| YouTube Channel

औद्वाहिकं (audvAhikaM)

 
शब्दकल्पद्रुमः
Sanskrit
औद्वाहिकं,
क्ली,
(उद्वाहसमये लब्धम् उद्वाह +ठञ् ।) भार्य्याप्राप्तिकाले लब्धं भार्य्याधनम् इतिदायभागः
तत् भ्रातृभिरविभाज्यम् यथा ।“पितृद्रव्याविनाशेन यदन्यत् स्वयमर्ज्जयेत् ।मैत्रमौद्वाहिकञ्चैव दायादानां तद्भवेत्
इति याज्ञवल्क्यः
(यथा मनुः २०६ ।“विद्याधनन्तु यद्यस्य तत्तस्यैव धनं भवेत् ।मैत्रमौद्वाहिकञ्चैव माधुपर्किकमेव च”
)