| YouTube Channel

कबृ (kabR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कब्
मूलधातुः:
कबृ
धात्वर्थः:
वर्णे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कबते
अनुबन्धादिविशेषः:
ऋदित्
धातुप्रदीपः
Sanskrit
कबृँ कबृ वर्णे
- कबते चकबे अचकाबत् मद्गुरादयश्च (उण् 1/41) इति कुरच् रमागमश्च कर्बुरः इन् सर्वधातुभ्य (उण् 4/116) इति कबिः ।। 381 ।।
क्षीरतरङ्गिणी
Sanskrit
कबृँ कबृ वर्णे
- (अर्थविवरणम्) वर्णनं वर्णः, शुक्लादिश्च
कबते अचकाबत् ण्यत् (द्र0 3124) काब्यम् इः (द्र0 उ0 4139) कविः कबरः कृष्णः कबरी केशवेषः 372
धातुवृत्तिः
Sanskrit
कबृँ कबृ (अर्थः) वर्णे
( कबते चकबे कबिता चिकबिषते चाकब्यते चाकप्ति काबयति अचकाबत् कबरः ) बाहुलकादरः ( कबरी ) "जानपद'' इत्यादिना केशवेश ङीष् अन्यत्रकबरा कर्बुरः बाहुलकादुरः प्रत्ययो रेफोपजनश्च 377
कृदन्तरूपमाला
Sanskrit
1 {@“कबृ वर्णे”@} 2 वर्णनम् = वर्णः-शुक्लादिः, इति क्षीरस्वामी।
काबकः-बिका, काबकः-बिका, चिकबिषकः-षिका, चाकबकः-बिका
कबिता-त्री, काबयिता-त्री, चिकबिषिता-त्री, चाकबिता-त्री
-- काबयन्-न्ती, काबयिष्यन्-न्ती-ती
-- कबमानः, काबयमानः, चिकबिषमाणः, चाकब्यमानः
कबिष्यमाणः, काबयिष्यमाणः, चिकबिषिष्यमाणः, चाकबिष्यमाणः
कप्-कब्-कबौ-कबः
-- -- -- कबितम्-तः, काबितः-तम्, चिकबिषितः, चाकबितः-तवान्
कबः, काबः, चिकबिषुः, चिकाबयिषुः, चाकबः
कबितव्यम्, काबयितव्यम्, चिकबिषितव्यम्, चाकबितव्यम्
कबनीयम्, काबनीयम्, चिकबिषणीयम्, चाकबनीयम्
3 कब्यम्, काब्यम्, चिकबिष्यम्, चाकब्यम्
ईषत्कबः-दुष्कबः-सुकबः
-- -- कब्यमानः, काब्यमानः, चिकबिष्यमाणः, चाकब्यमानः
काबः, काबः, चिकबिषः, चाकबः
कबितुम्, काबयितुम्, चिकबिषितुम्, चाकबितुम्
कप्तिः, काबना, चिकबिषा, चिकाबयिषा, चाकबा
कबनम्, काबनम्, चिकबिषणम्, चाकबनम्
कबित्वा, काबयित्वा, चिकबिषित्वा, चाकबित्वा
प्रकब्य, प्रकाब्य, प्रचिकबिष्य, प्रचाकब्य
काबम् २, कबित्वा २, काबम् २, काबयित्वा २, चिकबिषम् २, चिकबिषित्वा २, चाकबम्
चाकबित्वा
4 कबर 5 ः- 6 री, कर्बुरः।
7
प्रासङ्गिक्यः
01
=>
(१६७)
02
=>
(१-भ्वादिः-३८०। अक। सेट्। आत्म।)
03
=>
[[१। ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
04
=>
[[आ। ‘सकम्पहेरम्बसमानलम्बनाः समाव्रजन् अम्बितघण्टिकास्तदा। प्रलम्बसास्नाः कबरत्विषो वृषाः अक्लीबिताः क्षीबतयाऽतिशीभराः।।’ धा। का। १-४९।]]
05
=>
[[२। कबरः कर्बुरः, इतीमौ औणादिकप्रत्ययान्तौ।]]
06
=>
[[३। ‘जानपद--’ (४-१-४२।) इत्यादिना केशपाशविषये ङीप्। कबरी केशवेशः। अन्यत्र कबरा।]]
07
=>
[पृष्ठम्०१६३+ २२]