवल्लभः ॥
अपि च ।“कषायनामा निरुणद्धि शोफंवर्णन्तनोर्दीपनपाचनश्च ।सत्त्वापहोऽसौ शिथिलत्वकारीनिषेवितः पाण्डु करोति मात्रम्” ॥
इति राजनिर्घण्टः ॥
* ॥
पाचनादिः । तस्य पूर्ण-वीर्य्यं याममेकं तिष्ठति । तत्पर्य्यायः । क्वाथः २निर्य्यूहः ३ । स तु पञ्चविधो यथा । स्वरसः १कल्कः २ क्वथितः ३ शीतः ४ फाण्टम् ५ । इतिवैद्यकपरिभाषा ॥
* ॥
(“जिह्वां कण्ठं ग्रसति नितरां ग्राहकश्चातिसारेश्लेष्मव्याधेरुपशमकरः श्वासकासापहर्त्ता ।हिक्कां शूलं हरति नितरां शोधनं स्याद्व्रणानांप्रोक्तश्चायं समधिकगुणो नाम श्रेष्ठः कषायः” ॥
इति हारीते प्रथम स्थाने ७ अध्याये ॥
“कषायो जडयेज्जिह्वां कण्ठस्रोतो विबन्धकृत्” ॥
“कषायः पित्तकफहा गुरुरस्रविशोधनः ।पीडनो रोपणः शीतः क्लेदमेदो विशोषणः ।आमसंस्तम्भनो ग्राही रूक्षोऽतित्वक्प्रसादनः ॥
करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः ।तृट्कार्श्य पौरुषभ्रंशस्रोतोरोधमलग्रहान्” ॥
इति वाभटे सूत्रस्थाने १० अध्याये ॥
“कषायो रसः संशमनः संग्राही सन्धारणःपीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्त-प्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोगुरुश्च ।स एवं गुणोऽप्येक एवात्यर्थमुपयुज्यमानः आस्यंशोषयति, हृदयं पीडयति, उदरमाध्मापयति, वाचां निगृह्णाति, स्रोतांस्यवबध्नाति, श्यावत्व-मापादयति, पौंस्त्वमुपहन्ति, विष्टभ्य जरांगच्छति, वातमूत्रपुरीषाण्यवगृह्णाति, कर्षयति, ग्लापयति, तर्षयति, स्तम्भयति, खरविषद-रूक्षत्वात् पक्षवध-ग्रहापतानकार्द्दितप्रभृतींश्चवातविकारानुपजनयतीति” ।“वैषद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः ।बध्नातीवचयः कण्ठं कषायः स विकास्यपि” ॥
“पवन पृथिव्यतिरेकात् कषायः” ॥
इति चरके सूत्रस्थाने २६ अध्याये ॥
)निर्यासः । (यथा, महाभारते अनुशासनपर्व्वणि ।“घृष्टो वटकषायेण अनुलिप्तः प्रियङ्गुणा ।क्षीरेण षष्टिकान् भुक्त्वा सर्व्वपापैः प्रमुच्यते” ॥
)विलेपनम् । (यथा कुमारे ७ । १७ ।“कर्णार्पितो लोध्रकषायरूक्षेगोरोचनाक्षेपनितान्तगौरे” ॥
“लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन” ॥
इति मल्लिनाथः ॥
) अङ्गरागः । इति मेदिनी ॥
कषायः, (कष् + आयः ।) श्योणाकवृक्षः । इतिधरणी ॥
रागः । इत्यमरटीकायां स्वामी ॥
(यथा छान्दग्योपनिषदि ।“आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवास्मृतिः । स्मृतिलम्भे सर्व्वग्रन्थीनां विप्रमोक्ष-स्तस्मै मृदितकषायाय तमसः पारं दर्शयति” ।“तस्मै मृदितकषायाय वार्क्षारादिरिव कषायोरागद्वेषादिदोषः सत्त्वस्य रञ्जनरूपत्वात् ज्ञान-वैराग्याभ्यासरूपक्षारेण क्षालितो मृदितो विना-शितो यस्य नारदस्य तस्मै” । इति भाष्यम् ॥
)कलियुगम् । इत्यमरटीकासारसुन्दरी ॥
(निर्व्वि-कल्पसमाधेर्विघ्नभेदः । यथा, वेदान्तसारे समा-धिकल्पे ८१ ।“लयविक्षेपाभावेऽपि चित्तवृत्तेरागादिवासनयास्तब्धीभावात् अखण्डवस्त्वनवलम्बनम्” । तत्रानेकजन्माभ्यस्त वाह्याभ्यन्तररागाद्यनुभवजनितसंस्कारैःकलुषीकृतं चित्तं कथञ्चित् श्रवणादिसाधनेनान्त-र्मुखमपि चैतन्यग्रहणसामर्थ्याभावात् मध्य एवस्तब्धीभवति यथा राजदर्शनाय स्वगृहान्निर्गत्य, राजमन्दिरं प्रविष्टस्य कस्यचित् पुरुषस्य द्वार-पालनिरोधेन स्तब्धीभावंः तथा परित्यक्त वाह्य-विषयस्य अखण्डवस्तुग्रहणप्रवृत्तस्योद्बुद्धरागादि-संस्कारैः स्तब्धीभावादखण्डवस्त्वग्रहणं कषायः ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
