| YouTube Channel

कटिशूल (kaTizUla)

 
Monier Williams Cologne
English
कटि—शूल
m.
sciatic pain, stitch in the side
pleurisy,
Bhpr.
Shabdartha Kaustubha
Kannada
कटिशूल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಫ ಮತ್ತು ವಾತಗಳಿಂದ ಉಂಟಾದ ಸೊಂಟದ ನೋವು
व्युत्पत्तिः - > कटिस्थं शूलम्
प्रयोगाः - > "कुष्ठस्य भागमेकं तु पथ्याभागद्वयं तथा उष्णोदकेन सम्पीत्वा कटिशूलविनाशनम् ॥"
शब्दकल्पद्रुमः
Sanskrit
कटिशूलः,
पुं,
(कटिस्थः शूलः शूलरोगः ।) कटि-देशस्थशूलरोगः तस्यौषधं यथा ।“रजनीकदलीक्षारलेपः सिध्मविनाशनः ।कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा
उष्णोदकेन संपीत्वा कटिशूलविनाशनम्” ।इति गारुडे १८८ अध्यायः
(“गुडूच्यारग्बधश्चैव क्वाथमेषां विपाचयेत् ।शुण्ठीचूर्णेन संयुक्तं पिबेज्जङ्घाकटिग्रहे”
इति शार्ङ्गधरः
)
वाचस्पत्यम्
Sanskrit
कटिशूल
पु०
कटिस्थं शूलम् कटिदेशस्थे कफवातिके शूल-रोगभेदे शूलप्रसङ्गात् तद्भेदनिदानादि भावप्र० दर्शितमु-च्यते यथा “दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् ।सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः प्रभुः कर्त्ता अथवातिकस्य विप्रकृष्टं निदानसम्प्राप्तिपूर्व्वकं लक्षणमाह ।व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् ।कलायमुद्गाढककोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् क-षायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकैः विट्शुक्र-मूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभावात् वायुःप्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे (त्रिकंपृष्ठवंशाधरसन्निकृष्टकट्यादि)जीर्णे प्रदोषे वना-गमे शीते कोपं समुपैति गाढम् सुहुसुं-हुश्चोपशमप्रकापौ विण्सूत्रसंस्तम्भनतोदभेदैः संस्वेद-नाभ्यञ्जनमर्द्दनाद्यैः स्निग्धोष्णभोज्यैश्च समं प्रयाति ।व्यायामो मल्लयुद्धादिः यानं तुरगरथादि मैथुनं स्त्रीसेवा ।प्रजागरः रात्रौ, एषामतियोगात्, शीतलजलप्रभूतपानात्कलायस्त्रिपुटः (मटर) आढकी तुवरी कोरदूषः कोरद्रवःअतिरूक्षद्रव्यसेवा अध्यशनं भुक्तस्योपरि भोजनम् अभिघातोलोष्टादिभिः, कषायतिक्तरससेवा विरूढजान्नम् विरूढमङ्कुरितमन्नम् कलायचणकादि तज्जमन्नरूपभक्ष्यम् ।