| YouTube Channel

एडूकं (eDUkaM)

 
शब्दकल्पद्रुमः
Sanskrit
एडूकं,
क्ली,
(ईड्यते इति “उलूकादयश्च” ४१ ।उणादिसूत्रेण साधु ।) अन्तर्न्यस्तकीकसकुड्यम् ।इत्यमरः
कीकसमिव कीकसं यत् कुड्यम् छिटा-वेडा इति ख्यातमित्यन्ये इति सारसुन्दरी
कीकसमस्थि एतत् काष्ठादिकठिनद्रव्योपलक्षणंकीकसमिव कीकसं किलिञ्जादीति मधुः
“मध्यसंस्थापितास्थ्यादि कुड्यमेडूकमुच्यते” ।इति माधवः
(यथा महाभारते वनपर्ब्बणि ।“एडूकचिह्ना पृथिवी देवगृहभूषिता”
अस्य शब्दस्य पुंस्त्वमपि दृश्यते महाभारते ।१९० ६३ यथा, --“एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ।शूद्राः परिचरिष्यन्ति द्विजान् युगसंक्षये”
)