| YouTube Channel

कटे (kaTe)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कट्
मूलधातुः:
कटे
धात्वर्थः:
वर्षावरणयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कटति
अनुबन्धादिविशेषः:
एदित्
धातुप्रदीपः
Sanskrit
कटेँ कटे वर्षा, आवरणयोः
- कटति अकटीत् कटिः कटः कटकं बलयोऽस्त्रियाम् कटनगरे जातः शैषिकश्छः-कटनगरीयः कटघोषीयः (51) ।। 292 ।।
क्षीरतरङ्गिणी
Sanskrit
कटेँ कटे वर्षा, आवरणयोः
- वष्टावावरणे चार्थे कटति कटः ह्म्यन्तक्षण (725) इति सिच्यतो वृद्धिर्नास्ति-अकटीत् कटः कटीरः कटुः कृकदिकडिकटिभ्योऽम्बच् (उ0 482) कटम्बः वरट् (तु0 उ0 31) कट्वरः, कट्वरी तक्रव्यञ्जनम् कटकम् काटो घञि (द्र0 3319) 288
धातुवृत्तिः
Sanskrit
कटेँ कटे (अर्थः) वर्षा, आवरणयोः
अयमनिदिदेव ( कटति चकाट कटित ) इत्यादि ( अकटीत् ) "अतो हलादेः'' इति वा वृद्धिः "ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्'' इति एदितां निषिध्यते ( कटः ) पचाद्यच् ( कटी ) कटात्तु श्रोणिवचनइति ङीष् निकटे वसति नैकटिकः, "निकटे वसति'' इति सप्तम्यन्ताद्वसत्यर्थे ठक् ( काटोङ्गनं, ) अधिकरणे संज्ञायां घञ् ( कटीरः ) जघनं कञ्चुकम् कृशशृत्यादिना ङीरन् कटिरं चर्म असित्रादिनेरन् कटित्रं चर्म अशित्रादिभ्य इतीत्रः ( कटकम् ) "क्वुन् शिल्पिसंज्ञयोः'' इति क्वुन् ( कटुः ) बाहुलकादुप्रत्ययः ( कट्वरः ) "छित्वरछत्वरधीवरपीवरमीवरचीवरनीवरगह्वरकट्वरसयद्वरा'' इति वरचि निपात्यते चटत्येकइति काश्यपः चटतीत्यादि पूर्ववत् ( चाटुः ) "सनिजनिचटिभ्य उण्'' इति उण् ( चटुः) बाहुलकादुकारः ( चटुलः ) बाहुलकादुलच् ( चटकः ) "क्वुन् शिल्पिसंज्ञयोः'' इति क्वुन् ( चटका ) अजादिपाठाट्टाप्, "प्रत्ययस्थात्'' इतीत्वाभावश्च चटकाया अपत्यं, चाटकैरः "चटकाया ऐरग्'' इत्यैरक् [ चटकाच्चेति वक्तव्यात् ] चटकस्यापत्यमाप चाटकैरः, स्त्रियां त्वपत्ये [ स्त्रियामपत्येलुग्वक्तव्यः] इति ऐरको लुकि चटकेति भवति भेदनार्थोयं चुरादौ 291
कृदन्तरूपमाला
Sanskrit
1 {@“कटे वर्षावरणयोः”@} 2 काटकः-टिका, काटकः-टिका, चिकटिषकः-षिका, चाकटकः-टिका, इति सर्वाण्यपि रूपाणि ‘कख हसने’ 3 इति धातोरिव ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४७)
02
=>
(१-भ्वादिः-२९४। सक। सेट्। पर।)
03
=>
(१४१)