| YouTube Channel

कटुकी (kaTukI)

 
शब्दकल्पद्रुमः
Sanskrit
कटुकी,
स्त्री,
(कटु + स्वार्थे कन् गौरादित्वात्ङीष् ।) कटुका इति मेदिनीशब्दरत्नावल्यौ ।कट्की इति भाषा
(अस्या गुणाः ।“कटुकी तु सरा रूक्षा कफपित्तज्वरापहा” ।इति वैद्यकद्रव्यगुणग्रन्थे
“कठ्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः ।भेदिनी दीपनी हृद्या कफपित्तज्वरापहा ।प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत्”
इति भावप्रकाशः
)
वाचस्पत्यम्
Sanskrit
कटुकी स्त्री कटु + स्वार्थेकन् गौरा० ङीष् (कट्की) कटु-कायाम् कटुकाशब्दे गुणपर्य्यायादि