| YouTube Channel

कक्कोलकं (kakkolakaM)

 
शब्दकल्पद्रुमः
Sanskrit
कक्कोलकं,
क्ली,
(कक्कोलस्य + इदमर्थे स्वार्थे वा कन् ।शाल्मलिद्वीपान्तर्गतसप्तमवर्षपर्ब्बतः तद्विचरणंविष्णुपुराणे अंशे अध्याये द्रष्टव्यम्”
)गन्धद्रव्यविशेषः काँकला इति ख्यातम् तत्पर्य्यायःकोलकम् कोषफलम् इत्यमरः
कृत-फलम् कटुकफलम् द्वेष्यम् स्थूलमरिचम्७ कक्कोलम् माधवोचितम् कालम् १०कटफलम् ११ मरिचम् १२ अस्य गुणाः ।कटुत्वम् तिक्तत्वम् उष्णत्वम् वक्त्रजाड्यहर-त्वम् दीपनत्वम् पाचनत्वम् रुचिकारित्वम् ।कफवातरोगनाशित्वञ्च इति राजनिर्घण्टः
(“कक्कोलकं लवङ्गञ्च तिक्तं कटुकफापहम् ।लघुतृष्णापहं वक्त्रक्लेददौर्गन्ध्यनाशनम्”
इति सुश्रुतः
)