कफ (kapha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishकफ - kapha - - phlegm
खट - khaTa - - phlegm
क्लेदन - kledana - - phlegm
खेट - kheTa - - phlegm
बलहन् - balahan - - phlegm
लम्बन - lambana - - phlegm
वेगनाशन - veganAzana - - phlegm
शिङ्घाणक - ziGghANaka - - phlegm
श्लेष्मन् - zleSman - - phlegm
स्नेहभू - snehabhU - - phlegm
स्येदु - syedu - - phlegm
सङ्घात - saGghAta - - phlegm
निद्रासञ्जनन - nidrAsaJjanana - - phlegm
श्लेष्मक - zleSmaka - - phlegm
घन - ghana - - phlegm
श्लेष्मण - zleSmaNa - - phlegmatic
कफल - kaphala - - phlegmatic
कफात्मक - kaphAtmaka - - phlegmatic
मन्द - manda - - phlegmatic
श्लैष्मिक - zlaiSmika - - phlegmatic
कफ kapha phlegm
कफ kapha watery froth or foam in general
कफ kapha phlegm, one of the three humours of the body
घन-मेघ-कफ ghana-megha-kapha hailstone
Wilson
EnglishApte
Englishकफः [kaphḥ], [केन जलेन फलति फल्-ड Tv.]
Phlegm, one of the three humours of the body (the other two being वात and पित्त)
कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः 16
प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते Udb.
A watery foam or froth in general. -अरिः dry ginger. -कूर्चिका saliva, spittle. -क्षयः pulmonary consumption. -घ्न, -नाशन, -हर removing phlegm, antiphlegmatic
of a plant (Mar. लघु शेरणी).-ज्वरः fever caused by excess of phlegm. -वर्धनः of a plant (Mar. पिंडी तगर). -विरोधिन् pepper.
Apte 1890
Englishकफः [केन जलेन फलति फल्-ड Tv.] 1 Phlegm, one of the three humours of the body (the other two being वात and पित्त)
कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः Dk. 160
प्राणप्रयाणसमये कफवातपित्तैः कंठावरोधनविधौ स्मरणं कुतस्ते Udb.
2 A watery foam or froth in general.
Comp.
अरिः dry ginger.
कूर्चिका saliva, spittle.
क्षयः pulmonary consumption.
घ्न,
नाशन,
हर a. removing phlegm, antiphlegmatic.
ज्वरः fever caused by excess of phlegm.
विरोधिन् m. pepper.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishकफ कफ, अस्, m. phlegm, one of the
three humors of the body (the other two are वायु
and पित्त), watery froth or foam in general.
—कफ-
कर, अस्, आ or ई, अम्, or कफ-द, अस्, आ, अम्,
producing phlegm
occasioning colds.
—कफ-
कूर्चिका, f. saliva, spittle.
—कफ-क्षय, अस्, m.
pulmonary consumption.
—कफ-घ्न, अस्, ई, अम्,
removing phlegm, antiphlegmatic, curing colds (epi-
thet of many plants)
(ई), f., N. of a plant.
—क-
फ-ज, अस्, आ, अम्, arising from or produced by
phlegm.
—कफ-ज्वर, अस्, m. fever arising from
excess of phlegm.
—कफ-नाशन, अस्, ई, अम्,
antiphlegmatic.
—कफ-प्राय, अस्, आ, अम्, phlegm-
atic.
—कफ-वर्धक, अस्, ई, अम्, exciting or
increasing phlegm.
—कफ-वर्धन, अस्, ई, अम्,
exciting or increasing phlegm
(अस्), m., N. of a
plant, a species of Tabernæmontana.
—कफ-वि-
रोधिन्, ई, इनी, इ, obstructing the phlegm
(इ), n.
pepper.
—कफ-सम्भव, अस्, आ, अम्, arising
from phlegm.
