| YouTube Channel

करमाला (karamAlA)

 
शब्दसागरः
English
करमाला
f.
(-ला) The hand used as a rosary, the joints of the fingers
corresponding to the beads.
E.
कर, and माला a rosary.
Yates
English
कर-माला (ला) 1.
f.
The hand used as
a rosary by counting the joints
or a rosary in the hand.
Wilson
English
करमाला
f.
(-ला) The hand used as a rosary, the joints of the fingers
corresponding to the beads.
E.
कर, and माला a rosary.
Monier Williams Cologne
English
कर—माला
f.
the hand used as a rosary (the joints of the fingers corresponding to the beads),
Tantras.
&c.
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
48,
पादेऽक्षराणि-
12
मात्राः - 18
सङ्ख्याजातिः - जगती
मात्रा-विन्यासः
दा दा दा दा दा दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Shabdartha Kaustubha
Kannada
करमाला
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜಪಮಾಡುವಾಗ ಎಣಿಕೆಗಾಗಿ ಉಪಯೋಗಿಸುವ ಕೈಬೆರಳ ಗಿಣ್ಣುಗಳ ಮಾಲೆ
व्युत्पत्तिः - > करः कराङ्गुलिपर्व मालेव
विस्तारः - > "आरभ्यानामिकामध्यं दक्षिणावर्तयोगतः तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता ॥"
Wordnet
Sanskrit
Synonyms:
जपमाला, करमाला, अक्षमाला, अक्षसूत्रम्, जपसूत्रम्, स्मरणी
noun
जपार्थे उपयुज्यमाना माला।
"राधेश्यामः सर्वत्र जपमालया सह गच्छति।"
शब्दकल्पद्रुमः
Sanskrit
करमाला,
स्त्री,
(कराङ्गुलीभिर्मालयेव जपनात् कर-रूपा माला कराङ्गुल्य मालेव वा ।) करपर्ब्ब-रूपमाला यथा, “अनामिकात्रयं पर्ब्ब कनिष्ठात्रितयं तथा ।तर्ज्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता”
इति मुण्डमालातन्त्रे सामान्यविषयम्
*
“तर्ज्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् ।तिस्रोऽङ्गुल्यस्त्रिपर्ब्बाणो मध्यमा चैकपर्ब्बिका ।पर्ब्बद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत्”
इति शिवरहस्यीयं शक्तिभिन्नविषयम्
*
“अनामामूलमारभ्य कनिष्ठादिक्रमेण तु ।तर्ज्जनीमध्यपर्य्यन्तमष्टपर्ब्बसु संजपेत्”
इति सनत्कुमारसंहितावचनं शक्तीतरेषामष्ट-वारविषयम्
*
“अनामिकात्रयं पर्ब्ब कनिष्ठा त्रिपर्ब्बिका ।मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्ब्बिका
करमाला समाख्याता आरभ्यानामिकान्तरात् ।तर्ज्जन्यग्रे तथा मध्ये यो जपेत् तु पापकृत्”
इति शक्तिविषये मुण्डमालातन्त्रम्
*
तथा ।“अनामामूलमारभ्य प्रादक्षिण्यक्रमेण तु ।मध्यमामूलपर्य्यन्तं जपेदष्टसु पर्ब्बसु”
इदमपि शक्तिविषये अष्टवारपरम् इति श्या-मारहस्यम्
वाचस्पत्यम्
Sanskrit
करमाला स्त्रो करः कराङ्गुलिपर्व मालेव जपसंख्याहेतु-त्वात् “आरभ्यानामिकामध्यं दक्षिणावर्त्तयोगतः ।तर्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता” इत्युक्तलक्षणायांजपसंख्यार्थं कराङ्गुलिपर्वरूपायां मालायाम् अत्रविशेषस्तन्त्रसा० उक्तः यथा सनत्कुमारसंहितायाम्“तर्ज्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् ति-स्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका पर्वद्वयंसध्यमाया मेरुत्वेनोपकल्पयेत्” क्रममाह तत्रैव“अनामामध्यमारभ्य कनिष्ठादित एव तर्जनीमूल-पर्य्यन्तं दशपर्वसु सं जपेत्” तत्रैव “अनामामूलमारभ्यकनिष्ठादित एव तर्जनीमध्यपर्य्यन्तमष्टपर्वसु संज-पेत्” एतद्वचनन्तु अष्टोत्तरशतविषयम् विष्णुविषयञ्च ।