| YouTube Channel

कषणः (kaSaNaH)

 
शब्दकल्पद्रुमः
Sanskrit
कषणः, त्रि, (कष्यते विस्वाद्यते कष् + कर्मणिल्युट् ।) अपक्वः इति शब्दचन्द्रिका
(पुं, कषत्यत्र अधिकरणे ल्युट् निकषोपलम् ।यथा, आर्य्यामप्तशती ४१८ ।“भूषणतां भजतः सखि ! कषणविशुद्वस्य जात-रूपस्य”
भावे ल्युट्
क्ली,
कण्डूयनम् ।यथा किराते ४७ ।“कषणकम्पनिरस्तमहाहिभिःक्षणविमत्तमतङ्गजवर्जितैः”
“इहाद्रौ कषणेन कण्डूयणेन यः कम्पस्तेन निरस्तामहाहयो येभ्यस्तैः”
इति तट्टीकायां मल्लिनाथः
)