—कफ-हर, अस्, आ, अम्, or क-
फ-हृत्, त्, त्, त्, removing phlegm, antiphlegmatic.
—कफात्मक (°फ-आत्°), अस्, आ, अम्, phlegmatic.
—कफान्तक (°फ-अन्°), अस्, m. a kind of
plant, = वर्वूर.
—कफारि (°फ-अरि), इस्, m. dry
ginger.
Apte Hindi
Hindiकफः
- केन जलेन फलति-फल्-ड @ तारा*
"बलगम, कफ या श्लेष्मा"
कफः
- केन जलेन फलति-फल्-ड @ तारा*
"रसीला झाग, फेन"
Shabdartha Kaustubha
Kannadaकफ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶ್ಲೇಷ್ಮ /ದೇಹದೊಳಗಿನ ಮಂದವೂ ಜಿಗುಟೂ ಆದ ಲೋಳೆ /ದೇಹದೊಳಗಿನ ವಾತ ಪಿತ್ತ ಮತ್ತು ಕಫಗಳೆಂಬ ೩ ದೋಡಗಳಲ್ಲೊಂದು /ಶರೀರದೊಳಗಿನ ಸಪ್ತಧಾತುಗಳಲ್ಲೊಂದಾದ ರಸಧಾತುವಿನ ಮಲ
निष्पत्तिः - > फल (निष्पत्तौ) - "डः" (३-२-१०१)
व्युत्पत्तिः - > केन जलेन फलति
प्रयोगाः - > "कफः पित्तं मलं केषु स्वेदः स्यान्नखरोम च । नेत्रविट् त्वक्षु न स्नेहो धातूनां क्रमशो मलाः ।"
उल्लेखाः - > सुश्रुत० सूत्र० ४६-५२९
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritपित्तं मायुः कफः श्लेष्मा बलाशः स्नेहभूः खटः ।
पित्त (क्ली), मायु (पुं), कफ (पुं), श्लेष्मन् (पुं), बलाश (पुं), स्नेहभू (पुं), खट (पुं)
अभिधानरत्नमाला
Sanskritकफ
कफ, श्लेष्मन्
मायुः पित्तः कफः श्लेष्मा प्रतिश्यायश्च पीनसः ॥ ६०५ ॥
verse 2.1.1.605
page 0068
अमरकोशः
SanskritWord: कफः
Root: कफ
Gender: पुं
Number: all
Meaning(s):
⇒ phlegm
⇒ watery froth or foam in general
⇒ phlegm, one of the three humours of the body
Shloka(s):
2|6|62|2 ► मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥ (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|62|2 ⇢ कफः (कफ) (पुं) ⇒ phlegm, watery froth or foam in general, phlegm, one of the three humours of the body
➠ 2|6|62|2 ⇢ श्लेष्मा (श्लेष्मन्) (पुं)
Related word(s):
अवयव_अवयवीसंबन्धः ➡ देहः
जातिः ➡ अचलनिर्जीववस्तु
शब्दकल्पद्रुमः
Sanskritकफः, (केन जलेन फलति इति । फल निष्पत्तौ“अन्येष्वपि” ३ । २ । १०१ । इति डः । केशिरसिफलति वा प्राग्वड्डः ।) शरीरस्यधातुविशेषः ।तत्पर्य्यायः । श्लेष्मा २ संघातः ३ सौम्यधातुः ४घनः ५ बली ६ । अस्य गुणाः । गुरुत्वम् । सन्धि-विश्लेषकारित्वम् । मृदुत्वम् । प्रमर्द्दनत्वम् । स्निग्ध-त्वम् । कटुत्वम् । शीतत्वम् । जडताकारित्वम् ।शुक्लत्वम् । शीते वसन्ते निशामुखे पूर्व्वाह्ने भुक्तेच प्रकोपणत्वम् । इति राजनिर्घण्टः ॥
* ॥
अस्यप्रकोपहेतुः । “गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य-द्रवदधिदिननिद्रापूपसर्पिःप्रपूरैः । तुहिनपतन-काले श्लेष्मणः सप्रकोपः प्रभवति दिवसादौ भुक्त-मात्रे वसन्ते” ॥
* ॥
तस्य कर्म्माणि । “स्तमित्यं म-धुरास्यता शिशिरता शौक्ल्यं प्रसेको मलप्राचुर्य्यंस्थिरता रसश्च लवणः कण्डूरतिस्वप्नता । आलस्यंचिरकारिता कठिनता शोथारुचिस्निग्धता तन्द्रा-तृप्त्युपदेहकासगुरुता एताः कफोत्था रुजः” ॥
