| YouTube Channel

कव्यं (kavyaM)

 
Apte 1890
English
कव्यं (opp. हव्य) An oblation of food to deceased ancestors
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः Ms. 3. 147, 97, 128.
व्यः A class of manes.
Comp.
वालः {1} fire. {2} a class of manes.
वाह् m.,
वाहः,
वाहनः fire.
शब्दकल्पद्रुमः
Sanskrit
कव्यं,
क्ली,
(कूयते पितृभ्यः पित्रुद्देशेन दीयते यद-न्नादिकम् कु + “अचो यत्” ९७ ।इति यत् ।) पित्रन्नम् पितृसम्प्रदानकान्नम् ।इत्यमरः २४
(यथा, मनुः ९५
“यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।कव्यानि चैव पितरः किम्भूतमधिकं ततः”
कव्यानि तु वेदतत्त्वविदे ब्राह्मणाय दातव्यानिअन्यथा तद्दानं निष्फलं स्यात्यदुक्तं मनौ ३अध्याये ।“श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्
एकैकमपि विद्वांसं दैवे पित्र्ये भोजयेत् ।पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः
सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।एकस्तान् मन्त्रवित् प्रीतः सर्व्वानर्हति धर्म्मतः
ज्ञानोत्कृष्टाय देयानि कव्यानि हवींषि ।न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः
यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् ।तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्ययोगुडान्
ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथापरे ।तपःस्याध्यायनिष्ठाश्च कर्म्मनिष्ठास्तथापरे
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।हव्यानि तु यथान्यायं सर्व्वेष्वेव चतुर्ष्वपि
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः
मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम् ।दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ भोजयेत्
येस्तेनपतितक्लीवा ये नास्तिकवृत्तयः ।तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत्
चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा ।विपणेन जीवन्तो वर्ज्ज्याःस्युर्हव्यकव्ययोः”
इत्यादि विस्तृतिस्तु तत्रैव द्रष्टव्या
)