एकानंशा (ekAnaMzA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaएकानंशा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
व्युत्पत्तिः - > एको न अंशो यस्याः
प्रयोगाः - > "विद्धि चैनामथोत्पन्नामंशाद्देवीं प्रजापतेः । एकानंशां योगकलां रक्षार्थं केशवस्य तु ॥"
उल्लेखाः - > हरिवं० ५९-१४-४७
E Bharati Sampat
Sanskrit(स्त्री) एकः न अंशः यस्याः। पार्वती यशोदागर्भसम्भवा । ‘विद्धि चैनामथोत्पन्नां अंशाद्देवी प्रजापतेः। एकानंशां योगकलां रक्षार्थं केशवस्य तु’ हरिवं०५९.१४.४७।
Mahabharata
EnglishEkānaṃśā = Kuhū: III, 14129.
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritएकानंशा स्त्री एको न अंशोयस्याः असमर्थसमा० । अने-कशांवत्यां दुर्गायां सा च यशोदागर्भसंभूता प्रजा-पतेरशजाता । तथोक्तं हरिवं० ६० अ० यथा “नन्दगोपस्यभार्य्यैका वसुदेवस्य चापरा । तुल्यकालं हि गर्भिण्यौयशोदा देवकी तथा । देवक्यजनयद् विष्णुं यशोदातान्तु कन्यकाम्” इत्युपक्रम्य “वसुदेवस्तु संगृह्य-दारकं क्षिप्रमेव च । यशोदायागृहं रात्रौ विवेश सुत-वत्सलः । यशोदायास्त्वाविज्ञातस्तत्र निक्षिप्य दारकम् ।गृहीत्वा द रिकां ताञ्च देवकीशयने न्यसत् । परिवर्त्तेकृते ताभ्यां गर्भाभ्यां भयविक्लवः । वसुदेवः कृता-र्यो वै निर्जगाम निवेशनात् । उग्रसेनसुतायाथ कंसाया-नकदुन्दुभिः । निवेदयामास तदा कन्यां तां वरवर्णिनीम् ।तच्छ्रुत्वा त्वरितः कंसोरक्षिभिः सह वेगितः । आजगामगृहद्वारं वसुदेवस्य वीर्य्यवान् । स तत्र त्वरितं द्वारिकिं जातमिति चाब्रवीत् । दीयतां शीघ्रमित्येवं वाग्भिःसमभितर्ज्जयन् । ततो हाहाकृताः सर्व्वा देवकीभवने स्त्रि-यः । उवाच देवकी दीना वाष्पविक्लवया गिरा । दारिकापुत्त्र! जातेति कंसं समभियाचती । श्रीमन्तो मे हताःसप्तपुत्त्रगर्भास्त्वया विभो! । दारिकेयं हतैवैषा पश्यस्व यदिमन्यसे । दृष्ट्वा कंसस्तु तां कन्यामकृष्यत मुदा युतः । ह-तैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः । सा गर्भशयन-क्लिष्टागर्भाम्बुक्लिन्नमर्द्धजा । कंसस्थ पुरतोन्यस्ता पृथिव्यांपृथिवीसमा । पादे तां गृह्य पुरुषः समाविध्यावधूय च ।उद्यच्छन्नेव सहसा शिलायां समपीथयत् । साऽवधूता शिला-पृष्ठे निष्पिष्टा दिवमुत्पतत् । हित्वा गर्भतनुं सा तु स-हसा मुक्तमूर्द्धजा । जगामाकाशमाविश्य दिव्यस्रगनुलेप-ना । कन्यैव चाभवत् सा तु दिव्या देवैरभिष्टुता । नील-पीताम्बरधरा गजकुम्भोपमस्तनी । रथविस्तीर्णजघना च-न्द्रवक्त्रा चतुर्भुजा । विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा ।पयोधरस्वनवती सन्ध्येव सपयोधरा । सा वै निशितमोग्रस्तेसर्व्वभूतगणाकुले । नृत्यन्ती हसती चैव विपरीते नभस्वति ।विहायसि गता रौद्री पपौ पानभनुत्तमम् । जहास च महाहासं कंसञ्च रुषिताऽब्रवीत् । कंस कंसात्मनाशाय यदहंघातिता त्वया । सहसा च समुत्क्षिप्य शिलायामभिपो-थिता । तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा । पाट-यित्वा करैर्द्देहमुष्णं पास्याभि शोणितम् । एवनुक्त्वा वचो घो-रं सा यथेष्टेन वर्त्मना । खं सा देवालयं देवी सगणा वि-चवार ह । सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता ।पुत्रवत् पाल्यमाना सा देवदेवाज्ञया तदा । विद्धि चैनाम-थोत्पन्नामंशाद्देवीं प्रजापतेः । एकानंशां योगकन्यां र-क्षार्थं केशवस्य च । तां वै सर्व्वे सुमनसः पूजयन्ति स्मयादवाः । देवीञ्च दिव्यवपुषं कृष्णः संरक्षितो यया ।तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः” ।“सा कन्या ववृधे तत्र वृष्णिसन्मनि पूजिता । पुत्रवत्पाल्यमाना वै वसुदेवाज्ञया तदा । एकानंशा तुयामाहुरुत्पन्नां मानवाभुवि । योगकन्यां दूराधर्षाम्”इति च । वृहत्सं० मूर्त्तिलक्षणे “एकानंशा कार्य्यादेवी बलदेवकृष्णयोर्मध्ये” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