* ॥
अस्य प्रशमताकारणम् ।“गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः ।श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः” ॥
“रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन-स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम् ।धूमात्युष्णशिरोविरेकवमनस्वेदोपनाहादिकंपानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्” ॥
स च पञ्चविधो यथा, --“अवलम्बक इत्येकः क्लेदकः श्लेषकोऽपरः ।बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः” ॥
* ॥
एतेषां लक्षणानि यथा, --“कफधाम्नान्तु शेषाणां यत्करोत्यवलम्बनम् ।ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः ॥
१ ॥
आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकः स्मृतः ॥
२ ॥
श्लेषकश्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः ॥
३ ॥
रसनावस्थितस्त्वेष बोधको रसबोधनात् ॥
४ ॥
शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्पणात् ॥
५ ॥
॥
* ॥
अस्य स्थानानि ।“उरःकण्ठशिरः क्लोमपर्ब्बाण्यामाशयो रसः ।मेदो घ्राणञ्च जिह्वा च कफस्थानमुरः परम्” ॥
* ॥
(सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत्श्लेष्मा पञ्चधा प्रविभक्त उदककर्म्मणानुग्रहं करो-ति । इति तु प्रकारभेदेनास्य कार्य्यमुक्तम् ॥
अतः परमस्य क्षीणलक्षणमाह ।श्लेष्मक्षये कक्षतान्तर्दाह आमाशयेतराशय-शिरसां शून्यता सन्धिशैथिल्यं तृष्णा दौर्ब्बल्यंप्रजागरणञ्च । तत्र स्वयोनिवर्द्धनद्रव्याण्येव प्रती-कारः ॥
अतःपरमम्यातिवृद्धौ यल्लक्षणं तदाह ॥
श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्य्यं गौरवमवसाद-स्तन्द्रानिद्रासन्ध्यस्थिविश्लेषश्च ॥
)तत्प्रकृतिकस्य लक्षणम् ।“गम्भीरबुद्धि स्थूलाङ्गः स्निग्धकेशो महाबलः ।स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः” ॥
* ॥
(अपरञ्च यथाह हारीतः ।“सुस्निग्धवर्णः सितनेत्रदीप्तःश्यामः सुकेशो न च दीर्घरोमा ।गम्भीरशब्दः श्रुतशास्त्रनिद्रा-तन्द्राप्रियस्तिक्तकटूष्णभोजी ॥
सुमांसलः स्निग्धरसप्रियश्चसंगीतवाद्योऽतिसहिष्णुचित्तः ।व्यायामशीलो रतलालसोऽसौभवेत् कफात्मप्रकृतिर्मनुष्यः ॥
शुक्लाक्षः स्थिरकुटिलातिनीलकेशोलक्ष्मीवान् जलदमृदङ्गसिंहघोषः ।सुप्तः सन् सकमलहंसचक्रवाकान्सम्पश्येदपि च जलाशयान् मनोज्ञान् ॥
रक्तान्तनेत्रः सुविभक्तगात्रःस्निग्धच्छविः सत्त्वगुणोपपन्नः ।क्लेशक्षमोमानयिता गुरूणांज्ञेयो वलासप्रकृतिर्मनुष्यः ॥
दृढशास्त्रमतिः स्थिरमित्रधनःपरिगण्य चिरात् प्रददाति बहु ।परिनिश्चितवाक्यपदः सततंगुरुमानकरश्च भवेत् स सदा ॥
ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः ।तार्क्षहंससमानूकाः श्लेष्मप्रकृतयो नराः” ॥