बल्लूरकं शुष्कमांसम् तस्य शूलस्य देशमाह हृदा-दीति तत्र हृच्छूलस्य पृथगपि लक्षणं पठन्ति “कफपित्ता-वरुद्धस्तु मारुतो रसवर्द्धितः हृदयस्थः प्रकुरुते शूलमुच्छ्वासरोधकम् हृच्छूल इति ख्यातो रसमारु-तकोपजः” अथ पार्श्वशूलस्यापि लक्षणमाह “कफंनिगृह्य पवनः सूचीभिरिव निस्तुदन् पार्श्वस्थः पा-र्श्वयोः शूलं कुर्य्यादाध्मानसंयुतम् तेनोच्छ्वसितिवक्त्रेण नरोऽन्नञ्च काङ्खति निद्राञ्च नाप्नुयादेव पार्श्व-शूलः प्रकीर्त्तितः” वस्तिशूलस्यापि लक्षणमाह “संरो-धात् कुपितो वायुर्वस्तिं संश्रित्य तिष्ठति वस्तेरध्वनिनाडीषु ततः शूलोऽस्य जायते विण्मूत्र वातसंरोधीवस्तिशूलः उच्यते” प्रकृतमनुसरति जीर्णे भुक्ते ।प्रदोषे रात्र्यागमे रात्रिभवशीतेन वातप्रकोपात् ।घनागमे वर्षासु मेधोदये तथैव पैत्तिकमाह क्षारा-तितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः क-ट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ग्रा-भ्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम् ।तृण्मोहदाहार्त्तिकरं हि नाभ्यां सस्वेदमूर्च्छाभ्रमशोषयुक्तम् मध्यंदिने कुप्यति चार्द्धरात्रे निदाघकाले जल-दात्यये शीते शीतैः समुपैति शान्तिं सुस्वादुशीतै-रतिभोजनैश्च निष्पावो राजमाषः सौवीरं सन्धान-भेदः सुराविकारैः “परिपक्वान्नसन्धानसमुत्पन्ना सुरामता” तस्याः विकारैः रविप्रतापः आतपः ग्राम्या-तियोगो मैथुनाधिक्यम् विदाहीत्युक्त्वापि अशनैर्विदग्धैरिंति बोधयति अविदाहिवखनोऽपि पित्तवशाद्विदा-हित्वं भवतीति जलदात्यये शरदि शीतैर्वातादिभिः ।श्लैष्मिकमाह आनूपबारिजकिलाटपयोविकारै र्मांसेक्षुपिष्टकृशरैस्तिलशष्कुलीभिः अन्यैर्बलासजनकैरपि हेतुभिश्चश्लेष्मा प्रकोपमुपगम्य करोति शूलम् हृल्लास-काससदनारुचिसं प्रसेकैरामा शयैस्तिमितकोष्ठशिरोगुरुत्वैः ।भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रम् सूर्य्योदयेऽथ शि-शिरे कुसुमागमे आनूपं बहुलजलदेशजं भक्ष्यम् ।वारिजं शालूकादि “पक्वं दध्ना समं क्षीरं विज्ञेयादधिकूर्चिका तक्रेण तत्कूर्चकं स्यात्तयोः पिण्डः किला-टकः” पयोविकारः पायसादिः पिष्टं माषादिः अन्यैःगुर्वादिभिः स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोष्ठं शिरश्चतयो र्गुरुत्वैः सह सूर्य्योदय इति त्रिधा विभक्तदिवस-प्रथमभागस्योपलक्षणम् शिशिरे तत्र कफस्यातिसञ्चयात्कुसुमागमे वसन्ते द्वन्द्वजमाह द्विदोषलक्षणैरेतैर्विद्या-च्छ्वूलं द्विदोषजम् (तस्य भेदा स्त्रयो वक्ष्यन्ते) त्रिदोषजमाह ।सर्वेषु देशेषुच सर्वलिङ्गं विद्याद्भिषक् सर्व भवंहि शूलम् ।सुकष्टमेनं विषवज्रकल्पं विवर्ज्जनीयं प्रवदन्ति तज्ज्ञाः ।