| YouTube Channel

एठ (eTha)

 
शब्दसागरः
English
एठ r. 1st cl. (एठते) To annoy, to resist or oppose.
Wilson
English
एठ r. 1st cl. (एठते) To annoy, to resist or oppose.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
एठ्
मूलधातुः:
एठ
धात्वर्थः:
विबाधायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
एठते
धातुप्रदीपः
Sanskrit
एठँ एठ
- एठते एठाञ्चक्रे ।। 264 ।।
शब्दकल्पद्रुमः
Sanskrit
एठ, बाधने इति कविकल्पद्रुमः
(भ्वादिं-आत्मंसकं-सेट् ।) बाधनं विहतिः एठते वत्सरंलोकः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
एठ बाधने भ्वादि० आत्म० अक० सेट् एठते ऐठिष्ट रठाम्बभूव आस चक्रे एठनम् एठितः बाधनमत्र शाठ्यम्
क्षीरतरङ्गिणी
Sanskrit
एठँ एठ
- एठते 260
धातुवृत्तिः
Sanskrit
एठँ एठ (अर्थः)
विपूर्वोयमिति स्वामिकाश्यपौ मैत्रेयादयस्तु केवलमेवोदाजह्रुः ( एठते एठांचक्रे एठिता एटिठिषते एठयति मा भवानिटिठत् ) द्विर्वचनात् पूर्वमुपधाह्रस्वइत्युक्तम् 264
कृदन्तरूपमाला
Sanskrit
1 {@“एठ विबाधायाम्”@} 2 3 एठकः-ठिका, एठकः-ठिका, एटिठिषकः-षिका
एठिता-त्री, एठयिता-त्री, एटिठिषिता-त्री
-- एठयन्-न्ती, एठयिष्यन्-न्ती-ती
एठमानः, एठयमानः, एटिठिषमाणः
एठिष्यमाणः, एठयिष्यमाणः, एटिठिषिष्यमाणः
एट्-एड्-एठौ-एठः
-- -- 4 एठितम्-तः, एठितः-तम्, एटिठिषितः-तवान्
एठः, एठः, एटिठिषुः, एटिठयिषुः
एठितव्यम्, एठयितव्यम्, एटिठिषितव्यम्
एठनीयम्, एठनीयम्, एटिठिषणीयम्
एठ्यम्, एठ्यम्, एटिठिष्यम्
ईषदेठः, दुरेठः, स्वेठः
-- -- एठ्यमानः, एठ्यमानः, एटिठिष्यमाणः
एठः, एठः, एटिठिषः
एठितुम्, एठयितुम्, एटिठिषितुम्
एठा, एठना, एटिठिषा, एटिठयिषा
एठनम्, एठनम्, एटिठिषणम्
5 एठित्वा, एठयित्वा, एटिठिषित्वा
समेठ्य, समेठ्य, समेटिठिष्य
एठम् २, एठित्वा २, एठम् २, एठयित्वा २, एठिठिषम्
एटिठिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१३३)
02
=>
(१-भ्वादिः-२६७। सक। सेट्। आत्म-)
03
=>
[[(अ) ‘विपूर्वोऽयमिति स्वामिकाश्यपौ। मैत्रेयादयस्तु केवलमेवोदाजह्रुः।’ इति माधवधातुवृत्तिः। अत्र स्वामिपदेन, क्षीरस्वामी ग्राह्यः, अपि तु अन्यः केशवस्वामी शिवस्वामी वा इति प्रतिभाति।]]
04
=>
[[आ। ‘अनन् कुमार्गेषु शुभाध्वनैव वन् प्रमन् भृशोत्कण्ठितगोपिके हरौ। पापमुन्भिर्बुधहेड्भिरुन्मदैरनेठितां क्ष्मां पुनरप्यहिण्डत।।’ धा। का। १-३५।]]
05
=>
[पृष्ठम्०१३६+ २७]