| YouTube Channel

कर्द्दमः (karddamaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्द्दमः,
पुं,
(कर्द कुत्सितरवे + “कलिकर्द्योरमः” ।उणां ८४ इति अमः ।) कर्द्दः कादा इतिभाषा तत्पर्य्यायः निषद्वरः जम्बालः पङ्कः ४शादः इत्यमरः १०
(तथाहियाज्ञबल्क्यः १९७ ।“रथ्याकर्दमतोयानि स्पृष्ठान्यन्त्यश्ववायसैः ।मारुतेनैव शुध्यन्ति पक्वेष्टकचितानिच”
)अस्य गुणाः शीतलत्वम् रूक्षत्वम् विष-रोगवेदनादाहशोथनाशित्वम् व्रणशोधनरो-पणत्वञ्च इति राजवल्लभः
(“कर्द्दमो दाहपित्तार्त्तिशोथघ्नः शीतलः सरः” ।इति भावप्रकाशस्य पूर्व्वखण्डे भागे
) स्वाय-म्भुवमन्वन्तरे प्रजापतिविशेषः तु ब्रह्मण-श्छायायां जातः तस्य भार्य्या स्वायम्भुवमनुकन्यादेवहूतिः पुत्त्रः कपिलदेवः कन्याः कलाद्या नव ।इति श्रीभागवतम् १२ २७
पापम् ।इत्युणादिकोषः ८४
छाया यथा, --“वेदेषु कर्दमः शब्दश्चायायां वर्त्तते स्फुटम् ।बभूव कर्दमाद्बालः कर्दमस्तेन कीर्त्तितः”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २२ अध्यायः
(नाग-विशेषः यथा महाभारते ३५ १६ ।“कर्द्दमश्च महानागो नागश्च बहुमूलकः”
)