शक्तिविषये पुनः “अनामिकात्रयं पर्व कनिष्ठा त्रि-पर्विका मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्वणि ।तर्जन्यग्रे तथा मध्ये यो जपेत् तु पापहृत्” अन्यच्च“अवामामूलमारभ्य प्रादक्षिण्यक्रमेण मध्यमा-मूलपर्य्यन्तं संजपेदष्टपर्वसु” इदमपि अष्टोत्तरशत-विषयम् हंसपारमेश्वरे “र्पवत्रयमनामायाः परि-वर्त्तोन वै क्रमात् पर्वत्रयं मध्यमायास्तर्जन्येकंसमाहरेत पर्वद्वयन्तु तर्ज्जन्याः मेरुंतद्विद्धि पार्वति! ।शक्तिमाला समाख्याता सर्वतन्त्रप्रदीपिता श्रीविद्या-यामयं विशेषः “अनामामूलमारभ्य प्रादक्षिण्यक्रमेणच मध्यमामूलपर्य्यन्तं दशपर्वसु संजपेत्” अन्यच्च“मध्यमाया अनामाया मूलाग्रञ्च द्वयं द्वयम् कनिष्ठा-याश्च तर्ज्जन्यास्त्रयं पर्व महेश्वरि! अनामामध्यम-योश्च मेरुःस्यात् द्वितयं शुभम् प्रादक्षिण्यक्रमाद्देवि ।जपेत् त्रिपुरसुन्दरीमिति” यामलात् “कनिष्ठामूलमारभ्यप्रादक्षिण्यक्रमेण तु तर्ज्जनीमूलपर्य्यन्तं जपदष्टसु प-र्वसु” इति श्रीक्रमवचनाच्च इदमपि तथैव मुण्ड-मालातन्त्रे “अनामिकाद्वयं पर्व कनिष्ठादिक्रमेणतु तर्जनीमूलपर्य्यत्तं करमाला प्रकीर्त्तिता अङ्ग-लीं वियुञ्जीत किञ्चिदाकुञ्चिते तले अङ्गुलीनां वि-योगाच्च छिद्राच्च स्रवते जपः” अन्यत्रापि “अङ्गुल्यग्रेच यज्जप्तं यज्जप्तं मेरुलङ्घने पर्वसन्धिषु यज्जप्तं तत्-सर्वं निष्फलं भवेत् गणनाविधिमुल्लङ्घ्य यो जपेत् त-ज्जपं यतः गृह्णन्ति राक्षसास्तेन गणयेत् सर्वथा बुधः ।जपसंख्या तु कर्त्तव्या नासंख्यातं जपेत् सुधीः असं-ख्याकारकस्यास्य सर्वं भवति निष्फलम् हृदये हस्तमा-रोप्य तिर्य्यक् कृत्वा कराङ्गुलीः आच्छाद्य वासमा हस्तौदक्षिणेन सदा जपेत्” गायत्रीजपे विशेषः विधानपा०गायत्रीहृदये “अनामिकामध्यरेखावध्यधः प्रक्रमेण ।तर्ज्जन्थादिगतान्ते अक्षमाला करे स्थिता” अना-मिकाया मध्यरेखामादिं कृत्वा तर्जन्या आदिरेखा अन्तेयस्याः सेयं करे स्थिता मालेत्यर्थः विघानपा० तत्रैवयमः “सहस्रपरमां देवीं शतमध्यां दशाबराम् गा-यत्रीं तु जपेन्नित्थं सर्वकलमषनाशिनीम् पर्वभिस्तु जपे-द्देवीमन्यत्रानियमः स्मृतः गायत्र्यावेदवीजत्वात्गदितं ब्रह्मणा स्वयम् अङ्गष्ठाग्रेण यज्जप्तं बज्जप्तंमेरुलङ्घतात् असंख्यातं तथा जप्तं तत्मर्वं निष्फलंभवेत्” मदनपारिजाते तु मध्यमाया द्वयं पर्वेतिपाठः ।आ० त० शङ्खः “तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमाचैकपर्विका अनामामध्यमारभ्य जप एवमुदाहृतः”काग्ये मालाऽभावे एवास्याग्राह्यता नित्ये तु सर्वथैव ग्रा-ह्यता यथाह योगिनीत० “नित्यं जपं करे कुर्य्यान्न-काम्यमवरोधनात् काम्यमपि करे कुर्य्यात् मालाऽभावेप्रियंवदे! तत्राङ्गुल्या जपं कुर्य्यात् साङ्गुष्ठाङ्गुलिभि-र्जपेत् अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं भवेत्”उत्पत्तितन्त्रे प० “नित्यं नैमित्तिकं काम्यं करे कुर्य्या-द्विचक्षणः करमाला महादेवि! सर्वदोषविवर्जिता ।छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन अक्षया तुकरे देवि! माला भवति तादृशी ग्रन्थिः सा कुण्डली-शक्तिः पञ्चाशद्वर्ण्णरूगिणी अतएव महेशानि! कर-माला महाफला” ततश्च दक्षिणेनेति प्रागुक्तेः दक्षह-स्तपर्वमिरेव दशसंख्यजपः कार्य्यः शतादिजपे तुदक्षिणहस्तेन कृतजपदशसंख्यायाः प्रत्येकं दशकसं-ख्यागणना वामहस्तस्थितनिर्द्दिष्टपर्व्वक्रमेण कार्य्या तथाच दशकस्य दशकेन गणने शतसंख्यापूर्त्तिः अधिकाष्टसंख्या तु दक्षहस्तेर्नव प्रागुक्तरीत्य कार्य्योति तत्त्वम्