कच्छप (kacchapa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishकच्छप (-पः)
1. A turtle, a tortoise.
2. One of KUVERA'S Nidhis or
treasures.
2. An attitude in wrestling.
4. A flat kind of still.
(-पी)
1. A female tortoise, also a small one.
2. A kind of lute, also
the lute of SARASWATI.
3. A cutaneous disease, wart or blotch.
कच्छ a morass, and प who cherishes, who inhabits watery places:
the lute, &c. are so named from being similar in shape to the
tortoise.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English कच्छप kacchapa flat kind of still
कच्छप kacchapa turtle
कच्छप kacchapa attitude in wrestling
कच्छप kacchapa keeping or inhabiting a marsh
कच्छप kacchapa one of the nine treasures of kuvera
कच्छप kacchapa tumour on the palate
कच्छप kacchapa red cedar [ Cedrela Toona - Bot. ]
कच्छप kacchapa apparatus used in the distillation of spirituous liquor
कच्छप kacchapa tortoise
Wilson
Englishकच्छप
(-पः)
1 A turtle, a tortoise.
2 One of KUVERA'S Nidhis or treasures.
3 An attitude in wrestling.
4 A flat kind of still.
(-पी)
1 A female tortoise, also a small one.
2 A kind of lute, also the lute of SARASVATĪ.
3 A cutaneous disease, wart or blotch.
कच्छ a morass, and प who cherishes, who inhabits watery places:
the lute, &c. are so named from being similar in shape to the tortoise.
Monier Williams Cologne
EnglishBenfey
EnglishHindi
Hindi(पु) कछुआ
Apte Hindi
Hindiकच्छपः
- -
कछुवा
कच्छपः
- -
मल्लयुद्ध में एक स्थिति
कच्छपः
- -
कुबेर की नौ निधियों में से एक
Shabdartha Kaustubha
Kannadaकच्छप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆಮೆ /ಕೂರ್ಮ
निष्पत्तिः - > पा (रक्षणे) - "कः" (३-२-४)
व्युत्पत्तिः - > कच्छेन कर्परेण पाति इतराङ्गानि, कच्छमात्मनो मुखसम्पुटं पाति वा ।
विस्तारः - > ಆಮೆಯು ತನ್ನ ಮುಖವನ್ನು ಚಿಪ್ಪಿನೊಳಕ್ಕೆಸೇರಿಸಿ ರಕ್ಷಿಸಿಕೊಳ್ಳುವುದರಿಂದ ಈ ಹೆಸರು.
कच्छप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕುಬೇರನ ನವನಿಧಿಗಳಲ್ಲೊಂದು
कच्छप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜಟ್ಟಿಯ ಬಾಹುಯುದ್ಧದ ಒಂದು ಭೇದ
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritमहापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ।
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ १९३ ॥
महापद्म (पुं), पद्म (पुं), शङ्ख (पुं), मकर (पुं), कच्छप (पुं), मुकुन्द (पुं), कुन्द (पुं), नील (पुं), चर्चस् (पुं)
कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः ।
पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ ॥
कच्छप (पुं), कमठ (पुं), कूर्म (पुं), क्रोडपाद (पुं), चतुर्गति (पुं), पञ्चाङ्गगुप्त (पुं), दौलेय (पुं), जीवथ (पुं), कच्छपी (स्त्री), दुली (स्त्री)
अभिधानरत्नमाला
Sanskritकच्छप
कच्छप, कमठ, कूर्म
कच्छपः कमठः कूर्मस्तद्भार्या च डुली स्मृता ॥ ६५६ ॥
verse 3.1.1.656
page 0075
वैजयन्तीकोषः
SanskritWord: कच्छपः
Root: कच्छप
Gender: पुं
Number: all
अर्थः ⇒ कुबेरस्य विशेषनिधिः
Meaning(s):
⇒ One of the nine treasures of Kubéra
Shloka(s):
1|2|60|2 ► भेदाः पद्मो महापद्मः शङ्खो मकरकच्छपौ॥ (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
➠ 1|2|60|2 ⇢ कच्छपः (कच्छप) (पुं) ⇒ One of the nine treasures of Kubéra ⇒ कुबेरस्य विशेषनिधिः
Related word(s):
isa_k ➡ कुबेरस्य नव विशेषनिधयः
परा_अपरासंबन्धः ➡ निधिः
अन्यसंबन्धाः ➡ कुबेरः
उपाधि ➡ धनम्
Mahabharata
EnglishKacchapa, a serpent. § 191 (Arjuna): I, 123, 4828 (present at the birth of Arjuna).
