| YouTube Channel

कठोरः (kaThoraH)

 
शब्दकल्पद्रुमः
Sanskrit
कठोरः, त्रि, (कठति पारुष्यमाचरति “कठिरकि-भ्यामोरन्” उणां ६५ इतिकठ + ओरन्
)कठिनः इत्यमरः ७६
(यथा, भागवते १९ १५ ।“प्रवृद्धरोषः कठोरसुष्टिनानदन् प्रहत्यान्तरधीयतासुरः”
दारुणः तथाहि भागवते १३ ।“कठोरदंशैर्मशकैरुपद्रुतः”
अतिविस्तृतः तत्रैव६ १२ “युगान्ताग्निकठोरजिह्वं”
पूर्णः तथाहि ।“स तप्तकार्त्तस्वरभास्वराम्बरःकठोरताराधिपलाच्छनच्छविः” ।इति माघः २०
“कठोरताराधिपस्यपूर्णेन्दोः” इति तट्टीकायां मल्लिनाथः
)