सर्तेषु देशेषु हृत्पृष्ठपाश्वेत्रिकवस्तिनाभ्यामाशयेषु सर्व भवंत्रिदोषजम् अथामजमाह आटोपहृल्लासवमीगुरु-त्वस्तैमित्यमानाहकफप्रसेकैः कफस्यलिङ्गैश्च समानलिङ्ग-मामोद्भवं शूलमुदाहरन्ति कफस्य कफशूलस्य आमो-द्भवं आमादुद्भवो यस्य तम् अत्रामशूले जाते पश्चाद्दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम् सचप्रथममामाशये भवति पश्चात् सम्बन्धिभिर्द्दोषैर्वस्तिनाभिहृत्पार्श्वकुक्षिषु भवति यथादोषसम्बन्धम् आमशूलस्यदोषविशेषेण देशविशेषमाह वातात्मकं वस्तिगतं वदन्तिपित्तात्मकञ्चापि वदन्ति नाभ्याम् हृत्पार्श्वकुक्षौ कफस-न्निविष्ट सर्वेषुदेशेषुच सन्निपातात् हृत्पार्श्वकुक्षौ हृत्पा-र्श्वाभ्यां सहिते कुक्षौ कफसन्निविष्टं कफेनाविष्टम् ।“वस्तौ हृत्कटिपार्श्वेषुस शूलः कफवातिकः कुक्षौ हृन्ना-भिमध्ये तु शूलः कफपैत्तिकः दाहज्वरकरो घोरोविज्ञेयो वातपैत्तिकः तन्त्रान्तरोक्तमामशूलमाह ।“अतिमात्रं यदा भुक्त्वं पावके मृदुताङ्गते स्थिरीकृतन्तुतत्कोष्ठे वायुरावृत्य तिष्ठति यदान्नं गतं पाकं तच्छूलंकुरुते भृशम् मूर्च्छाध्मानं विदाहांश्च हृत्क्लेशमविलम्बितम् कम्पं वान्तिमतीसारं प्रमेहं जनयेदपि ।अविपाकोद्भवं शूलमेतमाहुर्म्मनीषिणः” अविपाकोद्भवंआमोद्भवमित्यर्थः अथ शूलस्योपद्रवानाह बेदनातितृषा मूर्च्छा आनाहो गीरवारुची कासःश्वासो वमि-र्हिक्वा शूलस्योपद्रवा स्मृताः अथास्य साध्यत्वादिकमाह ।एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः सर्वदोषा-न्वितो घोरस्त्व साध्योभूर्य्युपद्रवः अथारिष्टमाह वेदनातितृषा मूर्च्छा आनाहो गौरवं ज्वरः भ्रमीऽरुचिः कृश-त्वञ्च बलहानिस्तथैव उपद्रवा दशैवेते यस्य शूलेषुनास्ति सः अथ शूलस्यैव भेदं परिणाममाह स्वैर्नि-दानैः प्रकुपितो वातः सन्निहितो यदा कफपित्ते समा-वृत्य शूलकारी भवेद्बली भुक्ते जीर्य्यति यच्छ्वूलं तदेवपरिणामजम् स्वैर्निदानैरित्यादिना निदानपूर्व्विका सं-प्राप्तिरुक्ता भुक्ते जीर्य्यतीत्यादिना लक्षणमुक्तम् सना-वृत्य व्याप्य तस्य लक्षणमप्येतत् समासेनाभिधीयते ।आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः स्निग्धीष्णोप-शमप्रायं वातिकं तद्वदेत् भिषक् तृष्णा दाहा रति-स्वेदकट्वम्ललवणोत्तरम् शूलं शीतशमप्रायं पैत्तिकंलक्षयेत् बुधः छर्द्दिहृल्लाससंमोहस्वल्परुक् दीर्घसन्ततिः ।कटुतिक्तोपशान्तौ विज्ञेयञ्च कफात्मकम् संदृष्टलक्षणंबुद्ध्वा द्विदोषं परिकल्पयेत् त्रिदोषजमसाध्यं स्यात्क्षीणमांसबलानलम् अथान्नद्रवनामानं शूलविशेष-माह जीर्णे जीर्य्यति चाप्यन्ने यच्छूलमुपजायते ।पथ्यापथ्यप्रयोगेण भोजनाभीजनेन वा समं यातिनियमात्सोऽन्नद्रव उदाहृतः नेदं शूलमसाध्यं चिकि-त्साभिधानात्” उभयथा प्रयोगात् क्लीवत्वमप्यस्य