| YouTube Channel

कलिङ्गः (kaliGgaH)

 
Wordnet
Sanskrit
Synonyms:
कलिङ्गः
noun
दैत्यविशेषः।
"कलिङ्गस्य वर्णनं पुराणेषु अस्ति।"
Synonyms:
शिरीषः, भण्डिलः, भण्डिरः, भण्डीलः, भण्डीरः, मृदुपुष्पः, शुकतरुः, विशनाशनः, शीतपुष्पः, भण्डिकः, स्वर्णपुष्पकः, शुकेष्टः, वर्हपुष्पः, विषहन्ता, सुपुष्पकः, उद्दानकः, शुक्रतरुः, लोमशपुष्पकः, कपीतकः, कलिङ्गः, श्यामलः, शङ्खिनिफलः, मधुपुष्पः, वृत्तपुष्पः, शिखिनीफलः, भण्डिः, प्लवगः, शुकपुष्पः
noun
तीक्ष्णसारासदृशः दीर्घः वृक्षः।
"शिरीषस्य काष्ठं दृढम् अस्ति।"
Synonyms:
कलिङ्गः
noun
प्राचीनकालीनः गोदावरीवैतरण्योः मध्ये वर्तमानः देशः।
"कलिङ्गे जातेन युद्धेन अशोकस्य मतपरिवर्तनम् अभवत् अनन्तरं तेन बौद्धधर्मः स्वीकृतः।"
Synonyms:
कलिङ्गः
noun
एकः जनसमुदायः
"कलिङ्गानाम् उल्लेखः महाभारते हरिवंशे अस्ति"
Synonyms:
कलिङ्गः
noun
एकः देशः
"कलिङ्गस्य उल्लेखः महाभारते हरिवंशे अस्ति"
Synonyms:
कलिङ्गः
noun
लेखकनामविशेषः
"कलिङ्गः इति नामकानां नैकेषां लेखकानाम् उल्लेखः कोषे अस्ति"
Synonyms:
कलिङ्गः, कलिन्दः
noun
एकः अनुचरः
"कलिङ्गः स्कन्दस्य अनुचरः अस्ति"
Synonyms:
कलिङ्गः, कलिन्दः
noun
एकः राजा
"कलिङ्गः दीर्घतमसः तथा सुदेष्णायाः पुत्रः अस्ति"
Synonyms:
कलिङ्गः
noun
एकः देशः
"आ कटकात् मद्रदेश यावत् भागः कलिङ्गः इति ख्यातः"
Synonyms:
कलिङ्गः
noun
एकः जनसमुदायः
"कलिङ्गानां वर्णनं पुराणे वर्तते"
Synonyms:
कलिङ्गः
noun
नैके लेखकाः
"कलिङ्गः इति नैकानां लेखकानां नाम अस्ति"
शब्दकल्पद्रुमः
Sanskrit
कलिङ्गः,
पुं,
(कलिं पूतिगन्धादिकं गच्छति प्राप्नोतिकलि + गम् + निपातनात् साधुः ।) पूतिक-रजवृक्षः (के मस्तके लिङ्गं पीतादिचिह्नमस्य ।)धूम्याटपक्षी देशविशेषः इति हेमचन्द्रः
(स्वनामख्यातो नृपतिविशेषः अस्य नामानुसारे-णैव कलिङ्ग इति देशाख्या जाता यदुक्तं महाभारते १०४ ४९, ५० ।“अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः ।तेषां देशाः समाख्याताः स्वनामप्रथिता भुवि
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य स्मृतः ।कलिङ्गविषयश्चैव कलिङ्गस्य स्मृतः”
)मेदिनीमते जलपदार्थे पुं भूम्नि (यदुक्तं तत्रैवगत्रिके ३३ ।“कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति”
अस्य प्रमाणं यथा, गोःरामायणे ४० २१ ।“ततः शकपुलिन्दांश्च कलिङ्गांश्चैव मार्गतः”
तद्देशवासिमानवादयः यथा, महाभारते ।११४ ।“ततः समुद्रतीरेण जगाम वसुधाधिपः ।भ्रातृभिः सहितो वीरः कलिङ्गान् प्रति भारत”
)कुटजवृक्षः (अस्यपर्य्यायो यथा भावप्रकाशेपूर्व्वखण्डे भागे ।“उक्तं कुटजवीजन्तु यवमिन्द्रयवन्तथा ।कलिङ्गञ्चापिकालिङ्गं तथा भद्रयवा अपि”
इन्द्रयवशब्देऽस्य गुणावली ज्ञेया
व्यवहारो यत्र तद्यथा ।“विल्वं छागपयः सिद्धं सितामोचरसान्वितम् ।कलिङ्गचूर्णसंयुक्तं रक्तातीसारनाशनम्”
इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे
)शिरीषवृक्षः प्लक्षवृक्षः इति राजनिर्घण्टः