| YouTube Channel

कर्णवेधः (karNavedhaH)

 
Apte Hindi
Hindi
कर्णवेधः
पुं*
कर्णः - वेधः -
कानों का बींधना
शब्दकल्पद्रुमः
Sanskrit
कर्णवेधः,
पुं,
(कर्णयोः कर्णस्य वा वेधः वेधनम् ।)कर्णयोश्छिद्रकरणम् काण्वधान इति भाषा ।तस्य विधिर्यथा मदनरत्ने वशिष्ठश्रीधरौ
“मामे षष्ठे सप्तमे वाष्टमे वायेध्यौ कर्णौ द्वादशे षोडशेऽह्नि ।मध्येनाह्नः पूर्व्वभागे रात्रौनक्षत्रे द्वे द्वे तिथी वर्ज्जयित्वा”
अत्र जन्ममासो वर्ज्ज्यः ज्योतिर्निबन्धे गर्गः ।“मासे षष्ठे सप्तमे वाप्यष्टमे मासि वत्सरे ।कर्णवेधं प्रशंसन्ति पुष्ट्यायुःश्रीविवृद्धये”
मदनरत्ने ।“प्रथमे सप्तमे मासि अष्टमे दशमेऽथवा ।द्वादशे तथा कुर्य्यात् कर्णवेधं शुभावहम्”
हेमाद्रौ व्यासः ।“कार्त्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा ।कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने”
श्रीधरः ।“हरिहरकरचित्रासौम्यपौष्णोत्तरार्य्या-दितिवसुषु घटाली सिंहवर्ज्ज्येषु लग्ने ।शशिगुरुबुधकाव्यानां दिने पर्ब्बरिक्ता-रहिततिथिषु शुद्धे नैधने कर्णवेधः”
मदनरत्ने वृहस्पतिः ।“द्वितीया दशमी षष्ठी सप्तमी त्रयोदशी ।द्वादशी पञ्चमी शस्ता तृतीया कर्णवेधने
सौवर्णी राजपुत्त्रस्य राजती विप्रवैश्ययोः ।शूद्रस्य चायसी सूची मध्यमाष्टाङ्गुलात्मिका”
हेमाद्रौ देवलः ।“कर्णरन्ध्रं रवेश्छाया विशेदग्रजन्मनः ।तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः”
शङ्खः ।“अङ्गुष्ठमात्रशुषिरौ कर्णौ भवतो यदि ।तस्मै श्राद्धं दातव्यं दत्तञ्चेदासुरं भवेत्”
इति निर्णयसिन्धुः कर्णषट्कदोषनिवारणार्थंकर्णस्य वेधनम् सोदरभ्रातॄणां संस्काराणाञ्चपौर्ब्बापर्य्यक्रमः कर्णवेधस्यासंस्काररूपत्वात् नतथा नियमः यथा, --“यदापत्यद्वयं तिष्ठेत् सम्भवोऽप्यपरस्य ।कर्णषट्कं विजानीयाद्गर्हितं तत्त्रयस्य
इत्याशङ्क्य तयोर्म्मध्ये शुद्धिर्यस्याथ वत्सरे ।कर्णवेधो हितस्तस्य तस्य ज्येष्ठविचारणा
षट्कर्णोत्पत्तिमाशङ्क्य भानोः शुद्ध्यासमेऽपि ।कर्णौ वेध्यौ दोषः स्यादन्यथा मरणं भवेत्”
इति मलमासतत्त्वे माण्डव्यवचनम्
अस्य काल-नियमो यथा, -- राजमार्त्तण्डे ।“न जन्ममासे चैत्रपौषेन वर्षयुग्मे हरौ प्रसुप्ते ।रवौ दुष्ठे कृष्णपक्षेन जन्मभे कर्णविधिः प्रशस्तः”
तथा दीपिकायाम् ।“नो जन्मेन्दुभमाससूर्य्यरविजक्ष्माजाहसुप्ताच्युतेशम्तेऽर्केलघुविष्णुयुग्ममृदुभस्वात्युत्तरादित्यभैः ।सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापौस्त्रिलाभारिगैरोजोऽब्दे श्रुतिवेध इज्यसितभे लग्ने तु काले शुभे
अत्रापि तिथ्यङ्गादिविद्धमृक्षं वर्जयेत्
यथाह गर्गः ।“कर्णवेधव्रते कुर्य्यादुदङ्मार्गस्थिते रवौ ।दक्षिणाशास्थिते भानौ नैव कुर्य्यात् कथञ्चन”
इनि ज्योतिषतत्त्वम्