| YouTube Channel

औरभ्रः (aurabhraH)

 
Wordnet
Sanskrit
Synonyms:
औरभ्रः
noun
एकः चिकित्सकः
"औरभ्रस्य उल्लेखः सुश्रुतेन कृतः"
शब्दकल्पद्रुमः
Sanskrit
औरभ्रः,
पुं,
(उरभ्रस्य मेषस्य इदम् उरभ्र + अण् ।)कम्बलः तत्पर्य्यायः उर्णायुः आविकः ३रल्लकः इति हेमचन्द्रः
(मेषमांसम् यथामनुः २६८ ।“द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै”
मेषदुग्धम् यथा, --“औरभ्रं मधुरं रूक्षमुष्णं वातकफापहम् ।न शस्तं रक्तपित्तानां वातिकानां हितं भवेत्”
इति हारीते प्रथमस्थाने अध्याये
धन्वन्तरिं प्रति प्रश्नकारकः ऋषिभेदः यथासुश्रुते सूत्रस्थाने “अथ खलु भगवन्तममर-बरमृषिगणपरिवृतमाश्रमस्थं काशीराजं दिवो-दासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत-करवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः”
)