| YouTube Channel

कण्टकी (kaNTakI)

 
Monier Williams Cologne
English
क॑ण्टकी
f.
a species of Solanum,
Suśr.
Wordnet
Sanskrit
Synonyms:
मत्स्यः, पृथुरोमा, मीनः, वैसारिणः, विसारः, शकली, शन्धली, झषः, आत्माशी, संवरः, मूकः, जलेशयः, कण्टकी, शक्ली, मच्छः, अनिमिषः, शुङ्गी, झसः
noun
जलजन्तुविशेषः, यः शकलकण्टकादियुक्तः।
"मत्स्याः अण्डजाः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
कण्टकी, [न्]
पुं,
(कण्टकोऽस्त्यस्य अस्त्यर्थे इनिः ।)मत्स्यः इति शब्दरत्नावली
खदिरवृक्षः इतिशब्दमाला
मदनवृक्षः इति रत्नमाला
गो-क्षुरवृक्षः वंशः वदरवृक्षः इति राजनिर्घण्टः
(यथा, महाभारते शाकुन्तले ७० ।“नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी”
)
कण्टकी,
स्त्री,
(कण्टक + अर्श आदित्वात् अच् गौ-रादित्वात् ङीष् ।) वार्त्ताकीविशेषः काँटा वेगुन्इति भाषा अस्या गुणा कटुत्वम् तिक्तत्वम् ।उष्णत्वम् रक्तपित्तप्रकोपणत्वम् कण्डूकच्छु-हरत्वम् दोषलत्वञ्च इति राजवल्लभः
वाचस्पत्यम्
Sanskrit
कण्टकी स्त्री कण्टक + अर्शआदित्वादच् गौरा० ङीष् वार्त्ता-कीभेदे (काँटावेकुण) राजवल्लभः! “कण्टकी कटुतिक्ताच रक्तपित्तप्रकोपिनी कण्डूकच्छूहरा नित्यं दोपनीपरिकीर्त्तिता” इत्युक्तगुणा कर्म्मणि “यातुधानेभ्यःकण्टकीकारीम्” यजु० ३०८ “कण्टकी कर्म्म तत्-रिणीम्” वेददीपः