औपाधिक (aupAdhika)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English औपाधिक aupAdhika valid only under particular suppositions
औपाधिक aupAdhika limited by particular conditions
औपाधिक aupAdhika valid only under particular suppositions
औपाधिक aupAdhika relating to or depending on special qualities
Apte
Englishऔपाधिक [aupādhika], (-की ) [उपाधि-ठञ्]
Conditional.
Pertaining to attributes or properties
an effect produced.
Apte 1890
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiऔपाधिक
वि* - उपाधि-ठञ्
विशेष परिस्थितियों में होने वाला
औपाधिक
वि* - उपाधि-ठञ्
"उपाधि या विशेष गुणों से संबंध रखने वाला , फलित कार्य "
Shabdartha Kaustubha
Kannadaऔपाधिक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ವಿಶೇಷಗುಣನಿಮಿತ್ತವಾದ /ವಿಶೇಷಗುಣದಿಂದುಂಟಾದ
निष्पत्तिः - > "ठक्" (४-२-८०)
व्युत्पत्तिः - > उपाधिना निवृत्तः
L R Vaidya
Englishवाचस्पत्यम्
Sanskritऔपाधिक तेन निर्वृत्तः बा० ठञ् । उपाधिकृतेस्त्रियां ङीप् “रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते ।नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा” शब्दश०पुरुषस्य बन्धस्तु औपाधिक एव न नैमित्तिकः नापितात्त्विकः इत्येतत् सां० सू० माष्ययोर्मिर्ण्णीतं यथा“न स्वभावतो वद्धस्य मोक्षसाधनोपदेशविधिः” सू०“दुःखात्यन्तनिवृत्तेर्मोक्षत्वस्योक्ततया बन्धोऽत्र दुःखयो-गएव तस्य बन्धस्य पुरुषे न स्वांभाविकत्वं वक्ष्यमाणलक्षणणमस्ति यतो न स्वभावतो बद्धस्य मोक्षाय साधनोपदेश-स्य विधिरनुष्ठानं नियोज्यानां घटते । न ह्यग्नेः स्वाभाविकादौष्ण्यान्मोक्षः सम्भवति । स्वाभाविकस्थ यावद्-द्रव्यभावित्वादित्यर्थः । तदुक्तमीश्वरगीतायाम् ।“यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावतः ।न हि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि” ।“यस्मिन् सति कारणविलम्बाद्विलम्बो यस्योत्पत्तौन भवति तस्य तत् स्वाभाविकमिति स्वाभाविकत्वलक्षणम् । ननु सर्वदोपलम्भापत्तेर्दुःखस्य स्वाभाविकत्व-शङ्कैव नास्तीति चेन्न त्रिगुणात्मकत्वेन चित्तस्य दुःख-स्वभावत्वेऽपि सत्वाधिक्येनाभिभवात् सदा दुःखानुपलब्धि-वदात्मनोऽपि तदनुपलब्धिसम्भवात् । दुःखस्वाभाविकत्व-वादिभिर्बौर्द्धश्चित्तस्यैवात्मताभ्युपगमाच्च । अथैवमात्मना-शादेव मोक्षोऽस्त्विति चेन्न । अहं बद्धो विमुक्तः स्यामितिबन्धसामानाधिकरण्येनैव मोक्षस्य पुरुषार्थत्वादिति ।मवत्वननुष्ठानं तेन किमित्यत आह” भा० ।“स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्” सू० ।“स्वभावस्य यावद्द्रव्यभावित्वान्मोक्षासम्भवेन तत्साध-नोपदेशश्रुतेरननुष्ठानलक्षणमप्रामाण्यं स्यादित्यर्थः भा० ।