| YouTube Channel

और्द्ध्वदैहिक (aurddhvadaihika)

 
वाचस्पत्यम्
Sanskrit
और्द्ध्वदैहिक
त्रि०
ऊर्द्ध्वदेहाय साषु--ठञ् ऊर्द्ध्वदेहप्रापकेशास्त्रोक्ते क्रियादौ मरणोत्तर हि मनुष्याणां प्रथ-ममातिवाहिकदेहोत्पत्तिस्ततः पूरकपिण्डदानेन प्रेत-देहप्राप्तिः आद्यादिसपिण्डान्तक्रियाभिः प्रेतदेहनि-वृत्त्या भोगदेहपाप्तिस्तत्र पूर्व्वोत्तरभवे क्रिये हेतू ।तदेतत् शुद्धितत्त्वे निर्ण्णीतं यथा ।“अत्रेदं वीजं पूर्व्वक्रियायाआतिवाहिकदेहत्यागोत्तर-देहान्तरजननं, मध्यक्रियायाअपि प्रेतत्वपरिहारोत्तर-देहान्तरजननं ततश्चैकयैव तत्सिद्धौ पुनस्तत्करणं वचना-भावेऽनर्थकम् तथाच विष्णुधर्म्मोत्तरम् “तत्क्षणा-देव गृह्णाति शरीरमातिवाहिकम् ऊर्द्ध्वं व्रजन्ति भूतानित्रीण्यस्मात्तस्य विग्रहात्” त्रीणि भूतानि जोवाय्वा-काशानि, पृथिवीजले तु अधीगच्छतः तत्क्षणात् मृत्युक्ष-णात् तथा “आतिवाहिकसंज्ञोऽसौ देहोभवति भार्गव! ।केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्” तथा“प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्गवः भोगदेह-मिति प्रोक्तं क्रमादेव संशयः प्रेतपिण्डा दीयन्तेयस्य तस्य “विमोक्षणम् श्माशानिकेभ्योभूतेभ्यआकल्वंनैव विद्यते तत्रास्य यातना घोरा शीतवातातपोडवाः ।ततः सपिण्डीकरणे बान्धवैस्तु कृते नरः पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते ततः नरके याति स्वर्गेवा स्वेन कर्म्मणा” तथा वायुपुराणम् “पूरकेण तु पि-ण्डेन देहोनिष्पाद्यते यतः कृतस्य करणायोगात्पुनर्नावर्त्तयेत् क्रियाम्” अतएवातिवाहिकदेहपरि-त्यागाय तत्कालीनकर्म्मासमर्थपुत्रसत्त्वेऽप्यन्येन दाहादिक्रियते “पितृमातृसपिण्डैस्तु समानसलिलैर्नृप संघातान्तर्गतैर्व्वापि राज्ञा वा धनहारिणा पूर्व्वाः क्रियास्तु कर्त्तव्याः पुत्त्राद्यैरेव चोत्तराः” ।तत्र क्रियाश्च त्रिविधाः विष्णुपुराणे दर्शिता यथा“पूर्व्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ।त्रिप्रकाराः क्रिया ह्येतास्तासां भेदान् शृणुष्व मे आदा-हवार्य्यायुधादिस्पर्शाद्यन्ताश्च याः क्रियाः ताः पूर्व्वा-मध्यमा मासिम्यस्येकोद्दिष्टसंज्ञिताः प्रेते पितृत्वमापन्नेसपिण्डीकरणादनु क्रियन्ते याः क्रियाः पित्र्याः प्रो-च्यन्ते ता नृपोत्तराः पितृमातृसपिण्डैश्च समान-सलिलैर्न्नृप संघातान्तर्गतैर्व्वापि राज्ञा वा धनहा-रिणा पूर्व्वाः क्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः ।दौहित्रैर्वा नरश्रेष्ठ! कार्य्यास्तत्तनयैस्तथा मृताहानि तुकर्त्तव्याः स्त्रीणामप्युत्तराः क्रियाः प्रतिसंवत्सरं रा-जन्! एकोद्दिष्टं विधानतः” आदाहेति दाहावध्रशौचान्तविहितवार्य्यायुधादिस्पर्शाद्यन्तास्ताः पूर्व्वाः, मासिमा-सीत्येकादशाहादिसपिण्डनान्तप्रेतक्रियोपलक्षणम् सपि-ण्डनोत्तराः पार्व्वणादिक्रिया उत्तराः अत्र पुत्त्रादि-सपिण्डादयः पूर्व्वाः क्रिया अवश्यं कुर्य्युः मध्यमक्रिया-यामनियमः उत्तरक्रियायां पुत्त्रादयो भ्रातृसन्ततिपर्य्यन्ता-नियताः श्राद्धविवेकेऽप्येवम् दौहित्रैर्वेति वाशब्दःसमुच्चयार्थः तेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी” ।अत्राधिकारिणश्च एकोद्दिष्टशब्दे १५ २५ पृ० उक्ताः “अक-रोत् तदौर्द्ध्वदैहिकम्” रघुः अनुशतिका० द्विपदवृद्धि-रिति मल्लि० अनुगतिकादिगणे तस्य पाठाभावेऽपि आकृति-गणत्वात् तत्सिद्धिरिति तस्याशयः किन्तु बहुपु स्थलेषुएकपदवृद्धियुक्तंदृश्यते तेन उभयमपि साधु इति तत्त्वम् ।“भृत्यानामुपरोधेन यत्करोत्यौर्द्धदेहिकम् तद्भवत्यसुखो-दर्कं जीवतश्च मृतस्य च” मनुः उपानहौ वस्त्रञ्चप्रतिगृह्यौर्द्धदेहिकम्” भारते अनु० पर्व्वणि ६२२९ श्लो०