| YouTube Channel

कञ्चुकी (kaJcukI)

 
Apte
English
कञ्चुकी [kañcukī],
f.
N.
of a medicinal plant.
Monier Williams Cologne
English
कञ्चुकी
f.
Lipeocercis Serrata,
L.
Wordnet
Sanskrit
Synonyms:
कञ्चुकी
noun
प्राचीनकालीनः अन्तःपुराध्यक्षः।
"पुराकाले कञ्चुकी अन्तःपुरं रक्षति स्म।"
Synonyms:
यवः, शितश्रूकः, सितश्रूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तीक्ष्णश्रूकः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्
noun
श्रूकधान्यविशेषः। अस्य गुणाः - कषायत्व-मधुरत्व-सुशीतलत्वादयः।
सीता यवान् चणकान् पिनष्टि।/ "यवः कषायमधुरो बहुवातशकृद् गुरुः। रूक्षः स्थैर्यकरः शीतो मूत्रमेदकफापहः॥"
Synonyms:
यवः, यवकः, तीक्ष्णशूकः, प्रवेटः, शितशूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्
noun
सस्य-विशेषः, यस्य बीजस्य गुणाः कषायत्व-मधुरत्व-प्रमेहपित्तकफापहारकत्वादयः।
"श्यामः भूमौ यवं रोपयति।"
Synonyms:
चणकः, हरिमन्थकः, हरिमन्थजः, चणः, हरिमन्थः, सुगन्धः, कृष्णचञ्चुकः, बालभोज्यः, वाजिभक्ष्यः, कञ्चुकी
noun
धान्यविशेषः यस्य गुणाः मधुरत्व-रूक्षत्व-मेहवान्त्यस्रपित्तनाशित्वादयः।
"चणकानां सूपः रूचिपूर्णः अस्ति।"
Synonyms:
सर्पः, भुजगः, भुजङ्गः, अहिः, भुजङ्गम्, उरगः, पृदाकुः, आशीविषः, विषधरः, चक्री, व्यालः, सरीसृपः, कुण्डली, गूढपात्, चक्षुःश्रवा, काकोदरः, फणी, दर्वीकरः, दीर्घपृष्ठः, दन्दशूकः, विलेशयः, उरगः, पन्नगः, भोगौ, जिह्नगः, पवनाशनः, विलशयः, कुम्भीनसः, द्विरसनः, भेकभुक्, श्वसनोत्सुकः, फणाधरः, फणधरः, फणावान्, फणवान्, फणाकरः, फणकरः, समकोलः, व्याडः, दंष्ट्री, विषास्यः, गोकर्णः, उरङ्गमः, गूढपादः, विलवासी, दर्विभृत्, हरिः, प्रचालकी, द्विजिह्वः, जलरुण्डः, कञ्चुकी, चिकुरः, भुजः
noun
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
"सर्पाः शून्यागारे वसन्ति।"
शब्दकल्पद्रुमः
Sanskrit
कञ्चुकी, [न्]
पुं,
(कञ्चुकोऽस्यास्तीति कञ्चुक + अस्त्यर्थेइनिः ।) महल्लरक्षकः अन्तःपुराध्यक्षः तुवहिःसञ्चरन्तीनां पुरस्त्रीणां प्रेक्षकपुरुषान्तर-वारणाय राज्ञा स्त्र्यागारे यो वेत्रधरो नियुक्तः ।तत्पर्य्यायः सौविदल्लः स्थापत्यः सौविदः ।इत्यमरः
(यथा रत्नावलीनाटिकायां२ अङ्के ।“नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः”
अस्य लक्षणमुक्तं भरतेन ।“अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः ।सर्व्वकार्य्यार्थकुशलः कञ्चुकीत्यभिधोयते”
)यवः चणकः सर्पः इति राजनिर्घण्टः
षिङ्गः ।जोङ्गकद्रुमः इति मेदिनी
कञ्चुकी,
स्त्री,
(कञ्चयति शरीरकान्त्यादिकं प्रका-शयति रोगादिकमुपशमयति वा कञ्च णिच्बाहुलकादुकन् गौरादित्वात् ङीष् जातिवाच-कत्वात् ङीप् वा ।) औषधिभेदः इति मेदिनी
क्षीरीशवृक्षः इति रत्नमाला