ननु श्रुतिबलादेवानुष्ठानं स्यात् तत्राह ।“नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः” सू० ।“नाशक्याय फलायोपदेशस्यानुष्ठानं सम्भवति । यतउपदिष्टेऽपि विहितेऽप्यशक्यओपाये स उपदेशो न भवति ।किन्तूपदेशाभास एव “बाधितमर्थं वेदोऽपि न बोधय-तीति” न्यायादित्यर्थः” भा० । अत्र शङ्कते ।“शुक्लपटवद्वीजवच्चेत्” सू० ।“ननु स्वाभाविकस्याप्यपायो दृश्यते । यथा शुक्लपटस्यस्वाभाविकं शौक्ल्यं रागेणापनीयते । यथा च वोजस्यस्वाभाविक्यप्यङ्कुरशक्तिरग्निनापनीयते । अतः शुक्लपटवद्बीजवच्च स्वाभाविकस्य बन्धस्याप्यपायः पुरुषे सम्भवतीतितद्वदेव तत्साधनोपदेशः स्यादिति चेदित्यर्थः” भा०समाधत्ते ।“शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः” सू० ।“उक्तदृष्टान्तयोरपि नाशक्याय स्वाभाविकायोपदेशो लोकानां मवति । कुतः शक्त्यद्भवानुद्भवाभ्याम्दृष्टान्तद्वये हि शौक्ल्यादेराविर्भावतिरोभावावेव भवतःन तु शौक्ल्याङ्कुरशक्त्योरभावो भवति । रजकादिव्यापा-रैर्योगिसङ्कल्पादिभिश्च रक्तपटभृष्टवीजयोः पुनः शौक्ल्याङ्कु-रशक्त्याविर्भावादित्यर्थः । नन्वेवं पुरुषेऽपि दुःखशक्तिति-रोभाव एव मोक्षोऽस्त्विति चेन्न दुःखात्यन्तनिवृत्तेरेव लोकेपुरुषर्थत्वानुमानात् श्रुतिस्मृत्योः पुरुषार्थत्वसिद्धेश्च न तुदृष्टान्तयोरिव तिरोभावमात्रस्येति । किञ्च दुःखशक्तिति-रीभावमात्रस्य मोक्षत्वे कदाचिद्यीगीश्वरसङ्कल्पादिनाशक्त्युद्भवस्य भृष्टवीजेष्विव मुक्तेष्वपि सम्भवेनानिर्मोक्षाप-त्तिरिति” मा० । स्वभावतो बन्धं निराकृत्य निमित्तेभ्यो-ऽपि बन्धमपाकरोति सूत्रजातेन । पुरुषे दुःखस्य नैमि-त्तिकत्वे ज्ञानाद्युपायोच्छेद्यत्वं न घटेत । अनागता-वस्थसूक्ष्मदुःखस्य यावद्द्रव्यभावित्वादित्याशयेन नैमित्ति-कत्वं निराक्रियते ।“न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात्” सू० ।“नापि कालसम्बन्धनिमित्तकः पुरुषस्य बन्धः कुतः?व्यापिनो नित्यस्य कालस्य सर्व्वावच्छेदेन सर्व्वदा मुक्ता-मुक्तसकलपुरुषसम्बन्धात् सर्व्वावच्छेदेन सदा सकल-पुरुषाणां बन्धाषत्तेरित्यर्थः । अत्र च प्रकरणे कालदेश-कर्मादीनां निमित्तत्वसामान्यं नापलप्यते श्रुतिस्मृतियुक्ति-मिः सिद्धत्वात् । किन्तु यन्नैमित्तिकत्वं पाकजरूपादिव-न्निमित्तजन्यत्वं तदेब बन्धे प्रतिषिध्यते पुरुषे बन्धस्यौपाधि-कत्वाभ्युपगमात् । ननु कालादिनिमित्तकत्वेऽपि सहकार्य-न्तरसम्भवासम्भवाभ्यां व्यवस्था स्यादिति चेत् एवं सतियत्संयोगे सत्यवश्यं बन्धस्तत्रैव सहकःरिणि लाघवाद्बन्धोयुक्तः पुरुषे बन्धव्यवहारस्यौपाधिकत्वेनाप्युपपत्तेरिति कृतंनैमित्तिकत्वेनेति” भा० “न देशयोगतोऽप्यस्मात्” सू० ।