इति सुश्रुतश्च ॥
श्लेष्मस्थानान्यत ऊर्द्ध्वं तक्ष्यामः । तत्रामाशय-पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्द्ध्वगतित्वा-त्तेजसश्चन्द्र इवादितस्य स चतुर्व्विधस्याहारस्या-धारः । स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नोभिन्नसंघातः सुखजरश्च भवति ।“माधुर्य्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च ।आमाशये सम्भवति श्लेष्मामधुरशीतलः” ॥
स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानांशरीरस्य चोदककर्म्मणानुग्रहं करोति । उरस्थः-स्त्रिकसन्धारणमात्मवीर्य्येणान्नरससहितेन हृद-यावलम्बनं करोति । जिह्वामूलकण्ठस्थो जिह्वे-न्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्त्तते । शिरस्थःस्नेहसन्तर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्य्येणानु-ग्रहं करोति । सन्धिस्थस्तु श्लेष्मा सर्व्वसन्धि-संशेषात् सर्व्वसन्ध्यनुग्रहं करोति ॥
भवति चात्र ।“श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च ।मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः” ॥
)तस्याविकृतस्य कर्म्म ।“स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृषता बलम् ।क्षमा धृतिरलोभश्च कफकर्म्माविकारजम् ॥
* ॥
इति सुखबोधः ॥
फेनः । यथा अब्धिकफः इत्यादि ॥
वाचस्पत्यम्
Sanskritकफ केन जलेन फलति फल--ड । शरीरस्थे धातु-भेदे श्लेष्मणि । “प्राणप्रयाणसमये कफवातपित्तैः कण्ठा-वरोघनबिधौ स्मरणं कुतस्ते” उद्भटः । कफस्य स्वरूप-स्थानकर्मादिकं मावप्र० उक्तं यथा ।“श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीतलस्तथा ।तमोगुणाऽधिकः स्वादुर्विदग्धो लवणं भवेत् । एकःश्लेष्मा नामस्थानकर्म्मभेदैः पञ्चविधः । अथ श्लष्मणां नामान्याह “कफस्यैतानि नामानि क्लेदनश्चाव-लम्बनः । रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतःअथ क्लेदनादीवां स्थानान्याह । आमाशयेऽथ हृदये कण्ठेशिरसि सन्धिषु । स्थानेघ्वेषु मनुष्यणां श्लेष्मा तिष्ठत्य-नुक्रमात् । दोषाणां सकलशरीरव्यापिनामपि पञ्चस्थानानीति बाहुल्याभिप्रायेणोक्तानि । तथाच वाग्-भटः “इति प्रायेण दोषाणां स्थानान्येकीकृतात्मनाम् ।व्यापिनामपि जानीयात् कर्माणि च पृथक् पृथक्” । इतिचरकश्च “ते व्यापिनोऽपि हृन्नाभ्योरधोप्नध्योर्द्धसंश्रयाः”इति अथ तत्तत्स्थानगतस्य श्लेष्मणः कर्म्माण्याह ।क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि । अनुगृह्णतिच श्लेष्मस्थानान्युदककर्म्मणा । अयमर्थः क्लेदनोऽन्नंक्लेदयति तेन संहतमन्नं भेदं प्राप्तोति । अपराण्यपिश्लेष्मस्थानानि हृदयादीनि मार्गेण गत्वा तत्र तत्र-हृदयालम्बनसं धारणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसं-श्लेषणाद्युदककर्मभिरनुगृह्लाति उपकरोति । तथात्त“रसयुक्तात्मवोर्येण हृदयस्थानलम्बनम् । त्रिकसन्धा-रणं चापि विदधात्यवलम्बनः । त्रिकं शिरोबाहुद्वय-सन्धिः । उभावपि यतः सौम्यौ तिष्ठतश्चान्तिके यतः । ततोरसान्विजानीतोरसनारसनौ समौ । रसना रसनेन्द्रियंरसनः कण्ठस्थकफः । स्नेहनः स्नेहदानेन समस्तेन्द्रिय-तर्पणः । श्लेष्मणः सर्वसन्धीनां संश्लेषं विदधात्यसौ” ।