| YouTube Channel

ओँहाक् (o~hAk)

 
धातुप्रदीपः
Sanskrit
ओहाक् त्यागे
- ककारो हश्च व्रीहिकालयोः (31148) इति सामान्यग्रहणाविघातार्थः (3) जहाति जहीतः जहितः जहति हीयते जहौ जहतुः जहुः जहिहि जहाहि जहीहि जह्यात् जह्याताम् अहासीत् अहासिष्टाम् सार्थाद्धीनः हानिः हित्वा विहाय इति परस्मैभाषः आकारान्तप्रकरणानुरोधेन पूर्वं निर्द्दिश्यते 8
क्षीरतरङ्गिणी
Sanskrit
ओहाक् त्यागे
- ककारो हश्च व्रीहिकालयोः (31148) इति सामान्यग्रहणाविघातार्थः, अकितः (द्र0 7483) इत्यभ्यासस्य दीर्घत्वनिषेधार्थ इत्येके जहाति जहातेश्च (64116) इतीत्वं वा- जहितः, जहीतः जाहीतीति यङ्लुकि हौ (64117) इतीत्वम्, ईत्वम्, आत्वं च-जहीहि, जहीहि, जहाहि लोपो यि (64118)-जह्यात् घुमास्था (6466) इतीत्वम्-हीयते एर्लिङि (6467)-हेयात् वातशुनीतिलशर्धेष्वजघेट्तुदजहातिभ्यः (3228 वा0) खश्-शर्धंजहा मृगाः हीनः ग्लाज्याहाभ्यो निः (3385 वा0)-हानिः जहातेश्च क्त्वि (7343) इतीत्त्वम्-हित्वा नौ हः (उ0 344) इति कन्-निहाका गोधा नञि जाहतेः (उ0 1157) कनिन्-अहः कलं जहातीति कलहः-कः (द्र0 325) 8
धातुवृत्तिः
Sanskrit
ओहाक् (अर्थः) त्यागे
अनुदात्तः परस्मैपदी ककारो "हश्च व्रीही'' इत्यत्र पूर्वस्यास्य सामान्यग्रहणार्थः अन्यथा एकानुबन्धकल्वाद् अस्यैव ग्रहस्स्यात् ( जहाति, जहितः, जहीतः, जहति, जहासि, जहिथः, जहिथ, जहीथ, जहामि, जहिवः, जहीवः, जहीवः, जहिमः, जहीमः, ) "जहातेश्च'' इति हलादौ क्ङिति सार्वधातुके इत्यत्वमीत्वं अजादौ "श्नाभ्यस्तयोः'' इत्याल्लोपः ( जहौ, जहतुः, जहुः, जहाथ, जहिथ, जह, जहौ, जहिव, ) क्रादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः "आत णलः'' "आतो लोप इटि च'' (हाता हास्यति, जहातु जहितात्, जहिताम्, जहीताम्, जहतु, जहिहि, जहीहि, जहाहि, जहानि, जहाव ) पूर्ववदित्वमीत्वं अजादावाल्लोपश्च हौ'' इत्यात्वं ( अजहात्, अजहिताम्, अजहीताम्, अजहुः, [अजहाः, अजहाम्] "सिजभ्यस्त'' इति नित्यं झेर्जुस् "लङ्शाकटायनस्य'' इत्याकारान्तलक्षणो जुस्विकल्पस्तु भवति, परत्वात् "श्नाभ्यस्तयोरात'' इत्याल्लोपे आकारान्तत्वस्यैवाभावात्, "ईहल्यघोः'' इतीत्वं तु जुस्भावे कृते हलादित्वं पर्यवपत्स्यतइति भवति एवमदरिद्रुरित्यत्रापि ( जह्यात्, जह्याताम्, जह्युः, जह्याः, जह्याम्, जह्याव, ) "लोपो यि'' इति यकारादौ सार्वधातुके जहातेराल्लोपः आशिषि ( हेयात्, हेयास्ताम् ) "एर्लिङि'' इत्येकारो "'घुमास्था'' इतीत्वापवादः ( अहासीत्, अहासिष्टाम्, अहासीः, अहासिष्टम्, अहासिषम् ) सगिटौ ( जिहासति जेहीयते ) परत्वात् "घुमास्था'' इतीत्वे द्विर्वचनम् ( जाहीति, जाहेति, जाहीतः, ) "ईहल्यघोः'' इति नित्यमीत्वम् "जहातेश्च'' इति श्तिपा निर्देशाद् इत्वं तु भवति अत एव "आ हौ'' इत्यात्त्वमीत्वम् "लोपो यि'' इत्यलोपश्च भवति तेन "ई हल्यघोः'' इतीत्वे ( जाहीहि जाहीयात् ) इति भवतः आशीर्लिङस्तु आर्धधातुकत्वादपि "जहातेश्च'' इतीत्वमीत्वं भवति अत एव "ई हल्यघोः'' इति नित्यमीत्वं, "लोपो यि'' इत्याल्लोपश्च भवति "घुमास्था'' इतीत्वम्, "एर्लिङि'' इत्येत्वं श्तिपा निर्देशान्न भवति, तेन जाहायादिति भवति अत्र धातोः कित्त्वमाश्रित्य "दीर्घोऽकित'' इत्यभ्यासस्य दीर्घनिषेधो भवति तत्राकित इत्यनेनाभ्यासस्य विशेषणात् स्पष्टं चैतद्वृत्तिन्यासपदमञ्जर्यादिषु ( हापयति अजीहपत् हित्वा ) "जहातेश्च क्त्विः'' इति हिभावः ( हीनः, हीनवान् ) ओदित्वान्निष्ठानत्त्वम् ( विहाय ) "न ल्यपि'' इतीत्वनिषेधः जहात्युदकमिति कृत्वा ( हायनाः ) व्रीहयः "हश्च व्रीहिकालयोः'' इति ण्युट् ( हानिः ) "ग्लाश्च'' इत्यादिना स्त्रियां पूर्ववन्निः ( शर्धंजहा ) माषाः शर्धोऽपानशब्दः [ वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्य उपसङ्ख्यानम् ] इति खशि शपि श्लौ द्विर्वचने "श्नाभ्यस्तयोः'' इत्यालोप उपपदस्य मुमागमः ( पूर्वापहाणा, अपराहाणा ) पूर्वानपरांश्च जहातीत्यर्थः अजादिपाठाट्टाप्, कर्तरि ल्युट्., णत्वं सम्प्रहाणेत्यपि क्कचित्पठन्तीत्यात्रेयः ( जहकः ) कालपुरुषस्त्यागी च, "जहातेर्द्वे च'' इति क्वुनि द्वित्वम् ( अहरत्र ) "नञि जहातेः'' इति कनिन्याकारलोपः, अहन्नित्यधिकृत्य "रोऽसुपि'' इति नकारस्य रेफादेशः अत्र "स्वमोर्नपुंसकात्'' इति सोर्लुका लप्तत्वात् प्रत्ययनक्षणेन सुप्परत्वम् (अहोभ्याम्) इत्यादौ "अहन्'' इत्यह्नः परस्य रुत्वे तस्य "हशि च'' इत्युत्वम् "रत्वस्य "असुपि'' इति निषेधात्, "अहन्'' इत्येतदर्थात्सुप्परविषयं भवति ननु रत्वरुत्वयोः पूर्वत्रासिद्धत्वाद् नलोपस्स्यात् चानयोरनवकाशत्वम्, कृतेऽपि एकदेशविकृतन्यायेन अवशिष्टस्यावकाशत्वात् किञ्च हे अहरित्यत्र "वा नपुंसकानाम्'' इति नलोपाभावपक्षे रत्वं सावकाशम्
तथा रुत्वमपि हे दीर्घाहो निदाघेत्यत्र, अत्र हि पुंल्लिङ्गत्वाद्धल्ङ्यादिना सोर्लोपे प्रत्ययलक्षणेन अस्ति सुप्परत्वम् "न ङिसम्बुद्ध्योः'' इति नलोपश्च निषेध्यते सत्यम् रुविधौ षष्ठ्या निर्देष्टव्ये प्रथमान्तस्य निर्देशाद् अहन्नित्यावर्तते
