| YouTube Channel

एलबालुकं (elabAlukaM)

 
शब्दकल्पद्रुमः
Sanskrit
एलबालुकं,
क्ली,
(एलबालु + स्वार्थे कन् ।) सुगन्धि-द्रव्यविशेषः लालुका इति ख्यातम् तत्पर्य्यायः ।ऐलेयम् सुगन्धि हरिबालुकम् बालुकम् ५इत्यमरः
हरिवासुकम् इति तट्टीका
आलु-कम् एल्वबालुकं कपित्थत्वक् गन्धत्वक् १०कुष्ठगन्धि ११ अस्य गुणाः अत्युग्रत्वम् कषा-यत्वम् कफवातमूर्च्छातिज्वरदाहनाशित्वम् ।परमरुचिकारित्वञ्च इति राजनिर्घण्टः
कक्कोलसदृशं कुष्ठगन्धि
अस्य पर्य्यायगुणाः
“एलबालुकमैलेयं सुगन्धि हरिबालुकम् ।ऐलबालुकमेलालु कपित्थं पत्रमीरितम्
एल्वालु कटुकं पाके कषायं शीतल लघु ।हन्ति कण्डूव्रणच्छर्द्दितृट्कासारुचिहृद्रुजः
बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन्” ।इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)