अन्यत्र वैद्यकेऽन्यथानामाद्युक्तम् । “अवलम्वकैत्येकःक्लेदकः श्लेषकोऽपरः । बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधःस्मृतः । तल्लक्षणानि यथा “कफधाम्नां तु शेषाणां यत्करोत्यवलम्बनम् । ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नो-त्युरः स्थितः” । आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकःस्मृतः । श्लेप्मकः श्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः ।रसनावस्थितः श्लेष्मा बोधको रसबोधनात् । शिरसि प्र-स्थितश्चासौ तर्पको नेत्रतर्यणात्” कफस्थानानि “उरः कण्ठःशिरः क्लोमपर्वाण्यामाशयो रसः । मेदोघ्राणञ्च जिह्वाच कफस्थानमुरःपरम्” । अविकृतकफस्य कर्माणि यथासुखबोधे “स्नेहोबन्धः स्थिरत्वञ्च गौरवं वृषता बलम् ।क्षमा धृतिरलोभश्च कफकर्माविकारजम्” कफसामान्यलक्षणंयथा “माधुर्य्यलेहगौरवशैत्यपैच्छिल्य गुणलक्षणः श्लेष्मा तस्यसमानयोनिर्मधुरो रसः सोऽस्य माधुर्य्यान्माधुर्य्यं वर्द्ध-यति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्यात् शैत्यं पैच्छिल्य-मिति तस्य पुनरन्ययोनिः कटुको रसः स श्लेष्मणः प्रत्य-नीकत्वात् कटुकत्वान्माधुर्य्यमभिभवति रौक्ष्यात् स्नेहंलाघवाद्गौरवमौष्ण्यात् शैत्यं वैशद्यात्पैच्छिल्यमिति”सुश्रु० । विशेषतस्तन्निदानादिकमुक्तं सुश्रुते“दिवास्वप्नव्यायाभालसमधुरास्ललवणशीतस्निग्धगुरु-पिच्छिलाभिष्यन्दिहायनकयवकनैषधैत्कटमाषमहामाषगोधू-मतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानूपोदकमांसवसाविसमृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य-शनप्रमृतिभिः श्लेष्मा प्रकोपभापद्यते । शीतैः शीत-काले च वसन्ते च विशेषतः । पूर्व्वाह्णे च प्रदोषे च भुक्त-मात्रे प्रकुप्यति” ।सुश्रुते कफविकारे हेतुरुक्तो यथा “विपमोवातजान् रोगान्तीक्ष्णपित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो विकारान्कफसम्भवान्” वयोभेदे कफाद्याधिक्यमाह तत्रैव “बालेविवर्द्धते श्लष्मा मध्यमे पित्तमेव तु । भूयिष्ठं बर्द्धते वायुर्वृद्धे तान्वीक्ष्य योजयेत् । देशभेदोऽपि कफहेतुस्तत्रोक्तः“कफवातरोगगूयिष्ठश्चानूपः” । कफश्चाप्य एब तद्धर्माणांक्लेदनादेराप्यधर्मत्वात् यथोक्तम् सुश्रुते ।“शीतस्तिमितस्निग्धमब्दगुरुसान्द्रमृदुपिच्छिलरसबहुलमी-षत्कषायास्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनप्रह्ला-दनक्लेदनबन्धनविष्यन्दनकरमिति” । अधिकमाकरे दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
