ओजः (ojaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
E Bharati Sampat
Sanskrit(पुं) १.विषमः, अयुग्मः। ‘१, ३, ५। २.ओजराशयः मेषादि अयुग्मराशयः।स्
(न)(ओजस्) उब्ज(आर्जवे)+असुन् । उ०४.१९२। १.दीप्तिः। २.शरीरबलम् । ‘ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः’ किराता०९.३३। ३.प्राणबलम् । ४.आश्रयः। ५.समासबाहुल्यात्मकं काव्यगुणम् । ‘ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम्’ काव्या०१.८०। ६.मेषादि अयुग्मराशयः। ७.वीर्यवत्पदयोजननिरन्तरसंयुक्ताक्षररेफसहित कचटतवर्गप्रथमतृतीयाक्षरयुक्तगद्यरचना । ८.जलम् ।
Wordnet
Sanskrit सामर्थ्यम्, शक्तिः, बलम्, प्रभावः, वीर्यम्, ऊर्जः, सहः, ओजः, विभवः, तेजः, विक्रमः, पराक्रमः, शौर्यम्, द्रविणम्, तरः, सहः, स्थामः, शुष्मम्, प्राणः, शक्तिता, वया, ईशा, आयत्तिः, आस्पदम्, उत्साहः, ऐधम्, ऐश्यम्, तवः, प्रतापः, प्रबलता, प्रबलता, सबलता, प्रबलत्वम्, प्रासहः, धिष्ण्यम्, वैभवम्, शम्बरः
शारिरिकी क्षमता यया मनुष्यः कार्यं कर्तुं शक्यते।
"भरतस्य सामर्थ्यं केन अपि न ज्ञायते।"
जलम्, वारि, अम्बु, अम्भः, पयः, सलिलम्, सरिलम्, उदकम्, उदम्, जडम्, पयस्, तोयम्, पानीयम्, आपः, नीरम्, वाः, पाथस्, कीलालम्, अन्नम्, अपः, पुष्करम्, अर्णः, पेयम्, सलम्, संवरम्, शंवरम्, संम्बम्, संवत्सरम्, संववरः, क्षीरम्, पायम्, क्षरम्, कमलम्, कोमलम्, पीवा, अमृतम्, जीवनम्, जीवनीयम्, भुवनम्, वनम्, कबन्धम्, कपन्धम्, नारम्, अभ्रपुष्पम्, घृतम्, कं, पीप्पलम्, कुशम्, विषम्, काण्डम्, सवरम्, सरम्, कृपीटम्, चन्द्रोरसम्, सदनम्, कर्वुरम्, व्योम, सम्बः, सरः, इरा, वाजम्, तामरस, कम्बलम्, स्यन्दनम्, सम्बलम्, जलपीथम्, ऋतम्, ऊर्जम्, कोमलम्, सोमम्, अन्धम्, सर्वतोमुखम्, मेघपुष्पम्, घनरसः, वह्निमारकः, दहनारातिः, नीचगम्, कुलीनसम्, कृत्स्नम्, कृपीटम्, पावनम्, शरलकम्, तृषाहम्, क्षोदः, क्षद्मः, नभः, मधुः, पुरीषम्, अक्षरम्, अक्षितम्, अम्ब, अरविन्दानि, सर्णीकम्, सर्पिः, अहिः, सहः, सुक्षेम, सुखम्, सुरा, आयुधानि, आवयाः, इन्दुः, ईम्, ऋतस्ययोनिः, ओजः, कशः, कोमलम्, कोमलम्, क्षत्रम्, क्षपः, गभीरम्, गम्भनम्, गहनम्, जन्म, जलाषम्, जामि, तुग्र्या, तूयम्, तृप्तिः, तेजः, सद्म, स्रोतः, स्वः, स्वधा, स्वर्गाः, स्वृतिकम्, हविः, हेम, धरुणम्, ध्वस्मन्वतु, नाम, पवित्रम्, पाथः, अक्षरम्, पूर्णम्, सतीनम्, सत्, सत्यम्, शवः, शुक्रम्, शुभम्, शम्बरम्, वूसम्, वृवूकम्, व्योमः, भविष्यत्, वपुः, वर्वुरम्, वर्हिः, भूतम्, भेषजम्, महः, महत्, महः, महत्, यशः, यहः, यादुः, योनिः, रयिः, रसः, रहसः, रेतम्
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
"जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।"
शब्दकल्पद्रुमः
Sanskritओजः, [स्] (उब्जत्यनेन । उब्ज आर्जवेउब्जेर्बले “बलोपञ्च” ४ । १९१ । उणादिः असुन् ।बलोपश्च । गुणः ।) दीप्तिः । अवष्टम्भः । प्रकाशः ।बलम् । इति मेदिनी ॥
(यथा रघौ २ । ५४ ।“रुद्रौजसा तु प्रहृतं त्वयास्याम्” । यथा च मा-नवे १ । १९ ।“तेषामिदन्तु सप्तानां पुरुषाणां महौजसाम्” ॥
)प्रथमतृतीयपञ्चमसप्तमनवमैकादशराशयः । इतिज्योविषम् ॥
