| YouTube Channel

औडवः (auDavaH)

 
शब्दकल्पद्रुमः
Sanskrit
औडवः,
पुं,
(औड्वी संख्या विद्यते यस्य औडवः ।यद्वा ओडव एव + स्वार्थे अण् ।) ओडवस्वरः ।स रागस्य जातिविशेषः पञ्चस्वरमिश्रित-रागरागिण्य इति यावत् यथा, --“औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः ।सम्पूर्णा सप्तभिः प्रोक्ता रागजातिस्त्रिधा मता”
इति सङ्गीतरत्नाकरः
अपि सम्पूर्णस्वराःष नि
षाडवस्वराः निषादो-ञ्झिताः
ओडवस्वराः ऋ-प-वर्जिताः नि
सम्पूर्णरागाः सप्तभिःस्वरैर्यथा नटवसन्तादयः षाडवरागाः षड्भिःस्वरैर्यथा सैरिन्ध्रीप्रभृतयः ओडवरागाःपञ्चभिः स्वरैर्यथा मल्लारादयः इति सङ्गीत-दामोदरः
(तथा संङ्गीतरत्नाकरे स्वराध्यायेजातिप्रकरणे ५३ -- ५४
“वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः ।पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा
ओडवी सास्ति येषाञ्च स्वरास्ते त्वोडवा मताः ।ते संजाता यत्र गीते तदौडवितमुच्यते
तत्सम्बन्धादौडवञ्च पञ्चस्वरमिद विदुः” ।“क्रमादल्पाल्पतरते षाडवौडवकारिणोः”
)