| YouTube Channel

कट्वरं (kaTvaraM)

 
शब्दकल्पद्रुमः
Sanskrit
कट्वरं,
क्ली,
(कटति वर्षति रसान्तरम् “छित्वर-च्छत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वर-कट्वरसंयद्वराः” उणां इति कट् + ष्वरच् ।निपातनात् साधु ।) दधिसरः इति रत्नमाला
व्यञ्जनम् इत्युणादिकोषः
तक्रम् यथा ।“दध्नः ससारकस्यात्र तक्रं कट्वरमुच्यते” ।इति चक्रपाणिकृतसंग्रहे
(“सुवर्च्चिका-नागर-कुष्ठ-मूर्व्वालाक्षा-निशा-लोहितयष्टिकाभिः ।तलं जवरे षडगुणतक्रसिद्ध-मभ्यञ्जनाच्छीतविदाहनुत् स्यात्”
इति षट्कठ्वरं तैलम्
)