| YouTube Channel

एरण्डजं (eraNDajaM)

 
शब्दकल्पद्रुमः
Sanskrit
एरण्डजं, त्रि, (एरण्डात् एरण्ड्वृक्षात् जायते इति ।एरण्ड + जन् + ।) एरण्डवृक्षजातम् तत्तैलंस्नेहमध्ये श्रेष्ठविरेचकम् यथा ।“चूर्णमध्ये त्रिवृत्चूर्णं स्वोरसे कारवेल्लकम् ।स्नेहेष्वेरण्डजं तैलं फलेष्वेव हरीतकी”
इति वाभटः
(“एरण्डजं घनञ्चापि स्वादुमेव मृदु स्मृतम् ।हृद्वस्तिजङ्घाकट्यूरुशूलानाहविबन्धनुत्
आनाहाष्ठीलवान्तासृक्प्लीहोदावर्त्तशूलिनाम् ।वातपित्तविकाराणां विदध्याच्च प्रशान्तये ।तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डसमुद्भवम्”
इति प्रथमस्थाने अष्टमेऽध्याये हारीतेनोक्तम्
)