| YouTube Channel

कर्ब्बुरः (karbburaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्ब्बुरः,
पुं,
(कर्ब्बति हिनस्ति जीवम् कर्ब्ब हिं-सायां + “मद्गुरादयश्च” उणां ४२ ।इति उरच् ।) राक्षसः (“कर्ब्बुरः श्वेतरक्षसोः”उणाम् ४२ कर्ब्बति नानावर्णतां गच्छति ।कर्ब्ब गतौ + उरच् उणां ४२ ।) नानावर्णः ।तत्पर्य्यायः चित्रम् किर्म्मीरः कल्माषः ४शबलः एतः
(यथा कुमारे २७ ।“इति चैनमुवाच दुःखितासुहृदः पश्य वसन्त ! किं स्थितम् ।तदिदं कणशो विकीर्य्यतेपवनैर्भस्म कपोतकर्ब्बुरम्”
)तद्वति त्रि इत्यमरः १७
शटी ।इत्यमरटीका
पापम् इति मेदिनी
नदी-निष्पावधान्यम् इति राजनिर्घण्टः