तत्रैकं नलोपाभावार्थं तदेव रूपमन्वाख्यायते, अपरेण तु रुरिति वृत्तौ समाधिरुक्तः अह्नां समूहः क्रतुः ( अहीनः ) अत्राहश्शब्दोऽहर्मितकर्मवचनः, "अह्नः खः क्रतौ'' इति खः "अह्नष्टखोरेव'' इति टिलोपः अक्रतौ ( आह्न ) इति सामान्योऽणेवं द्वाभ्यामहोभ्यां निर्वृत्तः ( द्व्यहीनः, द्वैयह्निकः ) "रात्र्यहः संवत्सराच्च'' इति द्विगोर्वा खः, अन्यदा प्राग्दीव्यतीयष्ठञ् "अह्नष्टखोरेव'' इति, नियमाट्टिलोपाभावे "अल्लोपो नः''इत्यल्लोपः ( अहर्पतिः ) "अहरादीनां पत्यादिषु'' इति रेफस्य वा रेफः अन्यदा विसर्जनीयोपध्मानीयौ ) अह्नो रूपम् ( अहोरूपम् ) अहश्च रात्रिश्च ( अहोरात्रम्, अहोरथन्तरम् ) "अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसङ्ख्यानम्'' इति रेफापवादो रुः "हशि च'' इत्युत्वम् इदं समासे चासमासे चेति हरदत्तः एवं हि रात्रीतीकारान्तपाठोऽर्थवान् तेन "गतमहोरूपं पश्य रात्रिरागता रथन्तरं गाय' इति वाक्येऽपि रुर्भवति ( परमाहः, ) "सन्महत्'' इति समासः "राजाह'' इति टचि टिलोपः द्वयोरह्नोर्भवो ( द्व्यह्नः ) "तद्धितार्थ'' इति द्विगुः, "कालात्'' इति विहितस्य ठञो "द्विगोर्लुगनपत्ये'' इति लुक द्वे अह्नीर जातस्य (द्व्यह्नजातः) "कालाः परिमाणिना'' इति समासः त्रिपादिस्थस्यापीश्यते तथा "तद्धितार्थ'' इत्यत्र वार्तिकम् [ उत्तरपदेन परिमाणिना द्विगोस्समासवचनम् ] इति द्विगोर्निष्पत्तयइत्यर्थः त्रयाणां समासे हि "तद्धितार्थ'' इत्युत्तरपदे पूर्वयोस्समासे "सङ्ख्यापूर्व'' इति द्विगुत्वे "द्विगुश्च'' इति तत्पुरुषा भवति अह्नो निर्गतः ( निरह्नः ) प्रादिसमासः अह्नः पूर्वभागः ( पूर्वाह्णः ) "पूर्वापर'' इत्येकदेशिसमासः ( सङ्ख्याताह्णः ) विशेषणसमासः, "अह्नोह्न एतेभ्य'' इति टचि परभूतेऽह्नोह्नादेशः एतेभ्य इति सङ्ख्याव्ययाहरादिसूत्रोपात्ताः परामृश्यन्ते तत्राहश्शब्दात्परोऽहश्शब्दो सम्भवति एकपुण्याभ्यां त्वह्न"उत्तमैकाभ्याम्'' इत्यह्नादेशनिषेधाद् ( एकाहः पुण्याहम् ) इति टजेव उत्तमशब्दोऽहरादिसूत्रोपात्तान्त्यवचनः तत्र पुण्यशब्दएवोच्चार्यउत्तमशब्दोच्चारणमुपोत्तमस्यापि ग्रहणार्थमिति सङ्ख्यातशब्दात्परस्य अहश्शब्दस्याह्नादेशो नेति केचिद्वर्णयन्तीति वृत्तावुक्तम् द्वयोरह्नोस्समाहारो ( द्व्यहः ) इत्यत्र "न सङ्ख्यादेस्समाहारे'' इत्यह्नादेशाभावः एवं द्व्यहो जातस्येति व्युत्पत्त्या ( द्व्यहजातः ) इत्यपि भवति अयमह्नादेशष्टचि परभूतइति वृत्तादुक्तत्वात् यत्र बहुव्रीह्यादौ नास्ति तत्राह्नादेशोऽपि नास्ति सङ्ख्यातमहोऽस्य ( सङ्ख्याताहः ) पुरुषइति कथं सायाह्न यति, यतः पूर्वादिषु सायश्ब्दस्यापाठाद् एकदेशिसमास