“देशयोगतोऽपि न बन्धः कुतः? अस्मात् पूर्व्वसूत्रो-क्तान्मुक्तामुक्तसर्व्वपुरुषसम्बन्धात् मुक्तस्यापि बन्धापत्तेरि-त्यर्थः” भा० ।“नावस्थातो देहघर्मत्वात् तस्याः” सू० ।“सङ्घातविशेषरूपताख्या देहरूपा यावस्था न तन्निमि-चतोऽपि पुरुषस्य बन्धः । कुतः? तस्या अवस्थाया देह-धर्मत्वात् अचेतनधर्मत्वादित्यर्थः । अन्यधर्मस्य साक्षाद-न्यबन्धकत्वेऽतिप्रसङ्गात् । मुक्तस्यापि बन्धापत्तेरित्यर्थः”भा० । ननु पुरुषस्याप्यवस्थायां किं बाधकं तत्राह ।“असङ्गोऽयं पुरुष इति” सू० ।“इति शब्दो हेत्वर्थे । पुरुषस्यासङ्गत्वादवस्थाया देह-मात्रधर्मत्वमिति पूर्वसूत्रेणान्वयः । पुरुषस्यावस्थारूप-विकारस्वीकारे विकारहेतुसंयोगाख्यः सङ्गः प्रसज्येतेतिभावः । असङ्गत्वे च श्रुतिः । “स यदत्र किञ्चित् पश्य-त्यनन्वागतस्तेन भवति असङ्गो ह्ययं पुरुष” इति । सङ्गश्चसंयोगमात्रं न भवति । कालदेशसम्बन्धस्य पूर्वमुक्तत्वात् ।श्रतिस्मृतिषु पद्मपत्रस्थजलेनेव पद्मपत्रस्यासङ्गतायाः पुरुषासङ्गतायां दृष्टान्तताश्रवणाच्च” भा० ।“न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च” सू० ।“न हि बिहितनिषिद्धकर्मणापि पुरुषस्य बन्धः कर्मणामनात्मधर्मत्वात् । अन्यधर्मेण साक्षादन्यस्य बन्धे चमुक्तस्यापि बन्धापत्तेः । ननु स्वस्वोपाधिकर्मणा बन्धाङ्गी-कारे नायं दोष इत्याशयेन हेत्वन्तरमाह । अतिप्रसक्ते-श्चेति । प्रलयादावपि दुःखयोगरूपबन्धापत्तेश्चेत्यर्थः । सहकार्य्यन्तरविलम्बतो विलम्बकल्पनं च प्रागेव निराकृतं नकालयोगत इत्यादिसूत्र इति” भा० ।नन्वेवं दुःखयेगरूपोऽपि बन्धः कर्मसामानाधिकर-ण्यानुरोधेन चित्तस्यैवास्तु दुःखस्य चित्तधर्मतायाः सिद्ध-त्वात् । किमर्थं पुरुषस्यापि कल्प्यते बन्ध इत्याशङ्कायामाह“विचित्रभोगानुपपत्तिरन्यधर्मत्वे” सू० ।“दुःखयोगरूपबन्धस्य चित्तमात्रधर्मत्वे विचित्रभोगानुप-पत्तिः । पुरुषस्य हि दुःखयोगं विनापि दुःखसाक्षात्का-राख्यभोगस्वीकारे सर्व्वपुरुषदुःखादीनां सर्वपुरुषभोग्यतास्यान्नियामकाभावात् । ततश्चायं दुःखभोक्तायं च सुख-भोक्तेत्यादिरूपभीगवैचित्र्यं नोपपद्येतेत्यर्थः । अतोभोगवैचित्र्योपपत्तये भोगनियामकतया दुःखादियोगरूपोबन्धः पुरुषेऽपि स्वीकार्यः । स च पुरुषे दुःखयोगः प्र-तिविम्बरूप एवेति प्रागेवोक्तम् । प्रतिविम्बश्च स्वोपाधि-वृत्तेरेव भवतीति न सर्वपुंसां सर्वदुःखभोगः इति भावः ।“चित्तवृत्तिभोगे च पुरुषस्यानादिः स्वस्वामिभावः सम्बन्धोहेतुरिति” योगभाष्यादयं सिद्धान्तः सिद्धः । चित्ते च पुरु-षस्य स्वत्वं स्वभुक्तवृत्तिवासनावत्त्वमिति । यत त चित्त-स्यैव बन्धमोक्षौ न पुरुषस्येति श्रुतिस्मृतिषु गीयते तद्विम्ब-रूपदुःखयोगरूपं पारमार्थिकं बन्धमादाय बोध्यम्” भा० ।साक्षात् प्रकृतिनिमित्तकत्वमपि बन्धस्यापाकरोति ।