| YouTube Channel

कर्णाट्ट (karNATTa)

 
वाचस्पत्यम्
Sanskrit
कर्णाट्ट
न०
कर्णः तिर्यग्रेखाकारवान् इवाट्टम् गृहभेदेतन्निरुक्तिलक्षणम् “बिभिदुस्ते मणिस्तम्भान् कर्णाट्टशिख-राणि च” भा० व० २६४ अ० ३० श्लोकव्याख्यायांनीलकण्ठेनोक्तं यथा “कर्णस्तिर्यग्यानं तेन प्रका-रेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं क-र्णाट्टमिति वदन्तितद्धि दिक्कोणस्य चतुरस्रस्योपरि विदिक्कोणचतुरस्रं तदुपरिदिक्कोणं तदुपरि पुनर्विदिक्वोणमित्येवं क्र-मेणोत्तरोत्तरमल्पप्रमाणैश्चतुरस्रैः समाप्यम् इति प्रसि-द्धम्” तत्र कर्णाटेति पाठः प्रामादिकः नीलकण्ठेन क-र्णाट्टपदस्यैव व्याख्यानात्