| YouTube Channel

कगे (kage)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कग्
मूलधातुः:
कगे
धात्वर्थः:
अनेकार्थः, क्रियासामान्यार्थः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कगति
अनुबन्धादिविशेषः:
एदित्
धातुप्रदीपः
Sanskrit
कगेँ कगे नोच्यते
- अस्यायमर्थ इति नोच्यते क्रियासामान्यमस्यार्थ इति यावत् इह शास्त्रे नोच्यत इत्येके कगति कगयति ।। 795 ।।
क्षीरतरङ्गिणी
Sanskrit
कगेँ कगे नोच्यते
-(अर्थविवरणम्) अस्यायमर्थ इति नोच्यतेऽनेकार्थत्वात्
नोच्यत इति योऽथस्तत्रार्थे कगिरित्येके 771
धातुवृत्तिः
Sanskrit
कगेँ कगे (अर्थः) नोच्यते
अत्र मैत्रेयः अस्यायमर्थ इति नोच्यते क्रियासामान्यमर्थ इत्यर्थः इह शास्त्र कगे नोच्यते इत्येके स्वामी तु अस्यायमर्थ इति नोच्यते अनेकार्थत्वात् इति, नोच्यत इति, योर्थस्तत्रार्थे कगे इत्येके कगेत्युक्तत्वात्क्रियासामान्यमस्यार्थ इत्याहान्ते ( कगतीत्यादि ) कखादयो ऽष्टावेदितः 779
कृदन्तरूपमाला
Sanskrit
1 {@“कगे नोच्यते”@} 2 अस्यायमर्थ इति विशिष्य नोच्यते-क्रियासामान्यार्थत्वात् इत्येके।
अनेकार्थत्वात्-इत्यन्ये।
शुद्धात्-सन्नन्तात्-यङन्ताच्च, धातोरस्य कखतिवत् 3 रूपाणि सर्वाण्यपि ज्ञेयानि।
ण्यन्तात् तु ‘कखे हसने’ 4 इति घटादिधातुवत् ज्ञेयानि।।
प्रासङ्गिक्यः
01
=>
(१४३)
02
=>
(१-भ्वादिः-७९१।-अक। सेट्। पर। घटादिः।)
03
=>
(१४१)
04
=>
(१४२)