“प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यम्” सू० ।“ननु प्रकृतिनिमित्ताद्बन्धो भवत्विति चेन्न यतस्तस्याअपि बन्थकत्वे संयोगपारतन्त्र्यमुत्तरत्र वक्ष्यमाणमस्ति ।संयोगविशेषं विनापि बन्धकत्वे प्रलयादावपि दुःखसम्बन्धप्रस-ङ्गादित्यर्थः । प्रकृतिनिबन्धना चेदिति पाठे तु प्रकृतिनि-बन्धना चेद्बद्धतेत्यर्थः” भा० । अतो यत्परतन्त्रा प्रकृ-तिर्बन्धकारणं सम्भवेत् तस्मादेव संयोगविशेषादौपाधिकोबन्धोऽग्निसंयोगाज्जलौष्ण्यवदिति स्वसिद्धान्तमनेनैव प्रस-ङ्गेनान्तराल एवावधारयति ।“न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते” सू० ।“तस्मात् तद्योगादृते प्रकृतिसंयोगं विना न पुरुषस्यतद्योगो बन्धसम्पर्कोऽस्ति । अपि तु स एव बन्धहेतुः । बन्ध-स्यौपाधिकत्वलाभाय नञ्द्वयेन वक्रोक्ति । यदि हि बन्धःप्रकृतिसंयोगजन्यः स्यात् पाकजरूपवत् तदा तद्बदेब त-द्वियोगेऽप्यनुवर्त्तेत । न च द्वितीयक्षणादेर्दुःखनाशकत्वंकल्प्यं कारणनाशस्य कार्यनाशकतायाः कॢप्तत्वेन तेनैवो-पपत्तावधिकाऽकल्पनात् । वृत्तिर्हि दुःखादेरुपादानम् ।अतो दीपशिखावत् क्षणभद्भुराया वृत्तेराशुविनाशित्वेनैवतद्धर्माणां दुःखेच्छादीनां विनाशः सम्भवतीति । अतःप्रकृतिवियोगे बन्धाभावादौपाधिक एव बन्धो न तु स्वाभा-विको नैमित्तिको वेति । तथा तत्संयोगनिवृत्तिरेवसाक्षाद्धानोपाय इत्यपि वक्रोक्तिफलम् । तथा च स्मृतिः“यथा ज्वलद्गृहाश्लिष्टं गृहं विच्छिद्य रक्ष्यते ।तथा सदोषप्रकृतिविच्छिन्नोऽयं न शोचति” ।वैशेपिकाणामिव पारमार्थिको दुःखयोग इति भ्रमो माभूदित्येतदर्थं नित्येत्यादि । यथा स्वभावशुद्धस्य स्फटिकस्यरागयोगो न जपायोगं विना घटते तथैव नित्यशुद्धा-दिस्वभावस्य पुरुषस्योपाधिसंयोगं विना दुःखसंयोगो नघटते स्वतो दुःखाद्यसम्भवादित्यर्थः तथाह सौरे“यथा हि केवलो रक्तः स्फटिको लक्ष्यते जनैः” ।रञ्जकाद्युपधानेन तद्वत् परमपूरुषः” ।नित्यत्वं कालानवच्छिन्नत्वम् । शुद्धादिस्वभावत्वं चनित्यशुद्धत्वादिकम् । तत्र नित्यशुद्धत्वं सदा पाप-पुण्यशून्यत्वम् । नित्यबुद्धत्वमलुप्तचिद्रूपत्वम् । नित्य-मुक्तत्वं सदा पारमार्थिकदुःखायुक्तत्वम् । प्रतिविम्बरूपदुः-खयोगस्त्वपारगार्थिको बन्धः इति भावः । आत्मनो नि-त्यशुद्धत्वादौ च श्रुतिः । “अयमात्मा सन्मात्रो नित्यशुद्धः बुद्धः सत्यो मुक्तो निरञ्जनो विभुरित्यादिः” भा० ।अयमेव पक्षो वेदान्तिभिरप्यङ्गीकृतः “तद्गुणसारत्वा-दित्यादि” शा० सूत्रभाष्ये “न हि बुद्धेर्गुणैर्विना केवल-स्यात्मनः संसारित्वमस्ति बुद्ध्युपाधिधर्म्माध्यासनिमित्तंहि कर्त्तृत्वभोक्तृत्वलक्षणं संसारित्वमकर्त्तुरभोक्तुश्चासंसा-रिणोनित्यमुक्तस्य सत आत्मनः” इति “यावदात्मभावि-त्वादित्यादि” शा० सूत्रभाष्ये च “यावदेव चायं बुद्ध्यु-पाधिसम्बन्धस्तावदेव