| YouTube Channel

कत्र (katra)

 
शब्दसागरः
English
कत्र r. 10th cl. (कत्रयति) To loosen, to slacken, to remove.
Yates
English
कत्र (त क) कत्रयति 10.
a. To loosen.
Wilson
English
कत्र r. 10th cl. (कत्रयति) To loosen, to slacken, to remove.
Shabdartha Kaustubha
Kannada
कत्र - शैथिल्ये (चुरा० उभ० अक० से०)
पदविभागः - > धातुः
कन्नडार्थः - > ಸಡಿಲವಾಗು
Kridanta Forms
Sanskrit
कत्र (क꣡त्र꣡ शैथिल्ये - चुरादिः - सेट्)
ल्युट् = कत्रणम्
अनीयर् = कत्रणीयः - कत्रणीया
ण्वुल् = कत्रकः - कत्रिका
तुमुँन् = कत्रयितुम् / कत्रितुम्
तव्य = कत्रयितव्यः / कत्रितव्यः - कत्रयितव्या / कत्रितव्या
तृच् = कत्रयिता / कत्रिता - कत्रयित्री / कत्रित्री
क्त्वा = कत्रयित्वा / कत्रित्वा
ल्यप् = प्रकत्र्य
क्तवतुँ = कत्रितवान् - कत्रितवती
क्त = कत्रितः - कत्रिता
शतृँ = कत्रयन् / कत्रन् - कत्रयन्ती / कत्रन्ती
शानच् = कत्रयमाणः / कत्रमाणः - कत्रयमाणा / कत्रमाणा
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कत्र्
मूलधातुः:
कत्र
धात्वर्थः:
शैथिल्ये
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
कत्रयति-ते
धातुप्रदीपः
Sanskrit
कत्र शैथिल्ये
- कत्रयति कात्रेयकः 357
शब्दकल्पद्रुमः
Sanskrit
कत्र, त् शैथिल्ये इति कविकल्पद्रुमः
(चुरां--परं--अकं--सेट् ।) कत्रयति कत्रापयति इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
कत्र शैथिल्ये अद० चुरा०
उभ०
अक० सेट् कत्रयति तेअचकत्रत् “तद्बलादन्त्यदोर्घश्च पुक् चेत्यङ्कापयत्यपि”इत्युक्तेःवा दीर्घः पुक् कत्रापयति ते इत्यपि कत्राम्बभूव आस कचार चक्रे एवं कत्थापयाम् बभूवेत्यादि
धातुवृत्तिः
Sanskrit
कत्र (अर्थः) शैथिल्ये
( कत्रयति कत्रिः ) इन्प्रत्ययः ( कात्रेयकम् ) "कत्र्यादिभ्योढकञ्'' इति शैषिको ढकञ् कुत्सितास्त्रयः कत्रय इति वा कत्रिशब्दव्युत्पत्तिः[ कद्भावेत्रावुनसंख्यानम् ] इति कुशब्दस्य कद्भावः अत्र दुर्गः कर्तेत्यपि पठतिकर्त्तयति 368
कृदन्तरूपमाला
Sanskrit
1 {@“कत्र शैथिल्ये”@} 2 3 अदन्तः।
अदन्तपाठसामर्थ्यात् णिचो वैकल्पिकत्वम्।
अन्यथा उपधाकार्या- भावात् अदन्तपाठो व्यर्थः स्यात्।
कत्रकः-त्रिका, चिकत्रयिषकः-षिका, कत्रकः-त्रिका, 4 चिकत्रिषकः-षिका
5 कत्रयिता-त्री, चिकत्रयिषिता-त्री, कत्रिता-त्री, चिकत्रिषिता-त्री
कत्रयन्-न्ती, चिकत्रयिषन्-न्ती, कत्रन्-न्ती, चिकत्रिषन्-न्ती
कत्रयमाणः, चिकत्रयिषमाणः
-- कत्रयिष्यन्-न्ती-ती, चिकत्रयिषिष्यन्-न्ती-ती, कत्रिष्यन्-न्ती-ती, चिकत्रिषिष्यन्-न्ती-ती
कत्रयिष्यमाणः, चिकत्रयिषिष्यमाणः
-- 6 कत्र्
-- -- कत्रितम्- 7 तः, चिकत्रयिषितः, कत्रितः, चिकत्रिषितः-तवान्
कत्रः, चिकत्रयिषुः, कत्रः, चिकत्रिषुः
-- अत्रयितव्यम्, चिकत्रयिषितव्यम्, कत्रितव्यम्, चिकत्रिषितव्यम्
कत्रणीयम्, चिकत्रयिषणीयम्, कत्रणीयम्, चिकत्रिषणीयम्
कत्र्यम्, चिकत्रयिष्यम्, कत्र्यम्, चिकत्रिष्यम्
ईषत्कत्रः-दुष्कत्रः-सुकत्रः
-- कत्र्यमाणः, चिकत्रयिष्यमाणः, कत्र्यमाणः, चिकत्रिष्यमाणः
कत्रः, चिकत्रयिषः, कत्रः, चिकत्रिषः
-- कत्रयितुम्, चिकत्रयिषितुम्, कत्रितुम्, चिकत्रिषितुम्
कत्रणा, चिकत्रयिषा, कत्रा, चिकत्रिषा
-- 8 कत्रणम्, चिकत्रयिषणम्, कत्रणम्, चिकत्रिषणम्
कत्रयित्वा, चिकत्रयिषित्वा, कत्रित्वा, चिकत्रिषित्वा
सङ्कत्र्य, सञ्चिकत्रयिष्य, संकत्र्य, सञ्चिकत्रिष्य
कत्रम् २, कत्रयित्वा २, चिकत्रयिषम् २, चिकत्रयिषित्वा २, कत्रम् २, कत्रित्वा २, चिकत्रिषम् २, चिकत्रिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१६१)
02
=>
(१०-चुरादिः-१९१५। सक। सेट्। उभ।)
03
=>
[[(अ) ‘कर्त’ इति क्षीरस्वाम्यादिसम्मतः पाठः।]]
04
=>
[[१। णिजभावपक्षे केवलधातोस्सनि रूपम्।]]
05
=>
[[२। णिजभावपक्षे अनेकाच्त्वाद्धातोः यङ् न।]]
06
=>
[[३। ‘संयोगान्तलोपे--यणः प्रतिषेधो वाच्यः
\n\n वा झलो लोपात्
\n\n बहिरङ्गलक्षणत्वाद्वा’ (वा। ८-२-२३) इति भाष्यपर्यालोचनया--‘कलत्रमाचक्षाणः’ इत्यत्रेव अकृत्रिम- यण्घटितानां प्रयोगाणां--शब्दरत्नकारैरनभिधानं प्रपञ्चितमिह स्मर्तव्यम्।]]
07
=>
[[आ। ‘दुष्पारदुश्चरिततीरणकृद्यथेशो नो चक्षमे पुटयितुं तमकत्रितोष्मा।।’ धा। का। ५-९३।]]
08
=>
[पृष्ठम्०१५६+ २७]