| YouTube Channel

कर्म्मठः (karmmaThaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्म्मठः, त्रि, (कर्म्मणि घटते इति “कर्म्मणि घटो-ऽठच्” ३५ इति अठच् ।) कर्म्मकुशलः ।यथा भट्टिः ११ ।“ज्ञाताशयस्तस्य ततो व्यतानीत्स कर्म्मठः कर्म्मसुतानुबन्धम्”
प्रयत्नेन प्रारब्धं कर्म्म समापयति यः तत्पर्य्यायःकर्म्मशूरः इत्यमरः १८