शब्दकल्पद्रुमः
Sanskritकच्छपः, (कच्छं आत्मनो मुखसम्पुटं पाति स हिकिञ्चिद्दृष्ट्वा शरीरे एव मुखसम्पुटं प्रवेशयतिसम्पुटे हि कच्छशब्दः प्रसिद्धः । यद्वा कच्छे अनूप-देशे पाति आत्मानं रक्षतीति । कच्छ + पा +कर्त्तरि डः ।) स्वनामख्यातजलजन्तुः । काछिम् इतिभाषा । तत्पर्य्यायः । कूर्म्मः २ कमठः ३ । इत्यमरः ॥
१ । १० । २१ । गूढाङ्गः ४ धरणीधरः ५ कच्छेष्टः ६पल्वलावासः ७ कठिनपृष्ठकः ८ । पञ्चसुप्तः ९क्रोडाङ्गः १० । इति शब्दरत्नावली ॥
पञ्चनखः ११गुह्यः १२ पीवरः १३ जलगुल्मः १४ । इतिजटाधरः । अस्य मांसगुणाः ।वातहरत्वम् । शुक्रवृद्धिकारित्वम् । चक्षुर्हित-त्वम् । बलवर्द्धनत्वम् । मेधास्मृतिकारित्वम् ।पथ्यत्वम् । शोथदोषनाशित्वञ्च । तस्य चर्म्म पित्त-नाशकम् । पादः कफहारकः । अण्डं स्वादु वाजी-करञ्च ॥
(अवतारविशेषः । यथाभागवते ८ । ७ । १० ।“सुरासुरेन्द्रैर्भुजवीर्य्यवेपितंपरिभ्रमन्तं गिरिमङ्गपृष्ठतः ।बिभ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः” ॥
)नन्दीवृक्षः । इति राजनिर्घण्टः । कुवेरस्य निधि-विशेषः । मल्लस्य बन्धविशेषः । इति मेदिनी ॥
मदिरायन्त्रविशेषः । इति शब्दचन्द्रिका ॥
(ऋषि-विशेषः स तु विश्वामित्रपुत्त्रः ॥
यथा हरिवंशे२७ । ४७--५० ॥
“विश्वामित्रस्य पुत्त्रास्तु देवराजादयः स्मृताः ।विख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ॥
देवश्रवाः कतिश्चैव यस्मात् कात्यायनाः स्मृताः ।शालावत्यां हिरण्याक्षो जज्ञे रेणौ तु रेणुमान् ॥
साङ्कतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।मधुच्छन्दादयश्चैव देवलश्च तथाष्टकः ॥
कच्छपः पूरितश्चैव विश्वामित्रस्य वै सुताः ।तेषां ख्यातानि गोत्राणिकौशिकानां महात्मनां” ॥
नागविशेषः । यथा महाभारते १ । १२३ । ६८ ।“कर्क्कोटकोऽथ सर्पश्च वासुकिश्च मुजङ्गमः ।कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः” ॥
)
वाचस्पत्यम्
Sanskritकच्छप पुंस्त्री “कच्छमात्मनो मुखसंपृटं पाति सहिकिञ्चिद्दृष्ट्वा शरीर एव सुखसमुटं प्रवेशयति संपुटेहि कच्छशब्दः प्रसिद्धः प्राणिवाच्यकच्छपुट इति ।कच्छेन कटाहेन (कर्परेण) इतराङ्गाणि पाति वा ।अथ वा कच्छेन मुखसम्पुटेन पिबतीति कच्छः खमा-काशं छादयतिः कच्छः । खच्छः खच्छदः अयम-पीतरो नदीकच्छ एतदीयमुदकं तेन च्छाद्यते” इतिच निरुक्तोक्तेः कच्छं पाति कच्छेन पाति वा कच्छेनपिबतीति वा पा--ड । १ कूर्म्मे स्त्रियां जातित्वात् ङीष् साच २ वीणाभेदे ३ कच्छपस्त्रियाञ्च । ४ क्षुद्ररोगभेदेस्त्री ५ कुवेरनिधिभेदे ६ मल्लबन्धभेदे च मेदि० ।कच्छपीरोगश्च भाव० प्रका० दर्शितः “ग्रथिताः पञ्च वाषड्वा दारुणाः कच्छपोन्नताः । कफानिलाभ्यां पि-डकाः सा स्मृता कच्छपी बुधैः” कच्छपोन्नता मध्ये प्रो-स्नता प्रान्ते नता । इयञ्च प्रमेहरेगोपेक्षायां दशविधपिडकान्तर्गता । निधिभेदः एकादिशब्दे नवसंख्यायांदर्शितस्तत्र द्रष्टव्यः । स्वार्थेकन् कच्छपिकाऽपि रोगभेदे ।“सदाहा कर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः” वैद्यकम् ।कच्छपमांसगुणाः भावप्र० उक्ताः “कच्छपो बलदो वा-तपित्तनुत् पुंस्त्वकारका” । अयञ्च भक्ष्यपञ्चनखान्तर्गतः“शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः । भक्ष्याःपञ्चनखेष्वेते” इति मनुक्तेः “पञ्च पञ्चनखान् भुञ्जीतेति”श्रुतिः । अत्र परिसंख्यैतदतिरिक्तपञ्चनखानां भोजन-निवृतिफलकत्वादित्याकरे स्पष्टम् । समुद्रमन्वनकाले एत-न्मूर्त्त्या मन्दरधारणार्थं भगवानवततार यथाह भाग०१, ३ अ० भगवतश्चतुविंशत्यवतारकथने । “सुरासुरणामु-दधिं मघ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एका-दशे विभुः १७ श्लो० । “मथ्यमानेऽर्णवे सोऽद्रिरनाधारोह्यपो-ऽविशत् । ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन! ।ते सुनिर्विण्णमनसः परिम्लानमुस्वश्रियः । आसन् स्वपौ-रुषे नष्टे दैवेनातिबलीयसा । विलोक्य विध्नेन विधिं तदे-श्वरोदुरन्तवीर्य्योऽवितथाभिसन्धिः । कृत्वावपुः कच्छपमद्भुतंमहत् प्रविश्य तोयं गिरिमुज्जहार । समुत्थितं वीक्ष्य-कुलाचलं पुनः समुद्यता निर्म्मथने सुरासुराः । दधारपृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान् ।सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः । बि-भ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः” भाग०८, ७, ७ विश्वामित्रसुते मुनिभेदे कतशब्दे प्रमाणम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