चास्य जीवत्वं संसारित्वञ्च । पर-मार्थतस्तु न जीवोनाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यति-रेकेण” इति च संसारित्वस्य बुद्ध्युपाधिसंबन्धाधीनतयौपा-धिकत्वस्योक्तेः । इवांस्तु विशेषः एतन्मते बन्धस्येव जीवभेद-स्यापि औपाधिकत्वं तदपि शां० सू० भाष्ययोर्निर्ण्णीतं यथा“अतएव चोपमा(जल)सुर्य्यकादिवत्” सू० “अतएव चाय-मात्मा चैतन्यस्वरूपोनिर्विशेषो वाङ्मनसातीतः परप्रति-षेधेनोपदिश्यते अतएव चास्योपाधिनिमित्तामपारमार्थि-कीं विशेषवत्तामभिप्रेत्य जलसूर्य्यकादिवदित्युपमोपा दी-यते मोक्षशास्त्रेषु “यथाह्ययं ज्योतिरात्मा विवस्वानपो-भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपोदेवःक्षेत्रेष्वेवमजोऽयमात्मेति” । “एकएव तु भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदितिचैवमादिषु । अत्र पत्यवस्थीयते” भा० । “अम्बुवदग्रहणा-त्तु न तथात्वम्” सू० । “न जलसूर्य्यादितुल्यत्वमिहोपपद्यतेतद्वदग्रहणात् । सूर्य्यादिभ्योहि मूर्त्तेभ्यः पृथगभूतं विप्र-कृष्टदेशं मूर्त्तञ्च जलं गृह्यते तत्र युक्तः सूर्य्यादिप्रति-विम्बोदयोनत्वात्मा मूर्त्तः नचास्मात् पृथग्भूता विप्रकृष्टदेशा-श्चोपाधयः, सर्व्वगतत्वात् सर्व्वानन्यत्वाच्च तस्मादयुक्तोऽयंदृष्टान्त इति । अत्र प्रतिविधीयते । भा० “वृद्ध्विह्रासमात्रमन्तर्भावादुभयसामञ्जस्यादेवम्” सू० । युक्त एव त्वयं दृष्टान्तःविवक्षितांशसम्भवात् न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित्-कञ्चिद्विवक्षितममंशं मुक्त्वा सर्व्वसारूप्यं केनचिद्दर्शयितुंशक्यते सर्व्वसारूप्ये हृइ दृष्टान्तदार्ष्टान्तिकभावोच्छेद एवस्यात् । न चेदं स्वमनीषया जलसूर्य्यकादिदृष्टान्तप्रणयनम् । शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते । किंपु-नरत्र विवक्षितं सारूप्यमिति? तदुच्यते वृद्धिह्रासमात्रमिति । जलगतं हि सूर्य्यप्रतिविम्बं जलवृद्धौ वर्द्धते जल-ह्रासे ह्रसते जलचलने चलति जलभेदे भिद्यते इत्येवं ज-लधर्म्मानुविधायि भवति न तु परमार्थतः सूर्य्यस्य तथा-त्वमस्ति एवं परमार्थतोऽविकृतमेकरूपमपि सद्ब्यह्म देहा-द्युपाध्यन्तर्भावाद्भजतएवोपाधिधर्म्मान् वृद्धिह्नासादीन्एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः” भा० ।“दर्शनाच्च” सू० । “दर्शयति च श्रुतिः परस्यैव ब्रह्मणोदेहादिषुपाधिष्वनुप्रवेशम् “पुरः स चक्रे द्विपदः पुरश्चक्रे चतुष्-पदः । पुरः स पक्षी भूत्वा पुरः पुरुष अविशदिति”“अनेन जीवेनात्मनानुप्रविश्येति” च तद्युक्तमेतत्” ।उपाधिरेव विनया० स्वार्थे ठञ् । साध्यसमव्यापकत्वे सतिसाधनाव्यापकत्वरूपे प्रागुक्ते उपाधौ “अनौपाधिको-व्याप्तिः”, अनुमा० चि० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