गौडी रीतिः काव्यगुणः । तस्यलक्षणम् । बहुसमाससंयुक्तवर्णपदाडम्बरः । यथा, “ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः ।गौडवैदर्भपञ्चालीरीतयः परिकीर्त्तिताः ॥
ओजः समासभूयस्त्वं मांसलं पदडम्बरम्” ।तस्योदाहरणम् यथा, --“गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि-स्फुर्जत्स्फुत्कृतिभीतिसम्भृतचमत्कारस्फुरत्सम्भ्रमा ।आनन्दामृतवापिकां विदधती चित्तं गिरीशप्रभो-स्त्वां पायान्नवसङ्गमे भगवती लज्जावती पार्ब्बती” ॥
इति काव्यचन्द्रिका ॥
* ॥
रसादिसप्तधातुसार-भागजधातुविशेषः । तस्य गुणाः । सर्व्वशरीरस्थि-तत्वम् । स्निग्धत्वम् । शीतलत्वम् । स्थिरत्वम् ।शुक्लवर्णत्वम् । कफात्मकत्वम् । शरीरस्य बलपुष्टि-कारित्वञ्च ॥
“हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम् ।ओजः शरीरे संजातं तन्नाशान्नाशमृच्छति ॥
भ्रमरैः फलपुष्पेभ्यो यथा संभ्रियते मधु ।तद्वदोजः शरीरेभ्यो धातुः संभ्रियते नृणाम्” ॥
इति वैद्यकम् ॥
ओजोऽदन्तोऽपि । इति भरतः ॥
“हृदयं चेतनास्थानमोजसश्चाश्रयं मतम्” ।इति पूर्व्वखण्डे । ५ अ । शार्ड्गधरेणोक्तम् ॥
“तत्परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः” ॥
“ओजोवहाः शरीरे वा विधम्यन्ते समन्ततः ।येनौजसा वर्त्तयन्ति प्रीणिताः सर्व्वदेहिनः ॥
यदृते सर्व्वभूतानां जीवितं नावतिष्ठते ।यत्सारमादौ गर्भस्य योऽसौ गर्भरसाद्रसः ॥
संवर्त्तमानं हृदयं समाविशति यत्पुरा ।यस्य नाशान्न नाशोऽस्ति धारि यद्धदयाश्रितम् ॥
यच्छरीरबलं देहः प्राणा यत्र प्रतिष्ठिताः ।तत्फला विविधा वाताः फलन्तीति महाफलाः ॥
ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः ॥
तन्महत्ता महामूलास्तच्चौजः परिरक्षता ।परिहार्य्या विशेषेण मनसा दुःखहेतवः ॥
हृद्यं यत्स्याद्यदौजस्यं स्रोतसां यत्प्रसादजम् ।तत्तत्सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च” ॥
इति सूत्रस्थाने त्रिंशेऽध्याये चरकेणोक्तम् ॥
“गुरु शीतं मृदु श्लक्ष्णं बहुलं मधुरं स्थिरम् ।प्रसन्नं पिच्छिलं स्निग्धं ओजो दशगुणं तथा” ॥
मद्यसेवनतोऽस्य ये गुणा नश्यन्ति तद्यथा ॥
“गुरुत्वं लाघवाच्छैत्यं चौष्ण्यमम्लस्वभावतः ।माधुर्य्यं मार्द्दवं तैक्ष्ण्यात् प्रसादञ्चाशुभावनात् ॥
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि ।विकासिभावात् पैच्छिल्यं वैशद्यं सान्द्रतान्तथा ॥
सौक्ष्म्यान्मद्यं विहन्त्येवमोजसः स्वगुणैर्गुणान्” ।“रसधात्वादिमार्गाणां सत्त्ववद्ध्वीन्द्रियात्मनाम् ।प्रधानस्यौजसश्चैव हृदयस्थानमुच्यते” ॥
“नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः ।विकाश-रूक्ष-विशदा गुणास्तत्र हि नोल्वणाः” ॥
इति च चरके चिकित्सास्थाने । १२ अः ॥
“ओजः सोमात्मकं स्निग्धं शुक्लं शीतंस्थिरं सरम् ।विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्तमम् ॥
देहस्यावयवस्तेन व्याप्तो भवति देहिनाम् ।तदभावाच्च शीर्य्यन्ते शरीराणि शरीरिणाम् ॥
अभिघातात् क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रयात् क्षुधः ।ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् ।तेजः समीरितं तस्माद्विभ्रंशयति देहिनः” ॥
इति सूत्रस्थाने । १५ अः । सुश्रुतेनोक्तम् ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