एव नास्ति नैष दोषः "सङ्ख्याविसायपूर्वस्याहन्नन्यतरस्यां ङौ'' इत्येभ्यः परस्याह्नस्य सप्तम्येकवचनेऽहनादेशविकल्पविधानात् सर्वेणैकदेशेनाह्नः समासविज्ञानात् एवं मध्याह्न इत्यापि भवति इदं ज्ञापनं रात्रेरऽप्युपलक्षणमिति व्याख्यातारः "अह्नोऽदन्तात्'' इत्यकारान्तपूर्वपदस्थान्निमित्तात्परत्वेऽह्नो नकारस्य णत्वम् अह्नान्ता "रात्राह्नाहाः पुंसि'' इति पुंल्लिङ्गाः ( पुण्याहं सुदिनाहम् )इत्यत्र तु "पुण्यसुदिनाभ्यामह्न'' इति नपुंसकत्वम् सुदिनशब्दः प्रशस्तवचनः ( प्राह्नः ) अह्नः प्रगतत्वम् "तिष्ठद्गुप्रभृतीनि च'' इत्यव्ययीभावत्वादव्ययत्वं नपुंसकत्वं अत्रैव पाठादह्नादेशोऽपि दीर्घमहो यस्यां शरदि ( दीर्घाह्नी ) शरत् "बह्वादिभ्यश्च'' इति डीष् युवादित्वात् "प्रातिपदिकान्त'' इति णत्वनिषेधः, यद्यपि बह्वादिष्वहन्निति पठ्यते, तथापि केवलस्य स्त्रीत्वायोगात्तदन्तस्य ग्रहणम् डीषभावे "अनो बहुव्रीहेः'' "डाबुभाभ्यामन्यतरस्याम्'' इति डाङ्ङीपौ तत्प्रतिषेधश्च भवति ( दीर्घाह्ना, दीर्घाह्नी, दीर्घाहा, ) इति ङीष्ङीपोस्स्वरे विशेषः ( सार्थाद्धीनः) "अपादाने चाहीयरुहोः'' इति तसि निषेधः हीयेति विकृतिनिर्देशो जहातेर्निवृत्त्यर्थः, तु हीयेतिरूपस्य विवक्षणार्थः "मन्त्रो हीनस्स्वरतो वर्णतो वा' इत्यत्र तु "हीयमानपापयोगाच्च'' इति हीयमानेन पापेन युक्तादकर्तृतृतीयायान्ताद्वा तसिविधानात्तसिः अत्र विवक्षितार्थाद्धीयमानेन मन्त्रेण स्वरवर्णौ हेतुतया युज्येते कैयटे तु पस्पशायां "आद्यादित्वात्तसिः'' इति सार्थाद्धीयते देवदत्तः, हीन इत्यादौ लकारादौ विवदन्ते तत्र "अपादाने चाहीयरुहोः'' इत्यत्र न्यासे देवदत्तस्य कर्तुरीप्सिततमत्वाभावेऽपि कर्मसंज्ञायां कर्तृग्रहणस्य स्वातन्त्र्योपलक्षणार्थत्वाद् हानक्रियायां स्वतन्त्रस्य अपादानस्येप्सिततमत्वात् कर्मणि लकारादय इति प्रपञ्चेन समर्थितम् सम्प्रदानसूत्रे कैयटेऽप्येवमुक्तमिन्दुरपि स्वयमेव हीयत इति प्रतीतेः कर्मकर्तरि लकारोऽस्त्वित्वात्याशंक्य जहातेः कर्तृस्थक्रियत्वात् कर्मण्येव लकार इति हरदत्तस्तु न्यासमतमुक्त्वा, "यद्येवं माषेष्वश्वं बध्नातीत्यत्र कर्मणोऽप्यश्वस्य वस्तुतो यद्भक्षणे स्वातन्त्र्यं तदाश्रया कर्मसंज्ञा प्राप्नोति तस्मात्कर्मकर्तर्यत्र लकार' इति उपपादितं "इह जहातिरपगमनार्थः, सा क्षुदुपघातादिना देवदत्तस्यापमे तत्समर्थाचरणम् यदा तु क्षुधादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम्' इति पुनः कुतइत्यपेक्षायां पश्चात्स्वार्थे सम्बन्ध' इति चोक्तम् 8