| YouTube Channel

कण्ठेकालः (kaNThekAlaH)

 
Apte
English
कण्ठेकालः [kaṇṭhēkālḥ],
N.
of Śiva (blue on the neck). कण्ठेकालेन कैलासः ...... Śiva. B.16.59.
Apte Hindi
Hindi
कण्ठेकालः
पुं*
- कण्ठे कालो विषपानजो नीलिमा यस्य
शिव
Wordnet
Sanskrit
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
कण्ठेकालः,
पुं,
(कण्ठे + कालः क्षीरोदमन्थनोद्भव-विषपाननिदर्शनरूपनीलवर्णो यस्य सप्तम्या अ-लुक् ।) महादेवः इति त्रिकाण्डशेषः
(कण्ठेजीवानां कण्ठदेशे कालः कालस्वरूपेण वर्त्तते ।यद्वा कण्ठदेशपर्य्यन्तं आक्रम्य तमःप्रधाना मायाअस्त्यस्य परमात्मनः मायाशवलितत्रिपादत्वात्तथात्वम् एष सर्व्वज्ञः सर्व्वान्तर्यामीश्वरः एत-स्मात् पादत्रयादन्यत् तुरीयं निष्कलं निरुपा-धिकं शिवपादमस्ति
यथा, माण्डुक्योपनिषदि ।“सर्व्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्माचतुष्पात्”
“जागरितस्थानो वहिःप्रज्ञः सप्ताङ्ग एकोनविं-शतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः”
“स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशति-मुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः”
“यत्र सुप्तो कञ्चन कामं कामयते कञ्चनस्वप्नं पश्यति तत्सुषुप्तम् सुषुप्तस्थान एकीभूतःप्रज्ञानघन एवानन्दमयो ह्यानन्दभूक् चेतोमुखःप्राज्ञस्तृतीयः पादः”
“एष सर्व्वेश्वरः एष सर्व्वज्ञ एषोऽन्तर्याम्येष-योनिः सर्व्वस्य प्रभावाप्ययो हि भूतानाम्”
“नान्तः प्रज्ञं वहिःप्रज्ञं नोभयतः प्रज्ञं नप्रज्ञानघनं प्रज्ञं नाप्राज्ञमदृष्टमव्यवहार्य्यम-ग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारंप्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थंमन्यन्ते सआत्मा विज्ञेयः”
)